SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ . . . श्रीजैनधर्मवरस्तोत्रम् प्रसिद्धैः सप्तक्षेत्रैः परिचितैः कृत्वा करणभूतैः । शालशब्दः दन्त्यः तालव्यश्च । क्षेत्रसप्तकोपलक्षणत्वात् 'विंशतिस्थानकैरिति । __ अत्र पूर्वभवो यथा-'जम्बूद्वीपपूर्व विदेह "पुष्कलावती'विजये 'पुण्डरीकिण्यां' पुर्या वज्रसेन-धारिण्योः पञ्च पुत्राः-वज्रनामनामा चक्री ऋषभजिनजीवः १, बाहुः भरतचक्रिजीवः साधूनामनपानानयनवैयावृत्यकरणात् चक्रिभोगफलं बद्धम् २, सुबाहुः साधूनां विश्रामणया बाहुबलजीवः बाहुबलमुपार्जितवान् ३, पीठः ब्राह्मीजीवः ४, महापीठः सुन्दरीजीवः ५, एतौ बाहुसुबाहुस्तुत्य(तिम)सहमानौ सर्वेषां 'काम वालू कइ चाम वाहूलु' इति भाषया मायया स्त्रीगोत्रवन्धं चक्रतुः । यतः-- "तद् भोजनं यद् गुरुदत्तशेषं, सा प्राज्ञता या न करोति पापम् । तत् सौहृदं यत् क्रियते परोक्षे, दम्भैर्विना यः क्रियते स धर्मः ॥१॥-इन्द्र० षष्ठस्तु सुयशा इति नाम्ना कस्यचित् राज्ञः पुत्रः वज्रनाभस्य सारथिर्गृहस्थावस्थायां श्रेयांसजीवः ६। वज्रसेनतीर्थङ्करपार्श्वे गृहीतदीक्षाः षडपि । वज्रनाभेन विंशत्या स्थानकैः तीर्थकृनामकर्म समुपार्जितम् । सर्वेऽप्यायुःक्षये 'सर्वार्थसिद्धे' देवाः (जाताः) । ततोऽत्रोत्पन्नस्त्वं भगवान् सर्वोतिशयैर्विराजस इत्यर्थः । इति सप्तविंशतितमवृत्तार्थः ॥ २७॥ १ विंशतिः स्थानका नि ज्ञाताधर्मकथाङ्गे (म० ८, सू० ६४) यथा "अरहंत-सिद्ध पवयण-गुरु-थेर-बहुस्सुए-तवस्सीसु। वच्छल्लया य तेसिं अभिक्खणाणोवओगे य ॥५१॥ दंसण विणए आवस्सए य सीलब्वए निरइयारं । खणलव तव चियाए वेयावच्चे समाही य ॥ ५२ ॥ अपपुग्वणाणगहणे सुयभत्ती पवयणे पभावणया । एएहिं कारणेहिं तित्थयरत्तं लहइ जीओ ॥ ५३॥" [महत्-सिद्ध-प्रवचन-गुरु-स्थविर-बहुश्रुत-तपस्विषु । वत्सलता च तेषामभीक्ष्णं ज्ञानोपयोगश्च ॥ दर्शनं विनय आवश्यकानि च शीलवतं निरतिचारम् । क्षणलवः तपस्त्यागो वैयावृत्त्यं समाधिश्च ॥ अपूर्वज्ञानग्रहणं श्रुतभक्तिः प्रवचने च प्रभावना । एतैः कारणैस्तीर्थकरत्वं लभते जीवः।] श्रीनेमिचन्द्रसूरिसूत्रिते प्रवचनसारोद्धारे (द्वा० १०, गा० ३१०-३१२) श्रीप्रद्युम्नसूरिविरचिते विचारसारप्रकरणे (३७तमे पृष्ठे) च क्वचित् पाठभिन्नता वर्तते । २ पीठ-महापीठौ। ३ तात्पर्यम् कर्म वल्लभं किंवा चर्म वल्लभम् । ४ 'मायया' इति पाठः ख-प्रतौ मास्ति । ५ 'परोक्षं इति ख-पाठः। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002969
Book TitleJain Dharmvar Stotra
Original Sutra AuthorBhavprabhsuri
AuthorHiralal R Kapadia
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1933
Total Pages200
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy