________________
१३, १४-३५]
त्रयोदश अध्याय चतुर्विधोऽयं विष्कम्भस्तस्य बिम्बाः प्रकीर्तिताः ।
स्निग्धो जीमूतसंकाशः सुस्वनः सास (शास्त्र)विच्छेभः ॥ नैमित्तः साधुसंपन्नो राज्ञः कार्यहिताय सः । संघा(धा)ता पार्थिवो' युक्तः समानस्थाप्यकोविदः॥ १५ स्कन्धावारनिवेशेषु कुशलः स्थपतिः स्मृतः। काय-शल्य-शलाकासु विषो-न्माद-ज्वरेषु च ॥ १६ चिकित्सानिपुणः कार्यः राज्ञा वैद्यस्तु यात्रिकः। ज्ञानवानल्पवाग्ग्मी च क्षांतो" मुक्तो" स(श)मप्रियः ॥१७ मानो-न्मान-प्रभायुक्तो पुरोधी गुणवांछितः। *स्निग्धो गम्भीरघोषश्च मासावस (?)समायुधः ॥ १८ छायो-लक्षणपुष्टश्च सुवर्णः पुष्टए(?) सुवाक् । सबलः पुरुषो विद्वान् क्रोधनश्चपलः शिशुः ॥ १९ हिंस्रो विवर्ण:* पिङ्गो वा निरोमा निवरोपगत्(?)। रक्तश्मश्रुः पिङ्गनेत्रो गौरस्ताम्रः पुरोहितः ॥२० नित्योद्विमो नृपहीनो युक्तः प्राज्ञः सदाहितः । एवमेतान् यथोद्दिष्टान् सत्कर्मेषु च योजयेत् ॥ २१ इतरेतरयोगेनन सिद्ध्यन्ति कदाचन । अशान्तः शान्तकरणः शांतः पुष्पभिचारिणाम् (Ou] २१ यद्देवाऽ-सुरयुद्धे च निमित्तं दैवतैरपि । कृतप्रमाणं च यस्मात् यद्वृत्तं दैवतैरपि ।। ज्ञान-विज्ञानमुक्तोऽपि लक्षणैर्विवर्जितः । तं(न)साधुकार्यगो ज्ञेयो यथा वैक्रो रथस्तथा ॥ यस्तु लक्षणसंपन्नो ज्ञानेन च समायुतः । स साधुकार्यगो ज्ञेयो यथा सर्वाङ्गिको रथः ॥ २५ अल्पेनापि तु ज्ञानेन कर्मज्ञो लक्षणान्वितः । तद् विन्द्यात् सर्वमतिमान् राजकर्मसु सिध्यति ॥ २६ अपि लक्षणवान्मुख्यः कंचिदर्थं प्रसाधयेत् । ज्ञानेन बलहीनस्तु वेदवानपि साधयेत् ॥ २७ यथाऽन्धः पथिको भ्रष्टः पथि क्लिश्यत्यनायकः । अनैमित्तस्तथा राजा नष्टे श्रेयसि क्लिश्यति ।। २८ यथा तमसि चक्षुष्मान्न रूपं साधु पश्यति । अनैमित्तस्तथा राजा न श्रेयः साधु यास्यति ॥ २९
यथा वक्रो रथो गन्ता चित्रं(?) ताव(?)यथास्वनम् । अनैमित्तस्तथा राजा न सेनाफलमीहते ॥ ३० 'चतुरङ्गान्वितो" युद्धं कुलालो वर्तिनं यथा । अवनष्टं न गृहाति वर्जितं सूत्रतंतुना ॥ ३१ चतुरङ्गबलोपेतस्तत्तथा राजा न शक्नुयात् । अवि(व)नष्टफलं भोक्तुं निमित्तेन विवर्जितम् ॥ ३२ तस्माद्राजा निमित्तझं अष्टाङ्गकुशलो"(लं) वरम् । विभृयात् प्रथमं प्रीत्याऽभ्यर्थयेत् सर्वसिद्धये ॥ ३३ आरोग्यं जीवितं लाभं सुखं मित्राणि संपदैः । धर्माऽ-र्थ-काम-मोक्षाय तदा यात्रा नृपस्य हि ॥ ३४ शय्या-ऽऽसनं यानयुग्मं"हस्त्य-श्वं स्त्री-नरं स्थितम् । वस्त्रान्त-स्वप्न-योधाश्च यथास्थानं स योक्ष्यति ॥ ३५
1AB विष्टम्भः। 2A तस्याम्वा: B तस्याश्चाव 1 3A BD सुस्वा । 4-5A BD सस्व
कान्। 6 A D संघात; B ससंघात् । 7A पार्श्वयिवो। 8 A BD विशेष। 9A°उत्पाद C°उत्पात | 10 A °करेषु । 11 A BD विचिकित्सानि । 12 A B D पुनः। 13 A °धान्यारूप; B ध्यानारूप। 14 A क्रीतः। 15 B स्थिरासन। 16 A मनौन्माथेन। 17 A BD वपुष्मान् । 18AD छान्तेयेच्छविः; Bशान्तये शुचिः । * This st. and the following three sts. are not
[s. 19-20 A °वस्थमानं बधः। 21B वयो। 22A साधन। 23 Bहंसों D हिंसो। 24 B त्रिवर्ण'; D नुवर्ण | B निरोमाविवरोपरान: D निरोमाविदुरोपरात् । 25A°साश्रु । 26 A प्रांक्षु। 27 A समाntCI place of this line the following is found in C:-पूजयेच सदा नित्यं ततो यात्रा समृद्ध्यति। C Five sts. including this also are not found in this
Ms. 28 B वृत्तांत; D निवृत्तं। 29 BD चक्रे। 30 A गः; D अथ। 31 A सर्वाङ्गकारयः । 32 A अप। TA BD In place of this line the following line is found in these Mss.:-पथं चौदसिको भ्रष्टः पथिः क्लिश्यत्यनात्मवान् । 33 C सौतिक । SC Three following sts. including this are not found in this Ms. 34-35A चतुरङ्गान् वियुद्ध । 36 B अनटं । 37 B तत्र। 38-39 A Cचतुरङ्गाबलोऽपित । 40 Cमुख्यं सकुशलं। 41Cशुचिम् । 42 A मिश्राणि । 43 C संततिः। || ABD धर्मार्थ-काम जानीयात् । 44-45A BD न पश्यति। ** C Four sts. including this are not found in this Ms. 46 A मृगा। 47 A B 'युगं ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org