________________
२५
परिशिष्ट ज्येष्ठे जातिकुलाधनश्रेणीश्रेष्ठा नृपाः सधर्मशाः। पीड्यन्ते धान्यानि च हित्वा कंगुं शमीजातिम् ॥१०॥ आषाढे जायन्ते सस्यानि क्वचिदवृष्टिरन्यत्र । योगक्षेमं मध्यं व्यग्राश्च भवन्ति भूपालाः॥११॥ श्रावणवर्षे क्षेमं सम्यक् सस्यानि पाकमुपयान्ति । क्षुद्रा ये पाषण्डाःपीड्यन्ते ये च तद्भक्ताः॥ १२॥ भाद्रपदे वल्लीजं निष्पत्तिं याति पूर्वसस्यं च । न भवत्यपरं सत्यं क्वचित् सुभिक्षं क्वचिञ्च भयम् ॥ १३ ॥ अश्वयुजेऽन्देऽजस्रं पतति जलं प्रमुदिताः प्रजाः क्षेमम् । प्राणचयः प्राणभृतां सर्वेषामन्त्रबाहुल्यम् ॥ १४॥ उदगारोग्यसुभिक्षक्षेमकरो वाक्पतिश्चरन् भानाम् । याम्ये तद्विपरीतो मध्येन तु मध्यफलदायी ॥१५॥ विचरन् भद्वयमिष्टस्तत्साधं वत्सरेण मध्यफलः। सस्यानां विध्वंसी विचरेदधिकं यदि कदाचित् ॥ १६ ॥ अनलभयमनलवणे व्याधिः पीते रणागमः श्यामे। हरिते च तस्करेभ्यः पीडा रक्ते तु शस्त्रभयम् ॥ १७ ॥ धूमाभेऽनावृष्टित्रिदशगुरौ नृपवधो दिवा दृष्टे।। विपुलेऽमले सुतारे रात्रौ दृष्टे प्रजाः स्वस्थाः ॥ १८ ॥ रोहिण्योऽनलभं च यत्सरतनुर्नाभिस्त्वषाढाद्वयम् सार्प हपितृदैवतं च कुसुमं शुद्धैः शुभं तैः फलम् । देहे रनिपीडितेऽग्न्यनिलजं नाभ्यां भयं क्षुत्कृतम् पुष्ये मूलफलक्षयोऽथ हृदये सस्यस्य नाशो ध्रुवम् ॥ १९ ॥
+ + + अकलुषांशुजटिलः पृथुमूर्तिः कुमुदकुन्दकुसुमस्फटिकाभः । प्रहहता न याद सत्पथपत्ती हितकरोऽमरगुरुर्मनुजानाम् ॥ ५३॥
अध्याय ९ नागगरावतवृषगोजरतवमृगाजदहनाख्याः। अश्विन्याचा कैश्चित् त्रिभाः क्रमाद्वीथयः कथिताः॥१॥ नागा तु पवनयाम्यानलानि पैतामहात्रिभात्तिनः। गोवीथ्यामश्विन्यः पौष्णं द्वे चापि भद्रपदे ॥२॥
+ + + उत्तरवीथिषु शुक्रः मुभिक्षशिवकृतोऽस्तमुदयं था। मध्यासु मध्यफलदः कष्टफलो दक्षिणस्थासु ॥ ८॥
__ + + + भरणीपूर्वमण्डलमृक्षचतुष्कंसुभिक्षकरमाधम् । वङ्गाङ्गमहिषवाल्हिककलिङ्गदेशेषुभयजननम् ॥१०॥ अत्रोदितमारोहे ग्रहोऽपरोयदि सितं ततो हन्यात्।भद्राश्वशूरसेनकयौधेयककोटिवर्षनृपान् ॥११॥ भचतुष्टयमाचं द्वितीयममिताम्बुसस्यसम्पत्त्यै । विप्राणामशुभकरं विशेषतः क्रूरचेष्टानाम् ॥ १२ ॥ अन्येनात्राकान्ते म्लेच्छाटविकाश्वजीविगोमन्तान् । गोनर्दनीचशूद्रान् वैदेहांश्चानयः स्पृशति ॥ १३ ॥ विचरन् मधादिपञ्चकमुदितःसस्यप्रणाशकृच्छुक्रः। क्षुत्तस्करभयजननो नीचोन्नतिसंकरकरश्च ॥१४॥ पित्रायेऽवष्टब्धोहन्त्यन्ये नाविकाञ्छबरशूद्रान् । पुण्ड्रापरान्त्यशूलिकवनवासिद्रविडसामुद्रान् ॥१५॥ खात्याचं भत्रितयं मण्डलमेतचतुर्थमभयकरम् । ब्रह्मक्षत्रसुभिक्षाभिवृद्धये मित्रमेदाय ॥ १६॥ मत्राकान्ते मृत्युः किरातभर्तुः पिनष्टि वाकून् । प्रत्यन्तावम्तिपुलिन्दतङ्गणाभ्रसेनांश्च ॥ १७ ॥
भव. प्रस्ता . ४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org