________________
पञ्चास्तिकायः ।
पगम्यात्यन्तं कृतकृत्यो भूत्वा परमनैष्कर्म्यरूपे शुद्धस्वरूपे विश्रान्त इति श्रद्धीयते ॥ १७३॥ स्वशक्तिसंसूचितवस्तुतत्त्वैर्व्याख्या कृतेयं समयस्य शब्दैः । स्वरूपगुनस्य न किंचिदस्ति कर्तव्यमेवामृतचन्द्रसूरेः ॥ ८ ॥
इति श्रीपंचास्तिकायव्याख्यायां श्रीमदमृतचन्द्रसूरिविरचितायां नवपदार्थ पुरस्सर मोक्षमार्गप्रपञ्चवर्णनात्मको द्वितीयः श्रुतस्कन्धः समाप्तः ॥ २ ॥
समाप्तेयं तत्त्वदीपिका टीका पंचास्तिकायस्य ।
संस्कारानंतरमाचाराराधनाकथितक्रमेण द्रव्यभावसल्लेखनां करोति तदा सल्लेखनाकाल, सल्लेखना - नंतरं चतुर्विधाराधनाभावनया समाधिविधिना कालं करोति तदा स उत्तमार्थकालचेति । अत्रापि केचन प्रथमकालादावपि चतुर्विधाराधनां लभते षट्कालनियमो नास्ति । अयमंत्र भावार्थ: "आदा खु मज्झ गाणे आदा मे दंसणे चरिते य । आदा पञ्चक्खाणे आदा मे संवरे जोगे । ” एवं प्रभृत्यागमसारादर्थपदानामभेदरत्नत्रयप्रतिपादकानामनुकूलं यत्र व्याख्यानं क्रियते तदध्यात्मशास्त्रं भण्यते, तदाश्रिताः षटकाला: पूर्व संक्षेपेण व्याख्याताः । वीतरागसर्वज्ञप्रणीतषड् द्रव्यादिसम्यक् श्रद्धानज्ञानत्रताद्यनुष्ठानभेद रत्नत्रयस्वरूपं यत्र प्रतिपाद्यते तदागमशास्त्रं भण्यते । तच्चाभेदरत्नत्रयात्मकस्याध्यात्मानुष्ठानस्य बहिरंगसाधनं भवति । तदाश्रिता अपि षटकाला संक्षेपेण व्याख्याता, विशेषेण पुनरुभयत्रापि षटकालव्याख्यानं पूर्वाचार्य कथितक्रमेणान्यथेषु ज्ञातव्यं ॥
इति श्री जयसेनाचार्यकृतायां तात्पर्यवृत्तौ प्रथमतस्तावदेकादशोत्तरशतगाथाभिरष्टभिरं तराधिकारैः पंचास्तिकायष द्रव्यप्रतिपादकनामा प्रथम महाधिकारः । तदनंतर पंचाशद्गाथाभिर्दशभिरंतराधिकारैर्नवपदार्थप्रतिपादकाभिधानो द्वितीयो महाधिकारः । तदनंतरं विंशतिगाथाभिर्द्वादशस्थलैर्मोक्षस्वरूप मोक्षमार्ग प्रतिपादकाभिधानस्तृतीयम हाधिकारश्चेत्यधि कारत्रयसमुदायेनैकाशीत्युत्तरशतगाथाभिः पंचास्तिकाय प्राभृतः समाप्तः । विक्रमसंवत् १३६९ वर्षे श्विनशुद्धिः १ भौमदिने । समाप्तेयं तात्पयवृत्तिः पञ्चास्तिकायस्य ।
प्रारम्भ किया था सो उसके पारको प्राप्त हुये अपनी कृतकृत्य अवस्था मानो, कर्मरहित शुद्धस्वरूपमें स्थिरभाव किया । ऐसी हमारेमें भी श्रद्धा उपजी है ।। १७३ ॥
"
इति श्रीपांडे हेमराजकृत समयव्याख्यायां भाषाटीकायां नवपदार्थ पुरःसर मोक्षमार्ग पञ्चवर्णनो नाम द्वितीयः श्रुतस्कन्धः समाप्तः ॥२॥
समाप्ता इयं बालावबोधिनी भापाटीका |
Jain Education International
२५५
समाप्तोऽय ग्रन्थः XXXXXXXXBRZ
For Private & Personal Use Only
www.jainelibrary.org