________________
पञ्चास्तिकायः।
अत्रासत्प्रादुर्भावमुत्पादस्य सदुच्छेदत्वं विगमस्यै निषिद्धं
भावस्स णस्थि णासों णस्थि अभावस्स चेव उप्पादो। गुणपजयेसु भावा उप्पादवए पकुवंति ॥१५॥
भावस्य नास्ति नाशो नास्ति अभावस्य चैव उत्पादः ।
गुणपर्यायेषु भावा उत्पादव्ययान् प्रकुर्वन्ति ॥ १५ ॥ भावस्ये सतो हि द्रव्यस्य न द्रव्यत्वेन विनाशः। अभावस्यासतोऽन्यद्रव्यस्य न द्रव्यत्वेनोत्पादः । किं तु भावाः सन्ति द्रव्याणि सदुच्छेदमसदुत्पादं चान्तरेणैव गुणपर्यायेषु विनाशमु-पादं चारभन्ते । यथा हि घृतोत्पत्तौ गोरसस्य सतो न विनाशः इत्येकसूत्रेण सप्तभंगीव्याख्यानं । एवं चतुर्दशगाथासु मध्ये स्थलपंचकेन प्रथमसप्तकं गतं । अथ सति धर्मिणि धर्माश्चित्यन्ते द्रव्यं नास्ति सप्तभंगाः कस्य भविष्यंतीति बौद्धमतानुसारिशिष्येण पूर्वपक्षे कृते सति परिहाररूपेण गाथापातनिकां करोति द्रव्यार्थिकनयेन सतः पदार्थस्य विनाशो नास्त्यसत उत्पादो नास्तीतिवचनेन क्षणिकैकान्तबौद्धमतं निषेधयति;-भावस्स णन्थि णासो णत्थि अभावस्स चेव उप्पादो यथा गोरसस्य गोरसद्रव्यरूपेणोत्पादो नास्ति विनाशोपि नास्ति गुणपजएसु व भावा उप्पादवये पकुव्वंति तथापि वर्णरसगंधस्पर्शगुणेषु वर्णरसगंधांतरादिरूपेण परिणामिषु नश्यति नवनीतपर्याय उत्पद्यते च घृतपर्यायः तथा सतो विद्यमानभावस्य पदार्थस्य जीवादिद्रव्यत्य द्रव्यार्थिकनयेन द्रव्यत्वेन नास्ति विनाशः, नास्त्यसतोऽविद्यमानभावस्य पदार्थस्य जीवादिद्रव्यस्य द्रव्यार्थिकनयेन द्रव्यत्वेनोत्पादः तथापि गुणपर्यायेष्वधिकरणभूतेषु भावाः पदार्था जीवादिषद्रव्याणि कर्तृणि पर्यायार्थिकनयेन विवक्षितनरनारकादिद्वयणुकादिगतिस्थित्यवगाहनवर्तनादिरूपेण यथासंभवमुत्पादव्ययान् प्रकुर्वन्ति । अत्र षड्द्रव्येषु मध्ये शुद्धपारिणामिकपरमभावग्राहकेण शुद्धद्रव्यार्थिकनयेनेति वा पाठः । निश्चयनयेन क्रोध[ भावस्य ] सवरूप पदार्थका [ नाशः ] नाश [ नास्ति ] नहीं है । च एव ] और निश्चयसे [ अभावस्य ] अवस्तुका [ उत्पादः ] सपजना [ नास्ति ] नहीं है । यदि ऐसा है तो वस्तुके उत्पादव्यय किसप्रकार होते हैं ? सो दिखाया जाता है । [ भावाः ] जो पदार्थ हैं वे [ गुणपर्यायेषु ] गुणपर्यायोंमें ही [ उत्पादव्ययान् । उत्पाद और व्यय । प्रकुर्वन्ति ] करते हैं । भावार्थ-जो वस्तु है उसका तो नाश नहीं है और जो वस्तु नहीं है, उसका उत्पाद ( उपजना ) नहीं है। इसकारण द्रव्यार्थिकनयसे न तो द्रव्य उपजता है और न विनशता है । और जो त्रिकाल अविनाशी द्रव्यके उत्पादव्यय होते हैं, वे पर्यायार्थिक नयकी विवक्षाकर गुणपर्यायोंमें जानने । जैसे
१ व्ययस्य विनाशस्य वा. २ भावस्येति पदस्य कोऽर्थः ? तद्यथा-सतो हि द्रव्यस्येत्यनेन विद्यमानस्य द्रव्यत्वेन न विनाश इत्यर्थः ।
५ पञ्चा०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org