________________
२५, ८-३४ ]
पञ्चविंश अध्याय महाधान्यस्य महतामिक्षणां शर-वंशयोः । गुरूगां मंद-पीतानामथो (थ)ज्ञेयो बृहस्पतिः ॥ ८ मुक्ता-मणि-जलेशानां सूर-सौवीर-सोमिनाम् । शृङ्गिणामुदकानां च सौ(सो)म्य(म)स्य प्रतिपुद्गलाः॥९ उद्भिजा(जा)नां च जन्तूनां कन्द-मूल-फलस्य च । उष्णवीर्यविपाकस्य रवेस्तु प्रतिपुद्गलाः ॥ १० नक्षत्रे भार्गवः सोमः शोभन्ते (ते)सर्वशो यथा। यथाद्वारं तथा विन्द्यात् सर्ववस्तु यथाविधि ॥ ११ विवर्णा यदि सेवन्ति(न्ते)ग्रहा वै' राहुसह्यमाः । दक्षिणा दक्षिणे मार्गे वैश्वानरपथं प्रति ॥ १२ गिरिनिम्ने चै निम्नेषु नदी-पल्वलवारिषु । एतेषु वापयेद् बीजं स्थलं वर्ज(ज्य) तथा भवेत् ॥ १३ मल्लदो मलवेदेषु राष्ट्राणां" सिन्धुसागरे । एतेष्वपि तदा मुष्णं(?) प्रियमन्यत् प्रसूयते ॥ १४ कृत्तिका-रोहिणीयुक्ता बुध-चन्द्र-शनैश्चराः । यदा सेवन्ते सहितास्तदा विन्द्यादिदं फलम् ॥ १५ आज्यविकं गुडं तैलं कार्पासो मधु-सप्पिषी । सुवर्ण-रजते मुद्गाः शालयस्तिलमेव च ॥ १६ स्निग्धे याम्योत्तरे" मार्गे पञ्चद्रोणेन शालयः । दशाढकं प्रसक्तं स्यात् दक्षिणेन षडाढकम् ॥ १७ उत्तरेण तु रोहिण्यां चतुष्कं कुम्भमुच्यते । दशकं प्रसङ्गतो विन्द्यात् दक्षिणेन चतुर्दशम् ॥ १८ नक्षत्रस्य यदा गच्छेद् दक्षिणं शुक्र-चन्द्रमाः । सुवर्ण रजतं रत्नं कल्याणं प्रियतामियुः ॥ १९ धान्यं यत्रं प्रियं विन्द्याद्गावो नात्यर्थदोहिन:(?)। उत्तरेण यदा याति नैतानि चिनुयात् तदा ॥ २० उत्तरेण तु पुष्यस्य यदा युज्यति चन्द्रमाः । भौमस्य दक्षिणे पार्श्वे मघासु यदि तिष्ठति ॥ २१ मलदा(या) माल-वैदेहा यौधेयर्थीः संज्ञनायकाः । सुवर्ण रजतं वस्त्रं मणिमुक्ता तथा प्रियम् ॥ २२ चन्द्रः शुक्रो गुरुस्सोमो मघानां यदि दक्षिणे । वस्त्रं च द्रोणमेघ च निर्दिशेन्नात्र संशयः॥ २३ आहट्टालिश्च वापी च भद्रं चैव यदोत्तरे । ग्रहैर्युक्तस्तु त(य)दा कुम्भं तु पञ्चकम् ॥ राहुः केतुः शशी शुक्रो भौमश्चोत्तरतो यदा । सेवन्ते चोत्तरं द्वारं यात्यस्तं वा कदाचन ॥ २५ निवृत्तिं चापि कुर्वन्ति भयं देवेषु सर्वशः । बहुतोयान् समान् विद्यान्महाशालींचं वापयेत् ॥ २६ कार्पासास्तिल-माषाश्च सर्पिश्चात्र प्रियं तथा । आशुवाप्यानि वर्धन्ते योगक्षेमं च हीयते ॥ २७ चन्द्रस्य दक्षिणे पार्श्व भार्गवो वा विशेषतः । उत्तरांस्तारकान् प्राप्य तदा विन्द्यादिदं फलम् ॥ २८ महाधान्यानि पुष्पाणि हीयन्ते चाशुभास्तथा । कार्यास-तिल-माषाश्च सर्पिश्चैवार्घते तदा ॥ २९ चित्रायां दक्षिणे पार्श्वे शिखरी नाम तारका । तयेन्दुर्यदि दृश्येत तदा बीजं न वापयेत् ॥ ३० गवाने()ण हिरण्येन सुवर्ण-मणि-मौक्तिकैः । महिष्यजादिभिर्वस्त्रैर्धान्यं क्रीत्वा न वापयेत् ॥ ३१ चित्रायां तु यदा युक्तश्चन्द्रो भवति दक्षिणः । षड्गुणं जायते धान्यं योगक्षेमं च जायते ॥ ३२ इन्द्रा-ग्निदेवसंयुक्ता यदि सर्वे ग्रहाः कृशाः । अभ्यन्तरेण मार्गस्थास्तारका यास्तु बाह्यतः ॥ ३३ कंगु-दार-तिला मुद्गाश्चणकाः षष्टिकाः शुकाः । चित्रायोगं न सर्पत चन्द्रमा उत्तरो भवेत् ॥ ३४
00
:
6
WWW ! Cu N
1A रस'; D सर। A मंत'; D अथ । 3 B महो?; D महा। 4A सौव। 5A D जम्बू. नाम् । 6 B D नक्षत्र । 7-9 B चोराहु सह्यमा । 10-11-12A निसवनेषु । 13A मलदा। 14 B Dसुराट्रान् । 15 A शुक्रः। 16 BD अजाविकं । 17 A यस्योत्तरे। 18 A प्रशळं। 19-20 Bधान्यमंत्र: D धान्यमत्र। 21 B नात्यर्थदेंहिहनाः; D नात्यर्थ हितः। B पुष्यसि। 23 A तैमेऽस्य । B मलवाः । 25 Dमल 26Aपौषधेयाः, Bवोधेयाः। 27 Bसंशि०, D संजि°128 B भीमः। 29 A मद्य: D missing | 30 B आद्वालिकः। 31 B चन्द्रः। A D उत्तरा। 33A मसा। 34 B सिञ्चन । 35 B चापयेत् । 86 A D असु। 37 B चामराः; D वासुरः। 88 A अर्थते; D अर्यते । 39 B शिषरी । 40 Bमाम। 1IA ते इन्दुः । 42 BDनि । 43A Bइन्द्राणि 144-45 BD षष्टिकामुकाः।
भ०स०९
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org