________________
श्रीमद्राजचन्द्रजैनशास्त्रमालायाम् संबन्धेनाभिधीयमानो वस्तुतयैकोऽभिधेयः । सफलत्वं तु चतसृणां नारकतिर्यग्मनुष्यदेवत्वलक्षणानां गतीनां निवारणत्वात् , साक्षात पारतंत्र्यनिवृत्तिलक्षणस्य निर्वाणस्य शुद्धात्मतत्वोपलम्मरूपस्य परम्परया कारणत्वात् , स्वातंत्र्यप्राप्तिलक्षणस्य च फलस्य सद्भावादिति ॥ २ ॥
सकलकर्मविमोचनलक्षणनिर्वाणं । इत्थंभूतं शब्दसमयं कथंभूतं । "गंभीरं मधुरं मनोहरतरं दोषव्यपेतं हितं, कण्ठोष्ठादिवचोनिमित्तरहितं नो वातरोधोद्गगतं । स्पष्टं तत्तदभीष्टवस्तुकथकं निःशेषभाषात्मकं, दूरासन्नसमं समं निरुपम जैनं वचः पातु नः" ॥ तथाचोक्तं । “एनाज्ञानतमस्ततिविघटते ज्ञेये हिते चाहिते, हानादानमुपेक्षणं च समभूत्तस्मिन् पुनः प्राणिनः । येनेयं दृगपैति तां परमतां वृत्तं च येनानिशं, तज्ज्ञानं मम मानसाम्बुजमुदे स्तात्सूर्यवर्योदयः ॥” इत्यादि गुणविशिष्टवचनात्मकं नत्वा किं करोमि । वोच्छामि वक्ष्यामि । कं । अर्थसमयं सुणुह शृणुत यूयं हे भव्या इति क्रियाकारकसंबंधः । अथवा द्वितीयव्याख्यानं । श्रमणमुखोद्गतं पञ्चास्तिकायलक्षणार्थसमयप्रतिपादकत्वादर्थ परंपरया चतुर्गतिनिवारणं चतुर्गतिनिवारणत्वादेव सनिर्वाणं एषोऽहं प्रन्थकरणोद्यतमनाः कुण्डकुन्दाचार्यः प्रणम्य नमस्कृत्य नत्वा । केन । शिरसा मस्तकेनोत्तमाङ्गेन । कं प्रणम्य। पूर्वोक्तभवणमुखोद्गतादिविशेषणचतुष्टयसंयुक्तं समयं शब्दरूपं द्रव्यागममिमं प्रत्यक्षीभूतं तं शब्दसमयं प्रणम्य । पश्चात् किं करोमि । वक्ष्यामि कथयामि प्रतिपादयामि शृणुत हे भव्या यूयं । कं वक्ष्यामि । तमेव शब्दसमयवाच्यमर्थसमयं शब्दसमयं नत्वा पश्चादर्थसमयं वक्ष्ये ज्ञानसमयप्रसिद्धयर्थमिति । वीतरागसर्वज्ञमहाश्रमणमुखोद्गतं शब्दसमयं कश्चिदासन्नभव्यः पुरुषः शणोति शब्दसमयवाच्यं पश्चात्पश्चास्तिकायलक्षणमर्थसमयं जानाति तदन्तर्गते शुद्धजीवास्तिकायलक्षणेथे वीतरागनिर्विकल्पसमाधिना स्थित्वा चतुर्गतिनिवारणं करोति चतुर्गतिनिवारणादेव निर्वाणं लभते स्वात्मोत्थमनाकुलत्वलक्षणं निर्वाणफलभूतमनन्तसुखं च लभते जीवस्तेन कारणेनायं द्रव्यागमरूपशब्दसमयो नमस्कतुं व्याख्यातुं च युक्तो भवति । इत्यनेन व्याख्यानक्रमेण संबन्धाभिधेयप्रयोजनानि सूचितानि भवन्ति । कथमिति चेत् । विवरणरूपमाचार्यवचनं व्याख्यानं, गाथासूत्रं व्याख्येयमिति व्याख्यानव्याख्येयसंबन्धः । द्रव्यागमरूपशब्दसमयोऽभिधानं वाचकः तेन शब्दसमयेन वाच्यः पंचास्तिकायलक्षणोर्थसमयोऽभिधेय इति अभिधानाभिधेयलक्षणसंबंधः। फलं प्रयोजनं चाज्ञानविच्छित्त्यादि निर्वाणसुखपयन्तमिति संबन्धाभिधेयप्रयोजनानि ज्ञातव्यानि भवन्तीति भावार्थः ॥ २ ॥ एवमिष्टाभिमतदेवतानमस्कारमुख्यतया गाथाद्वयेन प्रथमस्थलं गतं ।
योंका निवारण करनेवाला है, अर्थात् संसारके दुःखोंका विनाश करनेवाला है । फिर कैसा है आगम ?-[ सनिर्वाणं ] मोक्षफलकर सहित है; अर्थात् शुद्धात्मतत्त्वकी प्राप्तिरूप मोक्षपदका परंपरायकारणरूप है, इस प्रकार भगवत्प्रणीत आगमको नमस्कार करके पंचास्तिकायनामक समयसारको कहूंगा । आगम दो प्रकारका है:-एक अर्थसमयरूप है, दूसरा शब्दसमयरूप है। शब्दसमयरूप जो आगम है सो अनेक शब्दसमय
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org