________________
पास्तिकायः ।
रिणाममंतरेण नावधार्यते । ततः परिणामद्योत्यमानत्वाद्व्यवहारकालो निश्चयेनानन्यात्रितोsपि प्रतीत्यभाव इत्यभिधीयते । तदत्रास्तिकायसामान्यप्ररूपणायामस्तिकायत्वाभावात्साक्षादनुपन्यस्यमानोऽपि जीवपुद्गलपरिणामान्यथानुपपच्या निश्चयरूपस्तत्परिणामायत्ततया व्यवहाररूपः कालोऽस्तिकायपञ्चकवल्लोकरूपेण परिणत इति खरतरदृष्टयाभ्युपगम्यत इति ॥ २६ ॥
इति समयव्याख्यायामं तनति-पद्रव्य - पञ्चास्तिकाय सामान्यव्याख्यानरूपः पीठबंधः समाप्तः ।
पुनरपि कचिदाह । समयरूप एव परमार्थकालो न चान्यः कालाणुद्रव्यरूप इति । परिहारमाह । समयस्तावत्सूक्ष्मकालरूपः प्रसिद्धः स एव पर्यायः न च द्रव्यं । कथं पर्यायत्वमिति चेत् । उत्पन्नप्रध्वंसित्वात्पर्यायस्य " समओ उप्पण्णपद्धंसी" ति वचनात् । पर्यायस्तु द्रव्यं विना न भवति, द्रव्यं च निश्वयेनाविनश्वरं तच्च कालपर्यायस्योपादानकारणभूतं कालाणुरूपं कालद्रव्यमेव न च पुनलादि । तदपि कस्मात् । उपादानकारणसदृशत्वात्कार्यस्य मृत्पिंडोपादानकारणसमुपघटकार्यवदिति । किंच कालशब्द एव परमार्थकालवाचकभूतः स्वकीयवाच्यं परमार्थंकालस्वरूपं व्यवस्थापयति साधयति । किंवत् । सिंहशब्दः सिंहपदार्थवत्, सर्वज्ञशब्दः सर्वज्ञपदार्थवत्, इन्द्रशब्द इन्द्रपदार्थवदित्यादि । पुनरप्युपसंहाररूपेण निश्चयव्यवहारकालस्वरूपं कथ्यते । तद्यथा—समयादिरूप सूक्ष्मव्यवहारकालस्य घटिकादिरूपस्थूलव्यवहारकालस्य च यद्युपादानकारणभूतकालस्तथापि समयघटिकारूपेण या विवक्षिता व्यवहारकालस्य भेदकल्पना तया रहितस्त्रिकालस्थायित्वेनानाद्यनिधनो लोकाकाशप्रदेशप्रमाणकालाणु द्रव्यरूपः परमार्थकालः I यस्तु निश्चयकालोपादानकारणजन्योपि पुद्गलपरमाणुजलभाजनादिव्यज्यमानत्वात्समयघटिकादिवसादिरूपेण विवक्षितव्यवहारकल्पनारूपः स व्यवहारकाल इति । अत्र व्याख्यानेऽतीतानंतकाले दुर्लभो योऽसौ शुद्धजीवास्तिकायस्तस्मिन्नेव चिदानंदैककालस्वभावे सम्यकश्रद्धानं रागादिभ्यो भिन्नरूपेण भेदज्ञानं रागादिविभावरूपसमस्तसंकल्पविकल्पजालत्यागेन तत्रैव स्थिरचित्तं च कर्तव्य - मिति तात्पर्यार्थः ।। २६ ।। इति व्यवहारकालव्याख्यानमुख्यत्वेन गाधाद्वयं गतं । अत्र पंचा
पुद्गलद्रव्यके निमित्तसे उत्पन्न, ऐसा कहा जाता है । भावार्थ - पुद् गलद्रव्यकी आदिअंत क्रियासे व्यवहारकाल गिन लिया जाता है । परंतु पर्याय निश्चयकालकी ही है । यद्यपि यह काल कायके अभावसे पंचास्तिकाय में नहीं कहा, तथापि जान लेना चाहिये कि - लोककी सिद्धि षड्द्रव्योंके विना नहीं होती, क्योंकि - जीव पुद्गलकी परणतिकी सिद्धि निश्चयकालके सहाय विना नहीं होती । और जीव पुद्गलके नवजीर्ण परिणामकी मर्यादा विना व्यवहारकालकी सिद्धि नहीं होती । इस कारण कालद्रव्यका स्वरूप जो जिनमती हैं उनको भलीभांति सूक्ष्मदृष्टिसे जानना चाहिये ॥ २६ ॥ इति श्रीसमयसारके व्याख्यान में पड़द्रव्यपंचास्ति० सामान्य व्या० पूर्ण हुआ ॥ १ ॥
Jain Education International
५५
For Private & Personal Use Only
www.jainelibrary.org