________________
२५४
श्रीमद्राजचन्द्रजैनशास्त्रमालायाम् ।
समस्तवस्तुतत्त्वसूचकत्वादति विस्तृतस्यापि प्रवचनसारस्य सारभूतं पश्चास्तिकायसंग्रहाभिधान भगवत्सर्वज्ञोपज्ञत्वात् सूत्रमिदमभिहितं मयेति । अथैवं शास्त्रकारः प्रारब्धस्यान्तभेदेन विधेति वचनात् । अथवातिसंक्षेपेण द्विधा ध्यातारो भवन्ति। शुद्धात्मभावनाप्रारंभकाः पुरुषाः सूक्ष्मसविकल्पावस्थायां प्रारब्धयोगिनो भण्यन्ते । निर्विकल्पशुद्धात्मावस्थायां पुनर्निष्पन्नयोगिन इति संक्षेपेणाध्यात्मभाषया ध्यातृध्यानध्येयानि संवरनिर्जरासाधकरागादिविकल्परहितपरमानंदैकलझणसुखवृद्धिनिर्विकारस्वसंवेदनज्ञानवृद्धिबुद्धथादिसप्तर्द्धिरूपध्यानफलभेदा ज्ञातव्याः । किं च । शिक्षकप्रारंभककृताभ्यासनिष्पन्नरूपेण कैश्चिदन्यत्रापि यदुक्तं ध्यातृपुरुषलक्षणं तदत्रैवांतर्भूतं यथासंभवं द्रष्टव्यमिति । इदानीं पुनरागमभाषया षटकालाः कथ्यते । यदा कोपि चतुर्विधाराधनाभिमुखः सन् पंचाचारोपेतमाचार्य प्राप्योभयपरिग्रहरहितो भूत्वा जिनदीक्षा गृह्णाति तदा दीक्षाकालः, दीक्षानंतरं चतुर्विधाराधनापरिज्ञानार्थमाचाराराधनादिचरणकरणग्रन्थशिक्षा गृह्णाति तदा शिक्षाकालः, शिक्षानंतरं चरणकरणकथितार्थानुष्ठानेन व्याख्यानेन च पंचभावनासहितः सन् शिष्यगणपोषणं करोति तदा गणपोषणकालः, । भावनाः कथ्यंते-तप.श्रतसत्त्वैकत्वसंतोषभेदेन भावनाः पंच विधा भवंति । तद्यथा - अनशनादिद्वादशविधनिर्मलतपश्चरणं तपोभावना, तस्याः फलं विषयकषायजयो भवति । प्रथमानियोगचरणानियोगकरणानियोगद्रव्यानियोगभेदेन चतुर्विध आगमाभ्यासः श्रुतभावना । तथाहि-त्रिषष्टिशलाकापुरुषपुराणव्याख्यानं प्रथमानियोगो भण्यते, उपासकाध्ययनाचाराधनादिग्रन्थैर्दशचारित्रस कलचारित्रव्याख्यानं चरणानियोगो भण्यते, जिनांतरत्रिलोकसारलोकविभागलोकानियोगादिव्याख्यानं कर. णानियोगो भण्यते, प्राभृततत्त्वार्थसिद्धान्तग्रन्थैर्जीवादिषडद्रव्यादीनां व्याख्यानं द्रव्यानियोग इति, तस्याः श्रुतभावनायाः फलं जीवादितत्त्वविषये संक्षेपेण हेयोपादेयतत्त्वविषये वा संशयविमोहविभ्रमरहितो निश्चलपरिणामो भवति । उक्तं च । “आत्महितास्था भावस्य संवरो नवनवश्व संवेगः निःकंपता तपोभावना परस्योपदेशनं ज्ञातुः" ।। मूलोत्तरगुणाद्यनुष्ठानविषये निर्गहनवृत्तिः सत्त्वभावना, तस्याः फलं घोरोपसर्गपरीषहप्रस्तावेपि निर्गहनेन मोक्षं साधयति पांडवादिवत् । "एगो मे सस्मदो अप्पा गाणदंसणलक्खयो । सेसा मे बाहिरा भावा सव्वे संजोमल. क्खणा ॥" इत्येकत्वभावना तस्याः फलं स्वजनपरजनादौ निर्मोहत्वं भवति । तथा चोक्तं । "भगिनी विडंब्यमानां यथा विलोक्यैकभावनाचतुरः । जिनकल्पितो न मूढः क्षपकोपि तथा न मुह्येत" ॥ मानापमानममताबलेनाशनपानादौ यथालाभेन संतोषभावना तस्याः फलं रागाधुपाधिरहितपरमानंदै कलमणात्मोत्थसुखतृप्त्या निदानबंधादिविषयसुखनिवृत्तिरिति, गणपोषणानंतरं स्वकीयगणं त्यक्त्वात्मभावनासंस्कारार्थी मूत्वा परगणं गच्छति तदात्मसंस्कारकालः, आत्ममोक्षमार्गका उद्योत किया है । सिद्धान्तानुसार संक्षेपसे भक्तिपूर्वक पश्चास्तिकाय नामा मूल सूत्र-ग्रन्थ कहा है. । इसप्रकार ग्रन्थकर्ता श्रीकुन्दकुन्दाचार्य महाराजने यह अन्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org