________________
८६
श्रीमदाबचन्द्रजैनशाखमालायाम् । उपलब्धिर्भावना तथोपयोगश्च, मतिज्ञानावरणीयक्षयोपशमजनितार्थग्रहणशक्तिरूपलब्धि होतेथे पुनः पुनश्चिंतनं भावना नीलमिदं पीतमिदं इत्यादिरूपेणार्थप्रहणव्यापार उपयोगः तह एव चदुवियप्पं तथैवावग्रहहावायधाराणाभेदेन चतुर्विधं बरकोष्टबीजपदानुसारिसंभिन्नश्रोतृताबुद्धिभेदेन वा दंसणपुव्वं हवदि णाणं तच्च मतिज्ञानं सत्तावलोकदर्शनपूर्वकमिति । अत्र निर्विकारशुद्धानुभूत्यभिमुखं यन्मतिज्ञानं तदेवोपादेयभूतानंतसुखसाधकत्वाग्निश्चयेनोपादेयं तत्साधकं बहिरंगं पुनर्व्यवहारेणेति तात्पर्य ॥ १॥
सुदणाणं पुण णाणी भणंति लद्धी य भावणा चेव ।
उवओगणयवियप्पं णाणेय य वत्थु अत्थस्स ।। २ ।। सुदणाणं पुण गाणी भणंति स एव पूर्वोक्तात्मा श्रुतज्ञानावरणीयक्षयोपशमे सति यन्मूर्तामूर्त वस्तु परोक्षरूपेण जानाति तत्पुनः श्रुतज्ञानं ज्ञानिनो भणन्ति । तच कथंभूतं । लद्धी य भावणा चेव लब्धिरूपं च भावनारूपं चैव । पुनरपि किंविशिष्टं । उवओगणयवियप्पं उपयोगविकल्पं नयविकल्पं च उययोगशब्देनात्र वस्तुप्राहकं प्रमाणं भण्यते, नयशब्देन तु वस्त्वेकदेशवाहको ज्ञातुरभिप्रायो विकल्पः । तथा चोक्तं । नयो ज्ञातुरभिप्रायः । केन कृत्वा वस्तुप्राहकं प्रमाणं वस्त्वेकदेशवाहको नय इति चेत् । णाणेय य ज्ञातृत्वेन परिच्छेदकत्वेन प्राहकत्वेन वत्थु अत्थस्स सकलवस्तुग्राहकत्वेन प्रमाणं भण्यते अर्थस्य वस्त्वेकदेशस्य । कथंभूतस्य । गुगपर्यायरूपस्य ग्रहणेन पुनर्नय इति । अत्र विशुद्धज्ञानदर्शनस्वभावशुद्धात्मतत्त्वस्य सम्यकाद्धानज्ञानानुचरणाभेदरत्नत्रयात्मकं यदावश्रुतं तदेवोपादेयभूतपरमात्मतत्त्वसाधकत्वानिश्चयेनोपादेयं तत्साधकं बहिरंगं तु व्यवहारेणेति तात्पर्य ।। २ ।।
ओहिं तहेव घेप्प देसं परमं च ओहिसव्वं च । __तिण्णिवि गुणेण णियमा भवेण देसं तहा णियदं ॥ ३ ॥ ओहिं तहेव घेप्पदु अयमात्मावधिज्ञानावरणक्षयोपशमे सति मूर्त वस्तु यत्प्रत्यक्षेण जानाति तदवधिज्ञानं भवति, तावत् यथापूर्वमुपलब्धिभावनोपयोगरूपेण त्रिधा श्रुतझानं व्याख्यातं तथा साप्यवधिर्भावनां विहाय त्रिधा गृह्यतां ज्ञायतां भवद्भिः । देसं परमं च ओहि सव्वं च अथवा देशावधिपरमावधिसर्वावधिभेदेन त्रिधावधिज्ञानं किन्तु परमावधिसर्वावधिद्वयं चिदुच्छलननिर्भरानंदरूपपरमसुखामृतरसास्वादसमरसीभावपरिणतानां चरमदेहतपोषनानां भवति तथाचोकं- “परमोही सव्वोही चरमसरीरस्स विरदस्स" । तिण्णिवि गुणेण णियमा त्रयोप्यवधयो विशिष्टसम्यक्त्वादिगुणेन निश्चयेन भवन्ति । भवेण देसं तहा मियदं भवप्रत्ययेन योऽवधिदेवनारकाणां स देशावधिरेव नियमेनेत्यभिप्रायः ।। ३ ।।
विउलमदी पुण गाणं अजवणाणं च दुविह मणणाणं ।
एदे संजमलद्धी उवओगे अप्पमत्तस्स ॥४॥ विउलमदी अयमात्मा पुनः मनपर्ययज्ञानावरणीयक्षयोपशमे सति परकीयमनोमतं मूर्त
Jain Education International
www.jainelibrary.org
For Private & Personal Use Only