________________
श्रीमद्गगजचन्द्रजैनशास्त्रमालायाम् क्षणिकतया वा विद्यमानमात्रं वस्तु । सर्वथा नित्यस्य वस्तुनस्तत्त्वतः क्रमभुवां भावानामभावात्कुतो विकारवत्त्वम् । सर्वथा क्षणिकस्य च तत्त्वतः प्रत्यभिज्ञानाभावात् कुत एकसंतानत्वम् । ततः प्रत्यभिज्ञानहेतुभूतेन केनचित्स्वरूपेण ध्रौव्यमालम्ब्यमानं काभ्यांचित्कर्मप्रवृत्ताभ्यां स्वरूपाभ्यां प्रलीयमानमुपजायमानं चैककालमेव परमार्थतस्त्रितयीमवस्थां बिभ्राणं वस्तु सदवबोध्यम् । अत एव सत्ताप्युत्पादव्ययध्रौव्यात्मिकाऽवबोद्धव्या । भावभाववतोः कथंचिदेकस्वरूपत्वात् । सा च त्रिलक्षणस्य समस्तस्यापि वस्तुविस्तारस्य सादृश्यसूचकत्वादेका । सर्वपदार्थस्थिता च । त्रिलक्षणस्य सदित्यभिधानस्य सदिति |त्ययस्य च सर्वपदार्थेषु तन्मूलस्यैवोपलम्भात् । सविश्वरूपा च विश्वस्य समस्तवस्तुविस्तारस्यापि रूपैस्त्रिलक्षणैः स्वभावैः सह वर्तमानत्वात् । अनन्तपर्याया चानन्ताभिर्द्रव्यपर्यायव्यक्तिभिस्त्रिलक्षणाभिः परिगम्यमानत्वात् । एवंभूतापि सा न खलु निरङ्कशा किं तु सप्रतिपक्षा । प्रतिपक्षो ह्यसत्ता सत्तायाः, अत्रिलक्षणत्वं विलक्षणायाः, अनेकत्वमेकस्याः, एकपदार्थस्थितत्वं सर्वपदार्थस्थितायाः, एकरूपत्वम् सर्वविश्वरूपायाः, एकपर्यायत्वमनन्तपर्यायाया इति । द्विविधा हि सत्ता महासत्तावान्तरसत्ता च । तत्र सर्वयमध्ये तस्यैवाधिकारसूत्रस्य द्रव्यगुणपर्यायव्याख्यानमुख्यत्वेन "भावा जीवादीया" इत्यादि सूत्रमेकं अथ मनुष्यादिपर्यायस्य विनाशोत्पादकत्वेपि ध्रुवत्वेन विनाशो नास्तीति कथनरूपेण "मणुअत्तणेण" इत्यादि सूत्रमेकं । अथ तस्यैव दृढीकरणार्थ “सो चेव" इत्यादि सूत्रमेकं । अथैवं द्रव्यार्थिकनयेन सदसतोविनाशोत्पादौ न स्तः पर्यायार्थिकनयेन पुनर्भवत इति नयद्वयव्याख्यानोपसंहाररूपेण "एवं सदो विणासो" इत्यादि उपसंहारगाथासूत्र मेकं इति द्वितीयस्थले समुदायेन गाथाचतुष्टयं, तदनन्तरं तृतीयस्थले सिद्धस्य पर्यायार्थिकनयेनासदुत्पादमुख्यतया "णाणावरणादीया" इत्यादि सूत्रमेकं, अथैवं चतुर्थस्थले द्रव्यरूपेण नित्यत्वेपि पर्यायाथिकनयेन संसारिजीवस्य देवत्वाद्युत्पादव्ययकर्तृत्वव्याख्यानोपसंहारमुख्यत्वेन द्रव्यपीठिकासमाप्त्यर्थ वा “एवं भावं" इत्यादि गाथासूत्रमेकं, इति समुदायेन चतुर्भिःस्थलैद्धितीयसप्तकं गतं । एवं चतुर्दशगाथाभिनवभिरन्तरस्थलैद्रव्यपीठिकायां समुदायपातनिका । तद्यथा । अथास्तित्वस्वरूपं निरूपयति, अथवा सत्तामूलानि द्रव्याणीति कृत्वा पूर्व सत्तास्वरूपं भणित्वा पश्चात् द्रव्यव्याख्यानं करोमीत्यभिप्राय मनसि धृत्वा सूत्रमिदं प्रतिपादयति भगवान् ;-हवदि भवति । का कौं । सत्ता सत्ता । कथंभूता । सव्वपदस्था सर्वपदार्था । पुनरपि कथंभूता। सविस्सरूवा सविश्वरूपा । पुनरपि किंविशिष्टा । अणंतपजाया अनंतपर्याया। पुनरपि किंविशिष्टा । भंगुप्पादधुवत्ता [ सर्वपदस्था ] समस्त पदार्थों में स्थित है [ सविश्वरूपा ] नाना प्रकारके स्वरूपोंसे संयुक्त है [ अनन्तपर्याया ] अनन्त हैं परिणाम जिसमें ऐसी है [ भङ्गोत्पादधौ
१ निश्चयात् स्वभावात्. २ पर्यायाणाम्. ३ पूर्वानुभूतदर्शनेन जायमानं ज्ञान प्रत्यभिज्ञानम् . ४ पर्यायाभ्याम्. ५ पर्यायव्ययोः परिणामपरिणामिनोर्वा. ६ उसादव्ययधीपयुकस्य ७ अस्य तयोराधारभूतस्य सद्गुणस्य. ८ व्यापकत्वात् ।
Jain Education International
www.jainelibrary.org
For Private & Personal Use Only