________________
. पञ्चास्तिकायः । वस्तु यत्प्रत्यक्षेण जानाति तन्मनःपर्ययज्ञानं तच्च कतिविधं ? विउलमदी पुण गाणं अञ्जव. णाणं च दुविह मणणाणं ऋजुमतिविपुलमतिभेदेन द्विविधं मनःपर्ययज्ञानं, तत्र विपुलमतिज्ञानं परकीयमनोवचनकायगतमर्थ वक्रावकं जानाति, ऋजुमतिश्च प्राञ्जलमेव निर्विकारात्मोपलब्धिभावनासहितानां चरमदेहमुनीनां विपुलमतिर्भवति । एदे संजमलद्धी एतौ मनःपर्ययौ संयमलब्धी उपेक्षासंयमे सति लब्धिर्ययोस्तौ संयमलब्धी मनःपर्ययौ भवतः । तौ च कस्मिन् काले समुत्पद्यते ? उवओगे उपयोगे विशुद्धपरिणामे । कस्य । अप्पमत्तस्स वीतरागात्मतत्त्वसम्य
श्रद्धानज्ञानानुष्ठानभावनासहितस्य । “विकहा तहा कसाया" इत्यादि गाथोक्तपंचदशप्रमादरहितस्याप्रमत्तमुनेरिति । अत्रोत्पत्तिकाल एवाप्रमत्तनियमः पश्चात्प्रमत्तस्यापि संभवतीति भावार्थः ॥४॥
णाणं णेयणिमित्तं केवलणाणं ण होदि सुदणाणं ।
णेयं केवलणाणं गाणाणाणं च णत्थि केवलिणो ॥ ५॥ केवलणाणं गाणं णेयणिमित्तं ण होदि केवलज्ञानं यज्ज्ञानं तद्घटपटादिलेयार्थमाश्रित्य नोत्पद्यते । तर्हि श्रुतज्ञानस्वरूपं भविष्यति । ण होदि सुदणाणं यथा केवलज्ञानं ज्ञेयनिमित्तं न भवति तथा श्रुतज्ञानस्वरूपमपि न भवति। णेयं केवलणाणं एवं पूर्वोक्तप्रकारेण ज्ञेयं ज्ञातव्यं केवलज्ञानं । अयमत्रार्थः । यद्यपि दिव्यध्वनिकाले तदाधारेण गणधरदेवादीनां श्रुतज्ञानं परिणमति तथापि तच्छ्रुतज्ञानं गणधरदेवादीनामेव न च केवलिनां केवलज्ञानमेव । णाणाणाणं च णत्थि केवलिणो न केवल श्रुतज्ञानं नास्ति केवलिनां ज्ञानाज्ञानं च नास्ति, कापि विषये ज्ञानं कापि विषये पुनरझानमेव न किंतु सर्वत्र ज्ञानमेव । अथवा मतिज्ञानादिभेदेन नानाभेदं ज्ञानं नास्ति किंतु केवलज्ञानमेकमेवेति । अत्र मतिज्ञानादिभेदेन यानि पंचज्ञानानि व्याख्यातानि तानि व्यवहारेणेति, निश्चयेनाखंडेकज्ञानप्रतिभास एवात्मा निर्मघादित्यवदिति भावार्थः ॥ ५ ॥ एवं मत्यादिपंचज्ञानव्याख्यानरूपेण गाथापंचकं गतं ।। अधाज्ञानत्रयं
मिच्छत्ता अण्णाणं अविरदिभावो य भावआवरणा ।
णेयं पडुच्च काले तह दुण्णय दुप्पमाणं च ॥ ६ ॥ मिच्छत्ता अण्णाणं द्रव्यमिथ्यात्वोदयात्सकाशाद्भवतीति क्रियाध्याहारः । किं भवति ? अण्णाणं अविरदिभावों य ज्ञानमप्यज्ञानं भवति । अत्राज्ञानशब्देन कुमत्यादित्रयं प्राह्यं । न केवलमज्ञानं भवति । अविरतिभावश्च अव्रतपरिणामश्च । कथंभूतान्मिथ्यात्वोदयादज्ञानमविरतिभावश्च भवति । भावावरणा भावस्तत्त्वार्थश्रद्धानलक्षणं भावसम्यक्त्वं तस्यावरणं झंपनं भावावरणं तस्माद्भावावरणाद्भावमिथ्यात्वादित्यर्थः । पुनरपि किं भवति मिथ्यात्वाद ? तह दुण्णय दुप्पमाणं च यथैवाज्ञानमविरतिभावश्च भवति तथा सुनयो दुर्नयो भवति, प्रमाणं दुःप्रमाणं च भवति । कदा भवति ? काले तत्त्वविचारकाले । किं कृत्वा ? पडुच्च प्रतीत्याश्रित्य । किमाश्रित्य ? णेयं ज्ञेयमूतं जीवादिवस्त्विति । अत्र मिथ्यात्वाद्विपरीतं तत्त्वार्थश्रद्धानरूपं निश्चय
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org