________________
३०
भद्रबाहु संहिता
अध्याय ३४
चापशिखिरजततैलक्षीरजलाभः स्वकालसम्भूतः । अविकलवृत्तः स्निग्धः परिवेषः शिवसुभिक्षकरः ॥ ४ ॥ सकलगगनानुचारी नैकाभः क्षतजसन्निभो रूक्षः । असकलशकटशरासन शृंगाटकवत् स्थितः पापः ॥ ५ ॥ शिखिगलसमे ऽतिवर्षे बहुवर्णे नृपवधो भयं धूम्रे । हरिचापनिभे युद्धान्यशोककुसुमप्रभे चापि ॥ ६ ॥
+
+
Jain Education International
+
प्रतिदिन मर्क हिमांश्वोरहर्निशं रक्तयोर्नरेन्द्रवधः । परिविष्टयोरभीक्ष्णं लग्नास्तनभःस्थयोस्तद्वत् ॥ ९ ॥ सेनापतेर्भयकरो द्विमण्डलो नातिशस्त्रकोपकरः । त्रिप्रभृति शस्त्रको युवराजभयं नगररोधम् ॥ १० ॥ वृष्टिरुयहेण मासेन विग्रहो वा प्रहेन्दुभनिरोधे । होराजन्माधिपयोर्जन्मर्क्षे वाशुभो राशः ॥ ११ ॥ परिवेषमण्डलगतो रवितनयः क्षुद्रधान्यनाशकरः । जनयति च वातवृष्टिं स्थावर कृषिकृन्निहन्ता च ॥ १२ ॥ भौमे कुमारबलपति सैन्यानां विद्रवोऽग्निशस्त्रभयम् । जीवे परिवेषगते पुरोहितामात्यनृपपीडा ॥ १३ ॥ मन्त्रि स्थावरलेखक परिवृद्धिश्चन्द्रजे सुवृष्टिश्च । शुक्रे यायिक्षत्रियराज्ञां पीडाप्रियं चान्नम् ॥ १४ ॥ क्षुदनल मृत्यु नराधिप शस्त्रेभ्यो जायते भयं केतौ । परिविष्टे गर्भभयं राहौ व्याधिर्नृपभयं च ॥ १५ ॥
+
+
+
याति चतुर्षु नरेन्द्रः सामात्यपुरोहितो वशं मृत्योः । प्रलयमिव विद्धि जगतः पञ्चादिषु मण्डलस्थेषु ॥ १७ ॥
+--
अध्याय ३६
उद्गादिपुरोहित नृपवलपतियुवराजदोषदं स्वपुरम् । सितरक्तपीत कृष्णं विप्रादीनामभावाय ॥ १ ॥ नागरनृपतिजयावहमुदग्विदिक्स्थं विवर्णनाशाय । शान्ताशायां दृष्टं सतोरणं नृपतिविजयाय ॥ २ ॥ सर्वदिगुत्थं सततोत्थितं च भयदं नरेन्द्रराष्ट्राणाम् । चौराटविकान् हन्याद् भूमानलशक्रचापाभम् ॥ ३ ॥ गन्धर्वनगरमुत्थितमापाण्डुरमशनिपातवातकरम् । दी नरेन्द्र मृत्युर्वा मेऽरिभयं जयः सव्ये ॥ ४॥ अनेकवर्णाकृति खे प्रकाशते पुरं पताकाध्वजतोरणान्वितम् । यदा तदा नागमनुष्यवाजिनां पिबत्यसृग्भूरि रणे वसुन्धरा ॥ ५ ॥
अध्याय ४६
यानत्रेरुत्पातान् गर्गः प्रोवाच तानहं वक्ष्ये । तेषां संक्षेपोऽयं प्रकृतेरन्यत्वमुत्पातः ॥ १ ॥ अपचारेण नराणामुपसर्गः पापसञ्चयाद्भवति । संसूचयन्ति दिव्यान्तरिक्ष भौमास्तदुत्पाताः ॥ २ ॥ मनुजानामपचारादपरक्ता देवताः सृजन्त्येतान् । तत्प्रतिघाताय नृपः शान्ति राष्ट्रे प्रयुञ्जीत ॥ ३ ॥
For Private & Personal Use Only
www.jainelibrary.org