________________
५४
श्रीमदराजचन्द्रजैनशास्त्रमालायाम् । अत्र व्यवहारकालस्य कथंचित् परायत्तत्वे सदुपपत्तिरुक्ता;
णत्थि चिरं वा खिप्पं मत्तारहिदं तु सा वि खलु मत्ता । पुग्गलदव्वेण विणा तम्हा कालो पडुच्चभवो ॥२६॥
नास्ति चिरं वा क्षिप्रं मात्रारहितं तु सापि खलु मात्रा ।
पदलद्रव्येण विना तस्मात्काल: प्रतीत्यभवः ॥ २६ ॥ इह हि व्यवहारकाले निमिषसमयादौ अस्ति तावत् चिरं इति क्षिप्रं इति संप्रत्ययः । स खलु दीर्घह्रस्वकालनिबंधनं प्रमाणमंतरेण न संभाव्यते । तदपि प्रमाणं पुद्गलद्रव्यपगमनेप्येकसमय एव नास्ति दोषः इति ॥ २५ ॥ अथ पूर्वगाथायां यद्वयवहार कालस्य कथंचित्परायत्तत्वं कथितं तत्केन रूपेण संभवतीति पृष्टे युक्तिं दर्शयति;-पत्थि नास्ति न विद्यते । किं । चिरं वा खिप्पं चिरं बहुतरकालस्वरूपं क्षिप्रं शीघ्र च । कथंभूतं । मत्तारहियं तु मात्रारहितं परिमाणरहितं मानविशेषरहितं च तन्मात्राशब्दवाच्यं परिमाणं चिरकालस्य घटिकाप्रहारादिरिति क्षिप्रस्य सूक्ष्मकालस्य च मात्राशब्दवाच्यं परिमाणं च । किं । समयावलिकादिति । सावि खलु मत्ता पोग्गलदव्वेण विणा सूक्ष्मकालस्य या समयादिमात्रा सा मंदगतिपरिणतपुद्गलपरमाणुनयनपुटविघटनादिपुद्गलद्रव्येण विना न ज्ञायते, चिरकालघटिकादिरूपा मात्रा च घटिकानिमित्तभूतजलभाजनादिद्रव्येण विना न ज्ञायते । तम्हा कालो पडुच्च भवो तस्मात्कारणात्समयघटिकादिसूक्ष्मस्थूलरूपो व्यवहारकालो यद्यपि निश्चयेन द्रव्यकालस्य पर्यायस्तथापि व्यवहारेण परमाणुजलादिपुद्गलद्रव्यं प्रतीत्याश्रित्य निमित्तीकृत्य भव उत्पन्नो जात इत्यभिधीयते । केन दृष्टान्तेन । यथा निश्चयेन · पुद्गलपिंडोपादानकारणेन समुत्पन्नोपि घटः व्यवहारेण कुंभकारनिमित्तनोत्पन्नत्वात्कुम्भकारेण कृत इति भण्यते तथा समयादिव्यवहारकालो यद्यपि निश्चयेन परमार्थकालोपादानकारणेन समुत्पन्नः तथापि समयनिमित्तभूतपरमाणुना घटिकानिमित्तभूतजलादिपुद्गलद्रव्येण च व्यज्यमानत्वात् प्रकटीक्रियमाणत्वात्पुद्गलोत्पन्न इति भण्यते । स्वाधीन है ॥२५॥ आगे व्यवहारकालको पराधीनता किस प्रकार है सो युक्तिपूर्वक समाधान करते हैं- मात्रारहितं ] कालके परिमाण विना [ चिरं ] बहुत काल [ क्षिप्रं वा ] शीघ्रही ऐसा कालका अल्प बहुत्व [ नास्ति ] नहीं है । अर्थात्-कालकी मर्यादाके विना थोड़े बहुत कालका कथन नहीं होता । इस कारण कालके परिमाणका कथन अवश्य करना योग्य है । [ तु ] फिर [ सापि ] वह भी [ खलु ] निश्चयसे [ मात्रा ] कालकी मर्यादा [ पुद्गलद्रव्येण विना ] पुद्गल द्रव्यके विना [ "नास्ति" ] नहीं है । अर्थात्परमाणुकी मंदगति, आँखका खुलना, सूर्यादिककी चाल इत्यादि अनेक प्रकारसे जो पुद्गलद्रव्यके परिणाम हैं, उनसे ही कालका परिमाण होता है । पुद्गल द्रव्यके विना कालकी मर्यादा नहीं होती [ तस्मात् ] इस कारणसे [ कालः ] व्यवहार काल [ प्रतीत्य भवः ]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org