________________
श्रीमद्राजचन्द्रजैनशास्त्रमालायाम् । दोषास्पदत्वाद्विशदवाक्यम् । दिव्यो ध्वनिर्येषामित्यनेन समस्तवस्तुयाथात्म्योपदेशित्वात्प्रेथावत्प्रतीक्ष्यत्वमाख्यानम् । अन्तमतीतः क्षेत्रानवच्छिन्नः कालानवच्छिन्नश्च परमचैतन्य
रूपपारमार्थिकसुखरसास्वादपरमसमरसीभावरसिकजनमनोहारित्वान्मधुरं चलितप्रतिपत्तिगच्छत्तणस्पर्शशुक्तिकारजतविज्ञानरूपसंशयविमोहविभ्रमरहितत्वेन शुद्धजीवास्तिकायादिसप्ततत्त्वनवपदार्थषड्द्र्व्यपश्चास्तिकायप्रतिपादकत्वात् अथवा पूर्वापरविरोधादिदोषरहितत्वात् अथवा कर्णाटमागधमालवलाटगौडगुर्जरप्रत्येकं त्रयमित्यष्टादशमहाभाषासप्तशतक्षुल्लकभाषातदन्तर्भेदगतबहुभाषारूपेण युगपत्सर्वजीवानां स्वकीयस्वकीयभाषायाः स्पष्टार्थप्रतिपादकत्वात्प्रतिपत्तिकारकत्वात् सर्वजीवाना झापकत्वात् विशदं स्पष्ट व्यक्तं वाक्यं दिव्यध्वनिर्येषां त्रिभुवनहितमधुरविषदवाक्यास्तेभ्यः । तथाचोक्तं । “यत्सर्वात्महितं न वर्णसहितं न स्पन्दितोष्ठद्वयं,नो वांछाकलितं न दोषमलिनं नोच्छवासरुद्धक्रमं । शान्तामर्ष विषैः समं पशुगणैराकर्णितं कर्णिभिस्तन्नःसर्वविदो विनष्टविपदः पायादपूर्व वचः ॥१॥" इत्यनेन वचनातिशयप्रतिपादनेन तद्वचनमेव प्रमाणं न चैकान्तेनापौरुषेयवचनं न चित्रकथाकल्पितपुराणवचनं चेतीत्युक्तं भवति । अन्तातीत द्रव्यक्षेत्रकालभावपरिच्छेदकत्वादन्तातीतं केवलज्ञानगुणः स विद्यते येषां तेन्तातीतगुणास्तेभ्य इत्यनेन ज्ञानातिशयप्रतिपादनेन बुद्धयादिसप्तर्द्धिमतिज्ञानादिचतुर्विधज्ञानसंपन्नानामपि गणधरदेवादियोगीन्द्राणां वंद्यास्ते भवन्तीत्युक्तं । जितो भवः पश्वप्रकारसंसार आजवं जवो यैस्ते जितभवास्तेभ्य इत्यनेन घातिकर्मापायातिशयप्रतिपादनेन कृतकृत्यत्वप्रकटनादन्येषामकृतकृत्यानां त एव शरणं नान्य इति प्रतिपादितं भवति । एवं विशेषणचतुष्टययुक्तेभ्यो नमः । इत्यनेन मंगलार्थमन्तज्ञानादिगुणस्मरणरूपो भावनमस्कारः कृतः । इदं विशेषणचतुष्टयं अनेकमवगहनविषयव्यसनप्रापणहेतून् कर्मारातीन् जयतीति जिनः इति व्युत्पत्तिपक्षे श्वेतशंखवत्स्वरूपकथनार्थ, अव्युत्पत्तिपक्षे नामजिनव्यवच्छेदनार्थं । एवं विशेष्यविशेषणसंबंधरूपेण शब्दार्थः कथितः । अनन्तज्ञानादिगुणस्मरणरूपभावनमस्कारोऽशुद्धनिश्चयनयेन, नमो जिनेभ्य इति वचनात्मकद्रव्यनमस्कारोप्यसद्भूतव्यवहारनयेन, शुद्धनिश्चयनयेन स्व. स्मिन्मेवाराध्याराधकभाव इति नयार्थोप्युक्तः। त एव नमस्काराहानान्ये चेत्यादिरूपेण मतार्थोप्युक्तः । इन्द्रशतवन्दिता इत्यागमार्थः प्रसिद्ध एव । अनन्तज्ञानादिगुणयुक्तशुद्धजीवास्तिकायमेवोपादेय इति भावार्थः। अनेन प्रकारेण शब्दमयमतागमभावार्थः। अनेन प्रकारेण शब्दनयमतागमभावार्थ व्याख्यानका सर्वत्र योजनीयमिति संक्षेपेण मंगलार्थमिष्टदेवतानमस्कारः कृतः । मंगलमुपलक्षणं निमित्तहेतुपरिमाणनामकर्तृरूपा पञ्चाधिकाराः यथासंभवं वक्तव्याः । इदानीं पुनर्विस्तररुचिशिष्याणां व्यवहारनयमाश्रित्य यथाक्रमेण मंगळादिषडधिकाराणामियत्तापरिमितविशेषणव्याख्यानं क्रियते"मंगलणिमित्हेऊ-परिमाणा णाम तह य कतारं । वागरिय छप्पि पच्छा वक्खाणड वेभ्यः ] जीता है पंचपरावनिरूप अनादि संसार जिन्होंने, अर्थात्-जो कुछ करना १यः सर्वाणि चराचराणि विविधाब्याणि तेषां गुणान्, पर्यायानपि भूतभाविभवतः सर्वान् सदा सर्वतः । पानीले पुषपत् प्रतिक्षणमतः सर्वश इत्युच्यते, सर्वज्ञाय बिनेश्वराय महते वीराय तस्मै नमः ॥१॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org