________________
पश्चास्तिकायः।
गामानुरूपचैतन्यपरिणामात्माभिव्यवहारेण चैतन्यपरिणामानुरूपपुद्गलपरिणामात्मभिः कर्मभिः, संयुक्तत्वात्कर्मसंयुक्त इति ॥ २७ ॥ धसहितत्वात्कर्मसंयुक्तश्च भवति । इति शब्दार्थनयार्थाः कथिता, इदानी मतार्थः कथ्यते-जीवत्वव्याख्याने "वच्छक्खरं भवसारित्थसग्गणिरयपियराय । चुल्लियहंडयिपुणमयउ णव दिढता जाय ॥” इति दोहकसूत्रकथितनवदृष्टांतैश्चार्वाकमतानुसारिशिष्यापेक्षया जीवसिद्धयर्थ अनादिचेतनागुणव्याख्यानं च तदर्थमेव । अथवा सामान्यचेतनाव्याख्यानं सर्वमतसाधारणं ज्ञातव्यं, अभिन्नज्ञानदर्शनोपयोगव्याख्यानं तु नैयायिकमतानुसारिशिष्यप्रतिबोधनार्थ मोक्षोपदेशकमोक्षसाधकप्रभुत्वव्याख्यानं वीतरागसर्वज्ञप्रणीतं वचनं प्रमाणं भवतीति “रयणदिवदिणयरुदम्हि उडु दाउपासणुसुणरुप्पफलिहउ अगणि णव दिढता जाणु" इति दोहकसूत्रकथितमवदृष्टांतैर्भट्टचार्वाकमताश्रितशिष्यापेक्षया सर्वज्ञसिद्धयर्थ, शुद्धाशुद्धपरिणामकर्तृत्वव्याख्यानं तु नीत्याकर्तृ त्वैकांतसांख्यमतानुयायिशिष्यसंबोधनार्थ भोक्तत्वव्याख्यानं कर्ता कर्मफलं न मुंक्त इति बौद्धमतानुसारिशिष्यप्रतिबोधनार्थ स्वदेहप्रमाणं व्याख्यानं नैयायिकमीमांसककपिलमतानुसारिशिष्यसंदेहविनाशार्थ अमूर्तत्वव्याख्यानं भट्टचार्वाकमतानुसारिशिष्यसंबोधनार्थ द्रव्यभावकर्मसंयुक्तत्वव्याख्यानं च सदामुक्तनिराकरणार्थमिति मतार्थो ज्ञातव्यः । आगमार्थव्याख्यानं पुनर्जीवत्वचेतनादिधर्माणां संबंधित्वेन परमागमे प्रसिद्धमेव, कर्मोपाधिजनितमिथ्यात्वरागादिरूपसमस्तविभावपरिणामांस्त्यक्त्वा निरुपाधिकेवलज्ञानादिगुणयुक्तशुद्धजीवास्तिकाय एव निश्चयनयेनोपादेयत्वेन भावयितव्य इति भावार्थः । एवं शब्दनयमतागमभावार्था व्याख्यानकाले यथासंभवं सर्वत्र ज्ञातव्याः । जीवास्तिकायसमुदायपातनिकायां पूर्व चार्वाकादिमतव्याख्यानं कृतं पुनरपि किमर्थमिति शिष्येण पूर्वषक्षे कृते सति परिहारमाहुः । तत्र वीतरागसर्वज्ञसिद्धे सति व्याख्यानं प्रमाणं प्राप्नोतीति व्याख्यानक्रमज्ञापनार्थ प्रभुताधिकारमुख्यत्वेनाधिकारनवकं सूचितं । तथा चोक्त-वक्तप्रामाण्याद्वचनप्रामाण्यमिति । अन तु सति धर्मिणि धर्माश्चित्यंत इति वचनाच्चेतनागुणादिविशेषणरूपाणां धर्माणामाधारभूते विशेष्यलक्षणे जीवे धर्मिणि सिद्धे सति तेषां चेतनागुणादिविशेषणरूपाणां एक स्वभाव होनेसे मूर्तीक विभाव परिणामरूप परिणमता है, तथापि निश्चय स्वाभाविक भावसे अमूर्त है । फिर कैसा है ? [ कर्मसयुक्तः । निश्चयनयसे पुद्गल कर्मोंका निमित्त पाकर उत्पन्न हुये जो अशुद्ध चैतन्य विभाव परिणामकर्म, उनसे संयुक्त है । व्यवहारसे अशुद्ध चैतन्य परिणामोंका निमित्त पाकर जो हुये हैं पुद्गलपरिणामरूप द्रव्यकर्म, उन सहित है। ऐसा यह संसारी आत्माका शुद्ध अशुद्ध कथन नयोंकी विवक्षासे सिद्धांतानुसार जान
१ शुद्धनिश्चयेन कर्मरहितोऽप्यनुपचरितासभूतव्यवहारेण द्रव्यकर्म संयुक्तस्वात् तथैवाशुद्धनिश्व येन रागादिरूपभावकर्मसंयुक्तो भवति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org