SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ भद्रबाहुसंहिता भौमेन हते जीवे मध्यो देशो नरेश्वरा गावः। सौरेण चार्जुनायनवसातियौधेयशिविविप्राः॥ १९॥ शशितनयेनापि जिते बृहस्पती म्लेच्छसत्यशस्त्रभृतः। उपयान्ति मध्यदेशश्च संक्षयं यच्च भक्तिफलम् ॥२०॥ शुक्रे बृहस्पतिहते यायी श्रेष्ठो विनाशमुपयाति । ब्रह्मक्षत्रविरोधः सलिलं च न पासवस्त्यजति ॥ २१॥ कोशलकलिङ्गवडा वत्सा मत्स्याश्च मध्यदेशयताः। महतीं वजन्ति पीडां नपुंसकाः शूरसेनाश्च ॥ २२ ॥ कुजविजिते भृगुतनये बलमुख्यवधो नरेन्द्रसंग्रामाः। सौम्येन पार्वतीयाः क्षीरविनाशोऽल्पवृष्टिश्च ॥२३॥ रविजेन सिते विजिते गणमुख्याः शस्त्रजीविनः क्षत्रम् । जलजाश्च निपीड्यन्ते सामान्यं भक्तिफलमन्यत् ॥२४॥ असिते सितेन निहतेऽर्घवृद्धिरहिविहगमानिनां पीडा। क्षितिजेन टंकणान्ध्रौड्रकाशिबाल्हीकदेशानाम् ॥२५॥ सौम्येन पराभूते मन्देङ्गवणिग्यिहङ्गपशुनागाः । सन्ताप्यन्ते गुरुणा स्त्रीबहुला महिषकशकाम ॥२६॥ __ अध्याय २१ यन्नक्षत्रमुपगते गर्भश्चन्द्रे भवेत् स चन्द्रवशात् । पञ्चनवते दिनशते तत्रैव प्रसषमायाति ॥७॥ सितपक्षभवाः कृष्णे शुक्ले कृष्णा घुसम्भवा रात्रौ । नक्तं प्रभवाचाहनि सन्ध्याजाताश्च सन्ध्यायाम् ॥८॥ + + + हादि मृदूदक्छिवशक्रदिग्भवो मारुतो वियद्विमलम् । सिग्धसितबहुलपरिवेषपरिवृतौ हिममयूखाकौ ॥१४॥ पृथुबहुलस्निग्धघनं घनसूचीक्षुरकलोहिताभ्रयुतम् । काकाण्डमेचकामं वियद्विशुभेन्दुनक्षत्रम् ॥ १५ ॥ सुरचापमन्द्रगर्जितविद्युत्प्रतिसूर्यका शुभा सन्ध्या । शशिशिवशक्राशास्थाः शान्तरवाः पक्षिमृगसंघाः॥१६॥ + + + पवनघनवृष्टियुक्ताश्चैत्रे गर्भाः शुभाः सपरिवेषाः। धनपवनसलिलविद्युत्स्तनितैश्च हिताय वैशाखे॥२२॥ मुक्तारजत निकाशास्तमालनीलोत्पलाअनाभासः। जलचरसत्वाकारा गर्भेषु घनाः प्रभूतजलाः॥२३॥ + + + गर्भोपधातलिङ्गान्युल्काशनिपांसुपातदिग्दाहाः । क्षितिकम्पखपुरकीलककेतुग्रहयुद्धनिर्घाताः ॥ २५॥ रुधिरादिवृष्टिवैकृतपरिघेन्द्रधनूंषि दर्शनं राहोः। इत्युत्पातैरेभित्रिविधैश्चान्यैईतो गर्भः॥ २६ ॥ + + + शतमिषगाश्लेषाखातिमघासंयुतः शुभो गर्भः। पुष्णाति बहुम्दिवसान हन्त्युत्पातैर्हतस्त्रिविधैः ॥ २९ ॥ अध्याय २३ हस्ताप्यसौम्यचित्रापौष्णधनिष्ठासु षोडश द्रोणाः। शतभिषगैन्द्रखातिषु चत्वारः कृत्तिकासु पश॥६॥ श्रवणे मघानुराधाभरणीमूलेषु दश चतुर्युक्ताः। फल्गुन्यां पञ्चकृतिः पुनर्वसौ विंशतिद्रोणाः ॥ ७॥ ऐन्द्रामाख्ये वैश्वे विंशतिः सार्पमे च दशम्यधिकाः। आहिर्बुध्न्यार्यम्णप्राजापत्येषु पञ्चकृतिः॥ ८॥ पञ्चदशाजे पुष्ये कीर्तिता च वाजिमे दश द्वौ च। रौद्रेऽष्टादश कथिता द्रोणा निरुपद्वेष्वेषु ॥९॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002917
Book TitleBhadrabahu Samhita
Original Sutra AuthorBhadrabahuswami
AuthorA S Gopani
PublisherBharatiya Vidya Bhavan
Publication Year1949
Total Pages150
LanguageHindi, English
ClassificationBook_Devnagari & History
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy