________________
श्रीभावप्रभसूरिकृतम्
पित्रा स्वदेवलोपित्वात् सोऽतीव मारितो बन्धितो दमितः (दून: : ) । परं विष्णुरित्येव भणति । घातकं च न लगति । ततस्तं श्रुत्वा तुष्टो विष्णुस्तस्य वरं ददौ त्वं इन्द्रो भविष्यसीति । पुनः पुनः एवं पीडयति । ततो विष्णुः स्वभक्तमेवं पीड्यमानं दृष्ट्वा मुखं सिंहस्यान्यत् सर्वं शरीरं नरस्य एवं नरसिंहरूपं धृत्वा हिरण्यकशिपोर्वक्षो विदार्य सोऽमारयत् ॥ ४ ॥
बलिनामा दैत्य इन्द्रपदप्राप्त्यर्थं शतं यज्ञानां कर्तुमारेभे । नवनवतिर्यज्ञा अखण्डा जाताः । शततमे जायमाने देवेनाचिन्ति- मया प्रह्लादस्य इन्द्रपदं दत्तम् । असौ बलिमुत्थाप्य स्वयं गृहीतेति क्रोधे उत्पन्ने देवो वामनरूपेण भूत्वा यज्ञस्थानमागत्योवाच - भो दानीश्वर ! बले! यज्ञशतविधायक! दानवेला अधुना ? ब्राह्मण ! किं याचसे ? । अंऊठक्रममात्रभूमिं मह्यं वासाय देहि । बलिना दत्ता | शुक्रोऽवदत्- बले! वामनरूपेण विष्णुरायातः त्वत्पार्श्वे याचितुम् । विशेषेण बलिः हृष्टः । तावद् वामनेन त्रिभिः क्रमैः सर्वा भूमिमाक्रम्य प्रोचे - वद अऊठतमक्रमं क मुञ्चामि । ततस्तत्पृष्ट्वैवाक्रम्य बलिः पाताले क्षिप्तः । तदा बलिनोचे - मां लोकाः कथं ज्ञास्यन्तीति यद् बलिरीदृगभूत् । ततो वामनोऽवदत् - दीपालिकायां चत्वारो दिनास्त्वद्राज्यम् । तदा त्वं राजा । अहं च द्वारे रक्षपालकः । ततोऽद्यापि तद्दिनेषु लोका गृहमध्ये बलिराजानं संस्थाप्य द्वारे छगणमयं गोइसं कुर्वन्ति गोपीशमित्यर्थः ॥ ५ ॥
सहस्रार्जुननामा क्षत्रियः सहस्रभुजः । तस्य भैग्नी रेणुका । सा बाला जमदग्निऋषिणा परिणीता । सहस्रार्जुनोऽन्यदा जमदग्नेराश्रमे ययौ । मिथो वदतो रोष उत्पन्नः । क्षत्रियाः स्वभावादतिरोषिणः । तेन ऋषिर्दुमितः । रेणुकाऽपि दुमिता तावदेव दधौ - रे दुरात्मन् ! ऋषिपीडा कृता, मया न संसह्यते इति तयोरेव परशुरामः पुत्रो भूत्वा सहस्रार्जुनं हत्वा तद्दोपेण २१ (एकविंशति)वारान् निःक्षत्रियां पृथिवीं चक्रे । इति परशुरामावतारः ॥ ६ ॥
रावणेन समग्रा पृथिवी उच्चाटिता । ततो देवः श्रीरामस्यावतारमादाय रावणं हतवान् ॥७॥ कंसादिदैत्यान् निहन्तुं देवः कृष्णावतारं जग्राह ॥ ८ ॥
बुद्धावतारः शीतलरूपः तेन म्लेच्छायतनं च ववृधे ॥ ९ ॥
612
अथ कल्क्यवतारमादाय म्लेच्छान् निर्धोटयिष्यति ॥ १० ॥ इति दशावताराः सम्पूर्णाः ॥ इति पञ्चविंशतितमवृत्तार्थः सम्पूर्णः ॥ २५ ॥
30 30
Jain Education International
32 延
१ सार्धन्निसंङ्ख्यावाचकोऽयं शब्दो गूर्जरगिरायाम् । २ 'गोइमं' इति क-पाठः । ३ " भनी स्याद् भगिन्यन्विता " इति वाचनाचार्य श्री साधुसुन्दरगणिविरचिते श्रीशब्दरत्नाकरे (का० ३, लो० १४७ ) । ४ 'निर्धादयिष्यति' इति ख- पाठः ।
For Private & Personal Use Only
www.jainelibrary.org