________________
श्रीमद्राजचन्द्रजैनशास्त्रमालायाम् ।
स्वद्रव्यक्षेत्र कालभावैः परद्रव्यक्षेत्रकालभावैश्च युगपत्स्वपरद्रव्यक्षेत्रकालमा वैश्वादिष्टमस्ति च नास्ति चावक्तव्यं च द्रव्यमिति । नचैतदनुपपन्नम् । सर्वस्य वस्तुनः स्वरूपादिना अशून्यत्वात्पररूपादिना शून्यत्वात् उभाभ्यामशून्यशून्यत्वात् सहवोच्यत्वात् भंगसंयोगार्पणायामशून्यवाच्यत्वात् शून्यावाच्यत्वात् अशून्यशून्यावाच्यत्वाच्चेति ॥१४॥ प्रश्नोत्तरवशेन । तथाहि - अस्तीत्यादिसप्तप्रश्नेषु कृतेषु सत्सु स्यादस्तीत्यादिसप्तप्रकारपरिहारवशेनेत्यर्थः । इति प्रमाणसप्तभंगी । एकमपि द्रव्यं कथं सप्तभङ्गयात्मकं भवतीति प्रश्ने परिहारमाहुः । ययैोपि देवदत्तो गौण मुख्यविवक्षावशेन बहुप्रकारो भवति । कथमिति चेत् । पुत्रापेक्षया पिता भण्यते सोपि स्वकीयपित्रापेक्षया पुत्रो भण्यते मातुलापेक्षया भागिनेयो भण्यते स एव भागिनेयापेक्षया मातुलो भण्यते भार्यापेक्षया भर्ता भण्यते भगिन्यपेक्षया भ्राता भण्यते विपक्षापेक्षया शत्रुर्भण्यते इष्टापेक्षया मित्रं भण्यत इत्यादि । तथैकमपि द्रव्य गौणमुख्यविवावशेन सप्तमंग्यात्मकं भवतीति नास्तिदोष इति सामान्यव्याख्यानं । सूक्ष्मव्याख्यानविवक्षायां पुनः सदेकनित्यादिधर्मेषु मध्ये एकैकधर्मे निव्द्धे सप्तभंगा वक्तयः । कयमिति चेत् । स्यादस्ति स्यान्नास्ति स्यादस्तिनास्ति स्यादवक्तव्यमित्यादि । स्यादेकं स्यादनेकं स्यादेकानेकं स्यादवक्तव्यमित्यादि स्यान्नित्यं स्यान्नित्यानित्यं स्यादवक्तव्यमित्यादि । तत्केन दृष्टान्तेनेति कथ्यते ययै कोपि देवदत्तः स्यात्पुत्रः स्यादपुत्रः स्यात्पुत्रापुत्र स्यात्पुत्रोऽवक्तञ्यः स्यात्पुत्रापुत्रोऽवक्तव्यश्चेति सूक्ष्मI स्यादस्ति व्याख्यानविवक्षायां सप्तभङ्गीव्याख्यानविवक्षायां सप्तभङ्गीव्याख्यानं ज्ञातव्यं द्रव्यमिति पठनेन वचनेन प्रमाणसप्तभंगी ज्ञायते । कथमितिचेत् । स्यादस्तीति सकलवस्तुग्राहकत्वात्प्रमाणवाक्यं स्यादस्त्येव द्रव्यमिति वस्त्वेकदेशग्राहकत्वान्न वाक्यं । तथाचोक्तं । सकलादेशः प्रमाणाधीनो विकलादेशो नयाधीन इति । अस्ति द्रव्यमिति दुःप्रमाणवाक्यं असत्येव द्रव्यमिति दुर्नयवाक्यं । एवं प्रमाणादिवाक्यचतुष्टयव्याख्यानं बोद्धव्यं । अत्र सप्तभंग्यात्मकं षद्रव्येषु मध्ये शुद्धजी वास्तिकायाभिधानं शुद्धात्मकद्रव्यमुपादेयमिति भावार्थः ॥ १४ ॥ स्वपरचतुष्टयकी अपेक्षा अस्तिनास्तिस्वरूप है तथापि अवक्तव्य है । इन सप्तभङ्गका विशेष स्वरूप जिनागमसे ( अन्यान्य जैनशास्त्रोंसे ) जान लेना । हमसे अल्पज्ञों की बुद्धिमें विशेष कुछ नहीं आता है। कुछ संक्षेप मात्र कहते हैं । जैसे कि एक ही पुरुष पुत्र की अपेक्षा पिता कहलाता है और वही पुरुष अपने पिताकी अपेक्षा पुत्र कहलाता है और वही पुरुष मामाकी अपेक्षा भाणजा कहलाता है और भाणजे की अपेक्षा मामा कहलाता है । स्त्रीकी अपेक्षा भरतार ( पति ) कहलाता है । बहनकी अपेक्षा भाई भी कहलाता है । तथा वही पुरुष अपने वैरीकी अपेक्षा शत्रु कहलाता है और इष्टकी अपेक्षा मित्र भी कहलाता है । इत्यादि अनेक नातोंसे एक ही पुरुष कथंचित् अनेक प्रकार कहा जाता है उसही प्रकार एक द्रव्य सप्तभङ्गके द्वारा साधा जाता है ॥ १४ ॥
३२
१ अयुक्तम् । २ अस्तित्वात् । ३ नास्तित्वात् । ४ अस्तिनास्तिरूपेण सह एकस्मिन्समावेशशून्यत्वात् । ५ द्वाभ्यां अस्तिनास्तिभ्यां अस्तिनास्तित्वात् । ६ अस्विनास्त्यादिभङ्गयां योज्यमानायाम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org