________________
भद्रबाहुसंहिता
+
अध्याय ७ विचरञ्छ्रवणधनिष्ठाप्राजापत्येन्दुविश्वदैवानि । मृद्नन् हिमकरतनयः करोत्यवृष्टिं सरोगभयाम् ॥२॥
+ हस्तादीनि विचरन् षडक्षाण्युपपीडयन् गवामशुभः। स्नेहरसार्धविवृद्धिं करोति चोर्वी प्रभूतानाम् ॥ ४॥ ___ +
+
+ पूर्वाग्रक्षत्रितयादेकमपीन्दोः सुतोऽभिमृदुनीयात् । क्षुच्छस्त्रतस्करामयभयप्रदायी चरन् जगतः ॥ ७॥ प्राकृतविमिश्रसंक्षिततीक्ष्णयोगान्तघोरपापाख्याः । सप्त पराशरतन्त्रे नक्षत्रैः कीर्तिता गतयः ॥ ८॥ प्राकृतसंज्ञा वायव्ययाम्यपैतामहानि बहुलाश्च । मिश्रा गतिः प्रतिष्ठां शशि शिवपितृभुजगदैवानि ॥९॥ संक्षिप्तायां पुष्यः पुनर्वसुः फल्गुनीद्वयं चेति । तीक्ष्णायां भाद्रपदाद्वयं सशाक्राश्वयुक् पौष्णम् ॥१०॥ योगान्तिकेति मूलं द्वे चाषाढे गतिः सुतस्येन्दोः। घोरा श्रवणस्त्वाष्ट्रं वसुदेवं वारुणं चैव ॥ ११॥ पापाख्यं सावित्रं मैत्रं शक्राग्निदैवतं चेति । उदयप्रवासदिवसैः स एव गतिलक्षणं प्राह ॥ १२॥ चत्वारिंशत्रिंशद् द्विसमेता विंशतिर्द्धिनवकं च।। नव मासार्द्ध दश चैकसंयुताः प्राकृताधानाम् ॥ १३ ॥ प्राकृतगत्यामारोग्यवृष्टिसस्यप्रवृद्धयः क्षेमम्।। संक्षिप्तमिश्रयोर्मिश्रमेतदन्यासु विपरीतम् ॥ १४ ॥ ऋज्व्यतिवक्रा वक्रा विकला च मतेन देवलस्यैताः। पञ्चचतुव्र्येकाहा ऋज्व्यादीनां षडभ्यस्ताः॥ १५॥
+ हेमकान्तिरथवा शुकवर्णः सस्यकेन मणिना सदृशो वा । स्निग्धमूर्तिरलघुश्च हिताय व्यत्यये न शुभकृच्छशिपुत्रः ॥२०॥
+
अध्याय ८ नक्षत्रेण सहोदयमुपगच्छति येन देवपतिमन्त्री। तत्संशं वक्तव्यं वर्ष मासक्रमेणैव ॥१॥ वर्षाणि कार्तिकादीन्याग्नेयाद्भद्वयानुयोगीनि । क्रमशस्निभं तु पञ्चममुपान्त्यमन्त्यं च यद्वर्षम् ॥ २॥ +
+ + पितृपूजापरिवृद्धिर्माधे हार्दिश्च सर्वभूतानाम् । आरोग्यवृष्टिधान्यार्घसम्पदो मित्रलाभश्च ॥६॥ फाल्गुनवर्षे विद्यात् क्वचित् क्वचित् क्षेमवृद्धिसस्यानि । दौर्भाग्यं प्रमदानां प्रबलाचौरा नृपाश्चोग्राः ॥ ७ ॥ चैत्रे मन्दा वृष्टिः प्रियमन्नं क्षेममवनिपा मृदवः। वृद्धिस्तु कोशधान्यस्य भवति पीडा च रूपवताम् ॥ ८॥ वैशाखे धर्मपरा विगतभयाः प्रमुदिताः प्रजाः सनृपाः। यशक्रियाप्रवृत्तिनिष्पत्तिः सर्वसस्यानाम् ॥९॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org