________________
पञ्चास्तिकायः।
२५३
मार्गो हि परमवैराग्यकरणप्रवणा पारमेश्वरी परमाज्ञा । तस्याः प्रभावनं प्रख्यापनद्वारेण प्रकृष्टपरिणतिद्वारेण वा समुद्योतनं तदर्थमेव परमागमानुरागवेगप्रचलितमनसा संक्षेपतः किंविशिष्टं ? प्रवचनसारं । किमर्थं ? मार्गप्रभावनार्थमिति । तथाहि-मोक्षमार्गो हि संसारशरीरभोगवैराग्यलक्षणो निर्मलात्मानुभूतिस्तस्याः प्रभावनं स्वयमनुभवनमन्येषां प्रकाशनं वा तद्र्थमेव परमागमभक्तिप्रेरितेन मया कर्तृभूतेन पंचास्तिकायशास्त्रमिदं व्याख्यातं । किं लक्षणं ? पंचास्तिकायषडद्रव्यादिसंक्षेपेण व्याख्यानेन समस्तवस्तुप्रकाशकत्वात् द्वादशांगस्यापि प्रवचनस्य सारभूतमिति भावार्थः ।। १७३ ॥ इति ग्रंथसमाप्तिरूपेण द्वादशस्थले गाथा गता।
एवं तृतीय महाधिकारः समाप्तः ॥ ३ ॥ अथ यतः पूर्व संक्षेपरुचिशिष्यसंबोधनार्थ पंचास्तिकायप्राभृतं कथितं ततो यदा काले शिक्षां गृह्णाति तदा शिष्यो भण्यते इति हेतोः शिष्यलक्षणकथनार्थ परमात्माराधकपुरुषाणां दीक्षा शिक्षाव्यवस्थाभेदाः प्रतिपाद्यते । दीक्षाशिक्षागणपोषणात्मसंस्कारसल्लेखनोत्तमार्थभेदेन षटकाला भवंति । तद्यथा । यदा कोप्यासन्नभव्यो भेदाभेदरत्नत्रयात्मकमाचार्य प्राप्यात्माराधनार्थ बाह्याभ्यंतरपरिग्रहपरित्यागं कृत्वा जिनदीक्षां गृह्णाति स दीक्षाकालः, दीक्षानंतरं निश्चयव्यवहाररत्नत्रयस्य परमात्मतत्वस्य च परिज्ञानार्थ तत्प्रतिपादकाध्यात्मशास्त्रेषु यदा शिक्षां गृह्णाति स शिक्षाकालः । शिक्षानंतरं निश्चयव्यवहारमोक्षमार्गे स्थित्वा तदर्थिनां भव्यप्राणिगणानां परमात्मोपदे
शेन यदा पोषणं करोति स च गणपोषणकालः । गणपोषणानन्तरं गणं त्यक्त्वा यदा निजपरमात्मनि शुद्धसंस्कारं करोति स आत्मसंस्कारकालः । आत्मसंस्कारानंतरं तदर्थमेवक्रोधादिकषायरहितानंतज्ञानादिगुणलक्षणपरमात्मपदार्थे स्थित्वा रागादिविकल्पानां सम्यग्लेखनं तनुकरणं भावसल्लेखना तदर्थ कायक्लेशानुष्ठानं द्रव्यसल्लेखना तदुभयाचरणं स सल्लेखनाकालः सल्लेखनानंतरं विशुद्धज्ञानदर्शनस्वभावात्मद्रव्यसम्यकश्रद्धानज्ञानानुष्ठानबहिर्द्रव्येच्छानिरोधलक्षणतपश्चरणरूपनिश्चयचतुर्विधाराधना या तु सा चरमदेहस्य तद्भवमोक्षयोग्या तद्विपरीतस्य भवांतरमोक्षयोग्या चेत्युभयमुत्तमार्थकालः । अत्र कालषटूकमध्ये केचन प्रथमकाले केचन द्वितीयकाले केचन तृतीयकालादौ केवलज्ञानमुत्पादयंतीति कालषट्कनियमो नास्ति । अथवा “ध्याता ध्यानं फलं ध्येयं यत्र यस्य यदा यथा । इत्यष्टागांनि योगानां साधनानि भवंति च" । अस्य संक्षेपव्याख्यानं "गुप्तेद्रियमना ध्याता ध्येयं वस्तु यदा स्थितं । एकाग्रचिंतनं ध्यानं फलं संवरनिर्जरे" ।। इत्यादि तत्वानुशासनध्यानग्रन्थादौ कथितमार्गेण जघन्यमध्यमोत्कृष्टभेदेन त्रिधा ध्यातारो ध्यानानि च भवंति। तदपि कस्मात् ? तत्रैवोक्तमास्ते द्रव्यक्षेत्रकालभावरूपा ध्यानसामग्री जघन्यादिग्रन्थ रचना की है ? [ मार्गप्रभावनार्थं । जिनेन्द्र भगवन्तप्रणीत जिनशासनकी वृद्धिके लिये । भावार्थ-संसार - विषयभोगसे परम वैराग्यकी करनेवाली भगवन्तकी आज्ञाका नाम मोक्षमार्ग है। उसकी प्रभावनाके लिये यह ग्रन्थ मैंने किया है। अथवा उसही
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org