________________
परिशिष्ट
अध्याय ३०
सन्ध्याकाले स्निग्धा दण्डतडिन्मत्स्यपरिधिपरिवेषाः । सुरपतिचापैरावतरविकिरणाश्चाशु वृष्टिकराः ॥ ८ ॥
+
+
+
ध्वजातपत्रपर्वतद्विपाश्वरूपधारिणः । जयाय सन्ध्ययोर्घना रणाय रक्तसन्निभाः ॥ २७ ॥ पलालधूमसञ्चयस्थितोपमा बलाहकाः । बलान्यरूक्षमूर्तयो विवर्धयन्ति भूभृताम् ॥ २८ ॥ बिलम्बिनो मोपमाः खरारुणप्रकाशिनः । घनाः शिवाय सन्ध्ययोः पुरोपमाः शुभावहाः ॥ २९ ॥ दीत विहङ्ग शिवामृगघुष्टा दण्डरजः परिघादियुता च । प्रत्यहमर्कविकारयुता वा देश नरेशसुभिक्षवधाय ॥ ३० ॥
+
अध्याय ३३
दिवि भुक्तशुभफलानां पततां रूपाणि यानि तान्युल्काः । धिष्ण्योल्काशनिविद्युत्तारा इति पञ्चधा मिन्नाः ॥ १ ॥ उल्का पक्षेण फलं तद्वद्धिष्ण्याशनिस्त्रिभिः पक्षैः । विद्युदोभिः परिभस्तद्वत्तारा विपाचयति ॥ २ ॥ तारा फलपादकरी फलार्धदात्री प्रकीर्तिता धिष्ण्या । तिस्रः सम्पूर्णफला विद्युदथोल्काश निश्चेति ॥ ३ ॥ अशनिः स्वनेन महता नृगजाश्वमृगाश्मवेश्मतरुपशुषु । निपतति विदारयन्ती धरातलं चक्रसंस्थाना ॥ ४ ॥ विद्युत्सवत्रासं जनयन्ती तटतटखना सहसा । कुटिलविशाला निपतति जीवेन्धनराशिषु ज्वलिता ॥ ५ ॥
Jain Education International
+
+
+
टक्का शिरसि विशाला निपतन्ती वर्द्धते प्रतनुपुच्छा । दीर्घा भवति च पुरुषं मेदा बहयो भवन्त्यस्याः ॥ ८ ॥ प्रेतप्रहरणखरकरभनक्रकपिदंष्ट्रिलाङ्गलमृगाभाः । गोधाहिधूमरूपाः पापा या चोभयशिरस्का ॥ ९ ॥ ध्वजझषकरिगिरि कमलेन्दुतुरगसंतप्त रजत हं साभाः । श्रीवत्सवज्र शंखस्वस्तिकरूपाः शिवसुभिक्षाः ॥ १०॥
+
+
+
संस्पृशतौ चन्द्रार्कौ तद्विसृता वा सभूप्रकम्पा च । परचक्रागमनृपवधदुर्भिक्षावृष्टिमयजननी ॥ १२ ॥
+
+
+
शुक्ला रक्ता पीता कृष्णा चोल्का द्विजादिवर्णनी । क्रमशश्चैतान् हन्युर्मूर्धोरः पार्श्वपुच्छस्थाः ॥ १४ ॥ उत्तरदिगादिपतिता विप्रादीनामनिष्टदा रूक्षा । ऋज्वी स्निग्धा खण्डा नीचोपगता च तद्दृद्ध्यै ॥ १५ ॥ श्यामा वारुणनीलासृग्दहना सितमस्म निभा रूक्षा । सन्ध्या दिनजा वक्रा दलिता च परागमभयाय ॥ १६ ॥ नक्षत्रप्रघाते तद्भक्तीनां क्षयाय निर्दिष्टा । उदये प्रती रवीन्दू पौरेतरमृत्यवेऽस्ते वा ॥ १७ ॥ भाग्यादित्यधनिष्ठा मूलेषूल्काहतेषु युवतीनाम् । विप्रक्षत्रिय पीडा पुष्यानिलविष्णु देवेषु ॥ १८ ॥ ध्रुवसौम्येषु नृपाणामुत्रेषु सदारुणेषु चौराणाम् । क्षिमेषु कलाविदुषां पीडा साधारणे च हृते ॥ १९ ॥
२९
For Private & Personal Use Only
www.jainelibrary.org