________________
२६
भद्रबाहुसंहिता
ज्येष्ठाद्यं पञ्चर्क्ष क्षुत्तस्कररोगदं प्रबाधयते । काश्मीराश्मकमत्स्यान् सचारुदेवीमवन्तींश्व ॥ १८ ॥ आरोहेऽश्राभीरान् द्रविडाम्बष्ठ त्रिगर्त सौराष्ट्रान् । नाशयति सिन्धुसौवीरकांश्च काशीश्वरस्य षधः ॥ १९ ॥ षष्ठं नक्षत्रं शुभमेतन्मण्डलं धनिष्ठाद्यम् । भूरिधनगोकुलाकुलमनल्पधान्यं कचित् सभयम् ॥ २० ॥ मत्रारोहे शूलिकगान्धारावन्त्यः प्रपीड्यन्ते । वैदेहवधः प्रत्यन्तयवनशकदासपरिवृद्धिः ॥ २१ ॥
+
+
+
प्राजापत्ये शकटे भिन्ने कृत्वेव पातकं वसुधा । केशास्थिशकलबला कापालमिव व्रतं धत्ते ॥ २५ ॥ सौम्योपगतो रससस्यसङ्गयायोशना समुद्दिष्टः । आर्द्रागतस्तु कोशलकलिङ्गहा सलिलनिकरकरः ॥ २६ ॥ अश्मकवैदर्भाणां पुनर्वसुस्थे सिते महाननयः । पुष्ये पुष्टा वृष्टिर्विद्याधरगणविमर्दश्च ॥ २७ ॥ आश्लेषासु भुजङ्गमदारुणपीडा वहश्वरञ्छुकः । भिन्दन् मघ महामात्रदोष कृद्भूरिवृष्टिकरः ॥ २८ ॥ भाग्ये शबर पुलिन्दप्रध्वंसकरोऽम्बुनिवह मोक्षाय । आर्यम्णे कुरुजाङ्गल पाञ्चालनः सलिलदायी ॥ २९ ॥ कौरवचित्रकराणां हस्ते पीडा जलस्य च निरोधः । कूपकृदण्डजपीडा चित्रास्थे शोभना वृष्टिः ॥ ३० ॥ स्वाती प्रभूतवृष्टिर्दृतवणिग्नाविकान् स्पृशत्यनयः । ऐन्द्राग्नेऽपि सुवृष्टिर्वणिजां च भयं विजानीयात् ॥ ३१ ॥ मैत्रे क्षत्रविरोधो ज्येष्ठायां क्षत्रमुख्यसन्तापः । मौलिकभिषजां मूले त्रिष्वपि चैतेष्वनावृष्टिः ॥ ३२ ॥ आप्ये सलिलजपीडा विश्वेशे व्याधयः प्रकुप्यन्ति । श्रवणे श्रवणव्याधिः पाषण्डिभयं धनिष्ठासु ॥ ३३ ॥ शतभिषजि शौण्डिकानामजैकपे द्यूतजीविनां पीडा । कुरुपाञ्चालानामपि करोति चास्मिन् सितः सलिलम् ॥ ३४ ॥ अहिर्बुध्न्ये फलमूलतापकृद्यायिनां च रेवत्याम् । अश्विन्यां हयपानां याम्ये तु किरातयवनानाम् ॥ ३५ ॥
+
+
+
सौम्योऽस्तोदययोः पुरो भृगुसुतस्यावस्थितस्तोयकृद् रोगान् पित्तकामलां च कुरुते पुष्णाति च प्रैष्मिकम् । हन्यात् प्रव्रजिताग्निहोत्रिकभिषग्रङ्गोपजीव्यान् हयान वैश्यान् गाः सह वाहनैर्नरपतीन् पीतानि पश्चाद्दिशम् ॥ ४३ ॥ शिखिभयमनलामे शस्त्रकोपश्च रक्ते कनकनिकषगौरे व्याधयो दैत्यपूज्ये । हरितकपिलरूपे श्वासकासप्रकोपः पतति न सलिलं खाद्भस्मरूक्षासिता मे ॥ ४४ ॥
अध्याय १०
यदा विशाखासु महेन्द्रमन्त्री सुतश्च भानोर्दहनर्क्षयातः ।
तदा प्रजानामनयोऽतिघोरः पुरप्रमेदो गतयोर्भमेकम् ॥ १९ ॥
+
+
+
'वैडूर्यकान्ति रमलः शुभदः प्रजानां बाणातसीकुसुमवर्णनिभश्च शस्तः । पञ्चापि वर्णमुपगच्छति तत्सवर्णान् सूर्यात्मजः क्षपयतीति मुनिप्रवादः ॥ २१ ॥
अध्याय ११
ह्रस्वस्तनुः प्रसन्नः स्निग्धस्त्वृजुरुचिरसंस्थितः शुक्लः । उदितो वाप्यभिदृष्टः सुभिक्षसौख्यावहः केतुः ॥ ८ ॥
+
+
+
प्रभासमेता द्विशिखाः षष्टिः शनैश्वराङ्गरुहाः । अतिकष्टफला दृश्याः सर्वत्रैते कनकसंज्ञाः ॥ १८ ॥
+
+
Jain Education International
܀
कंका नाम वरुणजा द्वात्रिंशद्वंशगुल्म संस्थानाः । शशिवत् प्रभासमेतास्तीव्रफलाः केतवः प्रोक्ताः ॥ २६ ॥ षण्णवतिः कालसुताः कबन्धसंज्ञाः कबन्धसंस्थानाः । चण्डा भयप्रदाः स्यू रूपताराश्च ते शिखिनः ॥ २७ ॥
+
+
+
For Private & Personal Use Only
www.jainelibrary.org