________________
७२
१३, ६२-८७ ]
त्रयोदश अध्याय मक्षिका वा पतङ्गो पा यद्वाऽप्यन्यः सरीसृपः । सेनाले निपतेते किश्चिद्भूयमाने वधं वदेत् ॥ ६२ शुष्क प्रदह्यते यदा वृष्टिश्चाप्यपवर्षति । ज्वाला धूमाभिभूता तु ततः सैन्यो(सेना) निधर्तते ॥ ६३ युद्धं' प्रदक्षिणं देवा यदि गच्छंति वा दिशम् । राज्ञो विजयमाचष्टे यामतस्तु पराजयम् ॥ ६४ जुबत्यनुपसंपन्नस्थानं तु यत् पुरोहितः । जित्वा शत्रून रणे" सर्वान् राजा तुष्टो निवर्तते ॥ ६५ *यस्य था सम्प्रयातस्य प्रमुख पृष्ठतोऽपि वा । पतत्युल्का सनिर्धाता षधं तस्य निवेदयेत् ॥ ६६ सेनां यान्ति प्रयातां यां कव्यादाश्च जुगुप्सिताः । अभीक्ष्णं विस्वरा घोरा सा सेना वध्यते परैः॥ ६७ प्रयाणे निपतेदुल्का प्रतिलोमा यदा चमूम् । निवर्तयति मासेने तत्र यात्रा न सिध्यते ॥ ६८
छिन्ना भिन्ना प्रदृश्येत यदा संप्रस्थिता चमूः । निवर्तयेत स शीघ्नं न सा सिद्ध्यति कुत्रचित् ॥ ६९ यस्याः प्रयाणे सेनायाः सनिर्घाता मही चलेत् । न तया संप्रयातव्यं साऽपि वध्येत सर्वशः ॥ ७० अग्रतस्तु सपाषाणं तोयं वर्षति वासवः । सङ्घामं घोरमत्यन्तं" जयं राज्ञा शंसति ॥ ७१ प्रतिलोमो" यदा वायुः सपाषाणो रजस्करः । निवर्तयति प्रस्थाने परस्परजयावहः ॥ मारुतो दक्षिणो वापि(ति) यदा हन्ति परां चमूम् । प्रस्थितो प्रमुखं तस्य विन्द्यात् तत्र पराजयम् ॥७३ यदा सूर्यात् परं" सेनां समागत्य महाजनः । तस्य विजयमाख्याति भद्रबाहुवचो यथा ॥ ७४ हीनाङ्गा जटिला बद्धा व्याधिताः पापपांशवः । षण्ढाः पापस्वरा ये च प्रयाणे ते तु निन्दिताः॥ ७५ ननं प्रव्रजितं दृष्टा मङ्गलं मङ्गलार्थिना । कुर्यादमङ्गलं यस्तु तस्य सोऽपि न मङ्गलम् ॥ ७६ पीडितोऽपचयं कुर्यादाक्रुष्टो वध-बन्धनम् । ताडितो मरणं दद्याद् वासितो रुदितं तथा ॥ ७७ पूजितः सोत्तराङ्गेन लाभं राज्ञः समादिशेत् । तस्मात्तु मङ्गलं कुर्यात् प्रशस्तं साधुदर्शन ॥ ७८ देवतं तु यदा बाह्यं राजा सत्कृत्यै स्खं पुरम् । प्रवेशयति तद्राजा बाह्यस्तु लभते पुरम् ॥ ७९ विजयन्यो विवर्णाश्च राज्ञो बाह्यो यदा ग्रहः । पराजयं समाख्याति तस्मात् तां परिवर्जयेत् ॥ ८० सर्वार्थेषु प्रमत्तश्च यो भवेत् पृथिवीपतिः । हितं न शृणुतश्चापि तस्य विन्द्यात् पराजयम् ॥ ८१ अभिद्रवन्ति यां सेनां विखरं मृगपक्षिणः । इश्व-मानुष-शृगाला वा सा सेना वध्यते परैः ॥ ८२ भनं दग्धं च शकटं यस्य राज्ञः प्रयायिनः । देवोपसृष्टं जानीयान्न तत्र गमनं शिवम् ॥ ८३ उल्का वा विद्युतोऽभ्रं वा कनकाः सूर्यरश्मयः । स्तनितं यदि वा छिद्रं सा सेना वध्यते परैः॥ ८४ प्रयातायास्तु सेनाया यदि कश्चिनिवर्तते । चतुःपदो द्विपदो वा न सा यात्रा विशिष्यति ॥ ८५ प्रयातो यदि वा राजा निपतेद् वाहनात् कचित् । अन्यो वाऽपि गजाऽ-श्वो वा साऽपि यात्रा जुगुप्सित ८६ क्रव्यादाः पक्षिणो यत्र निलीयन्ते ध्वजादिषु । निवेदयन्ति ते राज्ञस्तस्य घोरं चमूवधम् ॥ ८७
1A नृपनेः। 2 A युद्धं; C जुहुयात् ।। 3 A प्रदद्ये; C प्राप्यते। 4 C वृष्टिम्। 5C वायुः । 6 C उपसर्पति। 7 D जुहुत। 8 A°सर्पणं; C सख्यं; D°साणं । 9-10 C शत्रुगणान् । * A BD यस्यां चमू प्रवर्तीयां। 11 A या सेना; B मासेना; Dसा सेना। 12 A D शिष्यते । C not found in this Ms. 13 C°तले। 14 C आख्याति । 15 A B राजश्व राष्ट्रस्य । 16C संप्रति। 17 AB D अप्रतिलोमः। 18 C तु या; D तु याति । 19 C परा; D अपरं । 20 A B D सेना। 21 A BD बाधिताः। 22C येपि वासवः, D पापसंभवः। 230 रुधिरं । 24 B D सो तरंगेण; C ततः सम्यक् । 25A R; B D°°1 26-27 A B कुर्यान साधु; D साधु साधुः। 28 A B D°मंगलम्। 29 A देवतं; B दैवतं । 30A वारा; B वाह्या; D बाया। 31 B स्वीकृत्य। C not found in this Ms. SCदिशि दितां समाश्रित्य । 32Cखरैः। 33Aन शिष्यते। 34 A दक्षिणः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org