________________
श्रीमद् राजचन्द्रजैनशास्त्रमालायाम् तिशयानामपि योगीन्द्राणां वन्द्यत्वमुदितम् । जितो भव आजवं जवो यरित्यनेन तु कृतक
तदयुक्तं, पूर्वाचार्या इष्टदेवतानमस्कारपुरस्सरमेव कार्य कुर्वन्ति, यदुक्तं भवता नमस्कारे कृते पुण्यं भवति पुण्येन निर्विघ्नं भवति इति नच वक्तव्यं तदप्ययुक्तं । कस्मात् । देवतानमत्कारकरणे पुण्यं भवति तेन निर्विघ्नं भवतीति तर्कादिशाने व्यवस्थापितत्वात् । पुनश्च यदुक्तं त्वया व्यभिचारो दृश्यते वदप्ययुक्तं । कस्मादितिचेत् । यत्र देवतानमस्कारदानपूजादिधर्मे कृतेपि विघ्नं भवति तत्रेदं ज्ञातव्यं पूर्वकृतपापस्यैव फलं तत् नच धर्मदूषणं, यत्र पुनर्देवतानमस्कारदानपूजादिधर्माभावेपि निर्विघ्नं दृश्यते तत्रेदं ज्ञातव्यं पूर्वकृतधर्मस्यैव फलं तत् नच पापस्य । पुनरपि शिष्यो ब्रूतेशास्त्रं मंगलममंगलं वा ? मंगलं चेत्तदा मंगलस्य मंगलं किं प्रयोजनं, यद्यमंगलं तर्हि तेन शास्त्रेण किं प्रयोजनं । आचार्याः परिहारमाहुः-भक्त्यर्थ मंगलस्यापि मंगलं क्रियते । तथाचोक्तं “प्रदीपेनार्चयेदमुदकेन महोदधिम् । वागीश्वरों तथा वाभिमंगलेनैव मंगलम् ।। १ ॥" किंच । इष्टदेवतानमस्कारकरणे प्रत्युपकारं कृतं भवति । तथाचोक्तं -“श्रेयोमार्गस्य संसिद्धिः प्रसादात्परमेष्ठिनः। इत्याहुस्तद्गुणस्तोत्रं शाखादो मुनिपुंगवाः॥" "अभिमतफलसिद्धरभ्युगाया सुबोधः स च भवति सुशाबात्तस्य चोत्पत्तिराप्तात् । इति भवति स पूज्यस्तत्प्रसादाप्रबुद्धिने हि कृतमुपकारंसाधवो विस्मरन्ति ।।" इति संक्षेपेण मंगलं व्याख्यातं । निमित्तं कथ्यते निमित्तं कारणं । वीतरागसर्वज्ञदिव्यध्वनिशाने प्रवृत्ते किं कारणं ? भव्यपुण्यप्रेरणात् । तथाचोक्त "छत्रणवपयत्ये सुयणाणाइञ्चदिव्वते एण । पस्संतु भवजीवा इय सुअरविणो हवे उदओ।" अथ प्राभृतग्रंथे शिबकुमारमहाराजो निमित्तं अन्यत्र द्रव्यसंग्रहादौ मोमाश्रेष्ठयादि ज्ञातव्यं । इति संक्षेपेण निमित्तं कथितं । इदानी हेतुव्याख्यानं । हेतुः फलं । हेतुशब्देन फलं कथं भण्यत इति चेत् । फलकारणात्फ उमुपचारात् । तच्च फलं द्विविधं प्रत्यक्षपरोक्षभेदात् । प्रत्यक्षफलं द्विविधं साक्षात्परंपराभेदेन । साक्षात्प्रत्यक्षं कि ? अज्ञानविच्छित्तिः संज्ञानोत्पत्त्यसंख्यातगुणश्रेणिकमनिर्जरा इत्यादि । परंपराप्रत्यक्षं किं ? शिष्यप्रतिशिष्यपूजाप्रशंसाशिष्यनिष्पत्त्यादि । इति संक्षेपेण प्रत्यक्षफलं । इदानी परोक्षफलं भण्यते । तच्च द्विविधं अभ्युदयनिश्रेयससुखभेदात् । अभ्युदयसुखं कथ्यते। अष्टादशश्रेणीनां पतिः स एव मुकुटधरः कथ्यते, तस्माद्विगुणद्विगुणक्रमेण सकलचकिपर्यत इति अभ्युदयसुखं । अथ निश्रेयससुखं कथ्यते "ख विदघणघाइकम्मा चउतीसातिसया पंचकल्लाणा। अट्ठ महापाडिहेरा अरहंता मंगलं मझं ॥" सिद्धपदं कथ्यते "मूलुत्तरपयडोणं बंधोदयसत्तकम्म उम्मुक्का । मंगलभूदा सिद्धा अट्ठगुणातीदसंसारा ॥" इति संक्षेपेण अभ्युदयनिश्रेयससुख कथितं । इदमत्र तात्पर्ययत्कोपि वीतरागसवाप्रणीतपंचास्तिकायसंग्रहादिकं शास्त्रं पठति श्रद्धत्ते तथैव च भावयति सच इत्थंभूतं सुखं प्राप्नोतीत्यर्थः। इदानी परिमाणं प्रतिपाद्यते । तच्च द्विविधं ग्रंथार्थभेदात् । ग्रन्थपरिमाणं ग्रन्थसंख्या यथासंभवं,अर्थपरिमाणमनन्तमिति संक्षेपेण परिमाणं भणितं । नाम कथ्यते । नाम
क्षावस्थाको) प्राप्त नहिं हुये, उन पुरुषोंको शरणरूप हैं. ऐसे जो जिन हैं तिनको
१ पातिकर्मापायातिशयप्रतिपादनेन. २ कृतकार्यत्वप्रकाशनात् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org