________________
२२
भद्रबाहुसंहिता
[ १३, ३६-६१
३९
४१
भृत्या - Sमात्यास्त्रयः पूज्या राज्ञा स्थाप्याः सुलक्षणाः । एषां कुलक्षणै राजा लक्षणोऽप्यवसीदति ॥ ३६ तस्माद् देशे च काले च सर्वज्ञानवतां वरम् । सुमनाः पूजयेद् राजा नैमित्तं दिव्यचक्षुषम् ॥ ३७ न वेदा नापि चाङ्गानि न विद्याश्च पृथक् पृथक् । प्रसाधयन्ति तानर्थान्निमित्तं यत् सुभाषितम् ॥ ३८ अतीतं वर्तमानं च भविष्यद्यञ्च किञ्चन । सर्वं विज्ञायते येन तज्ज्ञानं नेतरं मतम् ॥ स्वर्गं प्रीतिफलं प्राहुः सौख्यं धर्मविदो जनाः । तस्मात् प्रीतिः सखा ज्ञेया सर्वस्य जगतः सदा ॥ ४० स्वर्गेण तादृशा प्रीतिर्विषयैर्वापि मानुषैः । यदि स्पष्टा निमित्तेन सतां प्रीतिस्तु जायते ॥ तस्मात् स्वर्गास्पदं पुण्यं निमित्तं जिनभाषितम् । पावनं प्रवरं श्रीमत् कामदं वा प्रसादतः ॥ ४२ रागद्वेषौ च मो (हं) हश्च च वर्जयित्वा निमित्तवित् । देवेन्द्रमपि निर्भीतो यथाशास्त्रं समादिशेत् ॥ ४३ सर्वाण्यपि निमित्तानि निमित्तान्यपि सर्वशः । निमित्तं पृच्छतो यानि निमित्तानि भवन्ति तु ॥ ४४ यथान्तरिक्षात् पतितं यथ भूमौ च तिष्ठति । तथाङ्गजनिता चेष्टं (टा ) ' निमित्तं फलमात्मकम् ॥ ४५ तथैवाम्भो यथा निम्ने सेतुबन्धे च तिष्ठति । चित्ते निम्ने तथा तद् वै विन्द्याद् बंधफलात्मकम् ॥ ४६ बहिरङ्गादिविषयमन्तरङ्गाचं चिन्तितम् । तज्ज्ञः शुभाशुभं ब्रूयान्निमित्तज्ञानकोविदः ॥ सुनिमित्ते ने संयुक्तस्तत्परैः साधुवृत्तयैः ( ? ) । अदीनमन - संकल्पो भव्यादिं" लक्षयेद् विधिम् ॥
1
४७
४८
४९
५० ५१
५२
५३
५४
अरस्तु यदा नर्देद्भूयमाने " हुताशने । स्निग्धमुच्चं च निर्भ्रान्तं राजा विजयमावहेत् ॥ एवं हय- वृषाश्चाऽपि सिंह - व्याघ्राश्च सुखरीः । नर्दयन्ति तु सैन्यानि तदा राजा प्रमर्दति || स्निग्धोऽल्पघोषो धूम्रोऽथ गौरवर्णो महानृजुः । प्रदक्षिणोऽप्यवच्छिन्नः सेनानी विजयावहः ॥ कृष्णो वा विकृतो रूक्षो वामावर्तो हुताशनः । हीनार्चिर्धूमबहलः स प्रस्थाने भयावहः ॥ सेनाग्रे हूयमानस्य यदि पीता शिखा भवेत् । श्यामाऽथवा यदा रक्ता पराजयति सा चमूः ॥ यदि होतुः पथे शीघ्रं जुह्वतः शृङ्गमप्रतः । पार्श्वतः पृष्ठतो वाऽपि तदेवं फलमादिशेत् ॥ यदि धूमाभिभूता स्याद् वातो भस्म निपातयेत् । आहूतैः कम्पते वाऽऽज्यं" न सा यात्रा विधीयते ॥ ५५ राजा परिजनो वापि कुष्यते मन्त्र शासने । होतुराज्यविलोपे च तस्यैव वर्धमादिशेत् ॥ यद्याज्यभाजने केशा भस्मास्थीनि पुनः पुनः । सेनामे हूयमानस्य मरणं तत्र निर्दिशेत् ॥ . आंपो होतुः पतेद्धस्तात् पूर्णपात्राणि वा भुवि । कालेन स्याद् वधस्तत्र सेनाया नात्र संशयः ॥ ५८ यदा होता तु सेनायाः प्रस्थाने स्खलते मुहुः । बाधयेद् ब्राह्मणान् भूमौ तदा स्ववधमादिशेत् ॥ ५९ धूमः कुणिमगन्धो वा पीतको वा यदा भवेत् । सेनाये हूयमानस्य तदा सेनापराजयः ॥ मूषको कुलस्थाने वराहो गच्छतेतरात् (?) । वामावर्तः पतङ्गो वा राज्ञो व्यसनमादिशेत् ॥
५६
५७
६० ६१
*C This and the following stanza are not found in this Ms. 1BD सर्वज्ञ' । 2 A प्रमादतः । 3-4 C पतितमन्त्र | 5 C न । †This line and the following line are not found in this Ms. 6 A चष्टं । 7 A मात्मिकाम् | 8 A वर्ध; C वन | 9 C समन्ताथ | 10 A सनिमित्तात्; C श्रुतिमंत्रेण; D सनिमित्तेन । 11ABD तत्परं । 12 A साधु चेत्तदा; B साधु वेत्तया; D साधु वेतया । 13 C हम्यादीन् । 14 B द्विधा; D द्विधम् | 15 C गुजारति । 16 C हस्ती । 17 Aन देदीप्यमाने; D नन्वयमाने । 18 B जायते; C सस्वनाः | 19 D तदा । 20-21 A माव भूः । + Beforo this stanza, the following additional stanza is found सापि मनतः । पार्श्वतः पृष्ठतो वाऽपिराजा बिजयमादिशेत् ॥ जायि । 24 C साधने । 25-26 C तस्य व्यसनम् । following stanza are not fonnd in this Ms.
in A :- यदि होतुः पथे शीघ्रं जुह्वतः 22 A हूयते । 23 A राज्यं; B वाथ्यं; C 27 A धूयमानस्य । TC This and the 28 A चौखयै; D याचयत् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org