________________
श्रीमदराजचन्द्रजैनशास्त्रमालायाम् ।
षट्कापक्रमयुक्तः उपयुक्तः सप्तमङ्गसद्भावः ।
अष्टाश्रयो नवार्थो जीवो दशस्थानको भणितः ॥ ७२ ॥ युग्मम् । __स खलु जीवो महात्मा नित्यचैतन्योपयुक्तत्वादेक एव । ज्ञानदर्शनभेदाद्विविकल्पः । कर्मफलकार्यज्ञानचेतनाभेदेन लक्ष्यमाणत्वात्रिलक्षणः ।ध्रौव्योत्पादविनाशभेदेन वा। चतसृषु गतिषु चंक्रमणत्वाचतुश्चक्रमणः । पञ्चभिः पारिणामिकौदयिकादिभिरग्रगुणैः प्रधानस्वात् पञ्चाग्रगुणप्रधानः। चतसृषु दिसू मधश्चेति भवांतरसंक्रमणषटकेनापक्रमेण युक्तत्वात् षट्कापक्रमयुक्तः । अस्तिनास्त्यादिभिः सप्तभङ्गः सद्भावो यस्यति सप्तभङ्गसद्भावः। जीवो बहुशरीरेषु भिन्नभिन्नरूपेण दृश्यत इति । परिहारमाह । बहुषु जलघटेषु चंद्रकिरणोपाधिवशेन जलपुद्गला एव चंद्राकारेण परिणता न चाकाशस्थचंद्रमाः । अत्र दृष्टांतमाह । यथा देवदत्तमुखोपाधिवशेन नानादर्पणानां पुद्गला एव नानामुखाकारेण परिणमन्ति न च देवदत्तमुखं नानारूपेण परिणमति, यदि परिणमति तदा दर्पणस्थं मुखप्रतिबिंबं चैतन्यं प्राप्नोति न च तथा तथैकचंद्रमा अपि नानारूपेण न परिणमतीति । किं च । न चैकब्रह्मनामा कोपि दृश्यते प्रत्यक्षेण यश्चंद्रवन्नानारूपेण भविष्यति इत्यभिप्रायः । सो दुवियप्पो दर्शनज्ञानभेदद्वयेन संसारिमुक्तद्वयेन भव्याभव्यद्वयेन वा स द्विविकल्पः तिलक्खणो हवदि ज्ञानकर्मकर्मफलचेतनात्रयेणोत्पादव्ययध्रौव्यत्रयेण ज्ञानदर्शनचारित्रत्रयेण द्रव्यगुणपर्यायत्रयेण वा त्रिलक्षणो भवति । चदुसंकमो य भणिदो यद्यपि शुद्धनिश्चयनयेन निर्विकारचिदानंदैकलक्षणसिद्धगतिस्वभावस्तथापि व्यवहारेण मिथ्यात्वरागादिपरिणतः सन्नरकादिचतुर्गतिसंक्रमणो भणितः। पंचग्गगुणप्पहाणो य यद्यपि निश्चयेन क्षायिकशुद्धपारिणामिकभावद्वयलक्षणस्तथापि सामान्येनौदयिकादिपंचाग्रगुणप्रधानश्च ॥ छक्कावकमजुत्तो षट्केनापक्रमेण युक्तः अस्य वाक्यस्यार्थः कथ्यते - अपगतो विनष्टः विरुद्धक्रमः प्रांजलत्वं यत्र स भवत्यपक्रमो वक्र इति ऊर्ध्वाधोमहादिकचतुष्टयगमनरूपेण षड्विधेनापक्रमेण मरणांते युक्त इत्यर्थः। सा चैवानुश्रेणिगतिरिति । सत्तभंगसब्भावो स्यादस्तीत्यादि सप्तभंगीसद्भावः। अट्ठासवो यद्यपि निश्चयेन वीतरागलक्षणनिश्चयसजाता है । फिर वह ही जीवद्रव्य [ विलक्षणः ] कर्मचेतना, कर्मफलचेतना, ज्ञानचेतना इन तीन भेदोंसे संयुक्त होनेसे तथा उत्पाद, व्यय, ध्रौव्य गुण संयुक्त होनेसे तीन प्रकार भी [ भवति । होता है । फिर वह ही जीवद्रव्य [चतुश्चंक्रमणा भणितः ] चार गतियों में परिभ्रमण करता है, इस कारण चार प्रकार भी कहा जाता है । फिर वह ही जीव [ पञ्चाग्रगुणप्रधानश्च | पांच औदयिकादि भावोंसे संयुक्त है इस कारण पांच प्रकारका भी कहा जाता है। फिर वह ही जीवद्रव्य [ षटकापक्रमयुक्तः ] छह दिशाओंमें गमन करनेवाला है अतः चार दिशायें और एक ऊपर, एक नीचा इन छह दिशाओंके भेदसे छह प्रकारका भी है। फिर वही जीव सप्तभङ्गसद्भावः उपयुक्तः ] सप्तभङ्गी वाणीसे साधा जाता है, इस कारण सात प्रकार भी
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org