________________
०
०
०
२४
भद्रबाहुसंहिता
[ १३, ८८-११४ मुहुर्मुहुर्यदा राजा निवर्तन्तो निमित्तितः । प्रयातः परचक्रेण सोऽपि वध्येत संयुगे ॥ ८८ *यदा राज्ञः प्रयातस्य रथश्च पथि भज्यते । युगाद्यं चोपकरणं तस्य राज्ञो वधं दिशेत् ॥ प्रयाणे पुरुषा वाऽपि यदि नश्यन्ति सर्वशः । सेनाया बहुशश्वाऽपि हता दैवेन सर्वशः ॥ यदा राज्ञः प्रयातस्य दानक' कुरुते जनः । हिरण्यव्यवहारेषु साऽपि यात्रा न सिध्यते ॥ प्रवरं घातयेद् भृत्यं प्रयाणे यदि पार्थिवः । अभिषिञ्चेत् सुतं चापि चमूस्तस्यापि वध्यते ॥ विपरीतं यदा कुर्यात् सर्वकार्य मुहुर्मुहुः । तदा तेन परित्रस्ता सा सेना परिवर्तते ।।
परिवर्तेद् यदा वातः सेनामध्ये यदा यदा । तदा तेन परित्रस्ता सा सेना परिवर्तते ॥ विशाखा-रोहिणीभ्यां तु नक्षत्रैरुत्तरैश्च यत् । पूर्वाह्ने च प्रयातस्य हतसैन्यो निवर्तते ॥ पुष्येण मैत्रयोगेनं योऽश्विन्यां च नराधिपः । अपराहे विनिर्याति वाञ्छितं स समाप्नुयात् ॥ ९६ दिवा हस्ते तु रेवत्यां वैष्णवे च न शोभनम् । प्रयाणं सर्वभूतानां विशेषेण महीपतेः ॥ हीने मुहूर्त नक्षत्रे तिथौ च करणे तथा । पार्थिवो योऽभिनिर्याति अचिरात् सोऽपि बध्यते ॥ ९८
यथामयुक्ति(?)वा राजा मात्रामधिकमूषते । तदा ससैन्यो बध्येत यदि नैव निवर्तते ॥ ९९ विहारानुत्सवांश्चापि कारयेत् पथि पार्थिवः । स सिद्धार्थो निवर्तेतै भद्रबाहुवचो यथा ॥ वसुधा वारि वा यस्य यानेषु प्रतिहीयते" । वज्रादयो निपतन्ते ससैन्यो बध्यते नृपः॥ १०१ सर्वेषां शकुनानां च प्रशस्तानां स्वरः शुभः । तूर्ण विजयमाख्याति प्रशस्तानां च दर्शनम् ॥ १०२ फलं वा यदि वा पुष्पं ददते यस्य पादपः । अकालजं प्रयातस्य न सा यात्रा विधीयते ॥ १०३ येषां निवसनं किञ्चित् विपरीतं मुहुर्मुहुः । स्थालिकों पिठरो" वाऽपि तस्य तद् वधमीहते ॥ १०४ आचाराचं भवेन्नणां तद् विनाशाय कल्पते । निवर्तयन्ति ये केचित् प्रयाता बहुशो नराः ॥ १०५ यात्रामुपस्थितोपकरणं तेषां च स्याद् ध्रुवम् वधः । पक्वान्नं विरसं दग्धं दग्धभूमिषु मीहते(?) ॥ १०६ सस्य व्याधिभयं चाऽपि मरणं वा पराजयम् । रथप्रहरणं चैव ध्वज-ध्यानं यो नृपः ॥ १०७ चित्रं कुर्यात् कचिन्नीलं स च मत्री च बध्यते । म्रियते पुरोहितो वाऽस्य छत्रं वा पथि भज्यते ॥ १०८ $.............................. । अनग्निज्वलनं वा स्यात् सोऽपि राजा विनश्यति ॥ १०९ द्विपदश्चतुःपदो वाऽपि स(श)कृन्मुंश्चति विवरः । बहुशो व्याधितार्ता वा सा सेना विद्रवं व्रजेत् ॥ ११० सेनायास्तु प्रयातायाः कलहो यदि जायते । द्विधा त्रिधा वा सा सेना **विनश्यति न संशयः ॥ १११ ||जायते चक्षुषो व्याधिः स्कन्धावारे प्रयायिनाम् । अचिरेणेव कालेन साऽग्निना दह्यते चमूः॥ ११२ व्याधयश्च प्रयातानामतिशीत विपर्ययेत् । अत्युष्णं चातिरूक्षं च राज्ञो यात्रा न सिध्यति ॥ ११३ निविष्टो यदि सेनाग्निः क्षिप्रमेव प्रशाम्यति । उपवह्य सदत्तस्य (?) भज्यते साऽपि बध्यते ॥ ११४
*CThis and next stanza are not found in this Ms. 1A दानकाकुशते । 2 B दानवं; Cनाणकं। 3 AD शिष्यते; C दृश्यते। +D This st. is not found in this Ms. 4 A BD भानु। 5A BD मित्र। 6ACदेवेन 7-8 A तेन चेत्त BD देवेन च। 90 यसनः। 10 B विरसः: Cविदासौ: D विरस्से। Cnot found in this Ms. 11A न निवर्तत: Cन वर्तेत । 120 धूमो। 13 C याने। 14 C उदीर्यते। 8C तदा ससैन्यो बध्येत यदा वा वान निवर्तते। 15 B विवसन; Cन विषयं । 16 BD स्फालिका। 17 ABD ऽपि परो। . C This st. and next also are not found in this Ms. 18 B आवाराज्यं । 19 B वधो वा; D वधः। 20 B not found. 21-22 C प्रहरणानां च । 23 C ध्वजाथानं । 24 Cचिह्न। 25A श्रियते ।
This first half is not found in any of the Mss. 26 A. अग्नेः। 27 BD सकृत: C कृतं । 28Cरवति। 29Cस्वरम् । ** Cnot found in this Ms. HA.विद्वन्ति तदाऽनिशम् । 30 BD प्रवर्तते। tt C not found in this Ms. ItA उषधहासदत्तस्य; B उपदासदत्तस्य ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org