________________
६४
भद्रबाहुसंहिता
[२४,२४-४३, २५, १-७ फैष्णो नीलस्तथा श्यामः कपोतो भस्मसंन्निभः । विपद्यते यदा वर्णो न तदा यायिनां भयम् ॥ २४ एवं शिष्टेषु वर्णेषु नागरेषु विचारतः । उत्तरं उत्तरा वर्णा यायिनामपि निर्दिशेत् ॥
२५ रक्तो वा यदि वा नीलो ग्रहः सम्पद्यते स्वयम् । नागराणां तदा विन्द्यात् जयं वर्णमुपस्थितम् ॥ २६ नीलाद्याः स्युर्ये वर्णा उत्तरा उत्तरं पुनः । नागराणां विजानीयात् निग्रन्थे (निर्ग्रन्थ !) ग्रहसंयुगे॥ २७ ग्रहो ग्रहं यदा हन्यात् प्रविशेद् वा भयं तदा । दक्षिणः सर्वभूतानामुत्तरोऽण्डजपक्षिणाम् ॥ २८ ग्रहौ गुरु-बुधौ विन्द्यादुत्तरद्वारमाश्रितौ । शुक्र-सूर्यौ तथा पूर्वां राहु-भौमौ च दक्षिणाम् ॥ २९ अपरां चन्द्र-सूर्यौ तु मध्ये केतुमसंशयम् । क्षेमङ्करो ध्रुवाणां च यायिनां च भयङ्करः ॥ ३० अहश्च पूर्वसन्ध्या च स्थावरप्रतिपुरलाः । रात्रिश्चापरसन्ध्या च यायिनां प्रतिपुद्गलाः ॥ ३१ रोहिणी च ग्रहो हन्यात् द्वौ वाऽथ बहवोऽपि वा । अपग्रहं तदा विन्द्याद् भयं वाऽपि न संशयः ॥ ३२ शुक्रः शङ्खनिकाशः स्यादीषत्पीतो बृहस्पतिः । प्रवालसदृशो भौमो बुधस्त्वरुणसंनिभः ॥ ३? शनैश्वरश्च नीलाभः सोमः पाण्डुर उच्यते । बहुवर्णो रविः केतू राहुनक्षत्र एव च ॥ उदकस्य प्रभुः शुक्रः सस्यस्य च बृहस्पतिः । लोहितः सुख-दुःखस्य केतुः पुष्प-फलस्य च ॥ ३५ बुधस्तु बल-वित्तानां सर्वस्य च रविः स्मृतः । दोकान्दना (?)वल्लीनां च शशाङ्कः प्रभुरुच्यते ॥ ३६ धान्यस्यार्थ तु नक्षत्रं तथाऽऽरः सर्वशः प्रभुः । शनिश्च सुख-दुःखस्य सर्वे ह्येते त्रिदण्डवत् ॥ ३७ वर्णानां शङ्करो विन्द्याद् द्विजातीनां भयङ्करः । स्वपक्षे परपक्षे च चातुर्वर्ण्य विभाव्यते ॥ ३८ वातः श्लेष्मा गुरुज्ञेयश्चन्द्रः शुक्रस्तथैव च । वातिको बुध-सोरौ तु पैत्तिको भौम उच्यते ॥ ३९ पित्तश्लेष्मान्तिकः सूर्यो नक्षत्रं देवता भवेत् । राहुस्तु भौमो विज्ञेयः प्रकृतौ च शुभा-शुभे ॥ ४० आर्यस्तं मादितं(?) पुष्यो धनिष्ठा पौष्णवी च भूत् । केतु-सूर्यौ तु वैशाखौ राहुर्वरुणसंभवः॥ ४१ शुक्रः सोमश्च स्त्रीसंज्ञः शेषास्तु पुरुषा ग्रहाः । नक्षत्राणि विजानीयानामभिर्दैवतैस्तथा ॥ ४२ ग्रहयुद्धमिदं कृत्स्नं यः सम्यगवधारयेत् । स विजानाति निम्रन्थो लोकस्य तु शुभा-शुभम् ।। ४३
इति नैर्ग्रन्थे भद्रबाहुके निमित्ते ग्रहयुद्धं नाम चतुर्विंशोऽध्यायः ॥
३४
اسم
मक्षत्रं ग्रहसंपत्त्या कृत्स्नस्याचं शुभा-शुभम् । तस्मात् कुर्यात् सदोच्छ्रायं नक्षत्रंग्रह दर्शने ॥ १ सर्वे" यदुत्तरे काष्ठे ग्रहाः स्युः स्निग्धवर्चसः । तदा वस्त्रं च न ग्राह्यं सुसमासाम्यमर्घताम् (?)॥२ क्ष(क्षा): क्षौद्रं यवाः कंगुरुदाराः सस्यमेव च । दुर्भाग्यं सन्निगच्छंति नैवानिया यद्बुधः(१) ।। ३ षष्टिकानां विरागानां द्रव्यस्य च प्रणस्य च । सन-कोद्रव-कंगूनां नीलाभानां शनैश्चरः ॥ यव-गोधूम-त्रीहीणां शुक्लधान्य-मसूरयोः । शूलीनां चैव द्रव्याणां शुक्रस्य प्रतिपुद्गलाः ॥ मधु-सर्पिः-शृगालानां क्षीराणां च तथैव च । कुसुंभस्यातसीनां च गर्भाणां च बुधः स्मृतः ॥ ६ कोशधान्यं सर्षपाश्च पीतं रक्तमथाग्निजम् । अङ्गारकं विजानीयात् सर्वेषां प्रतिपुद्गलाः ॥
ه
م
م
* DThis sb. ought to have been numbered as 23 but it has been numbered as 24 thus making it tally with A.TA This st. is missing in this Ms. 1 A ग्रन्थ । 2A पूर्व। 3 B शशस्य । 4 B D चलचिसानाम् । 5 BD दोदकानां। 6 B वान्यर्घ, D धन्यार्थ । 7-8 B वातकेतु च। 9 A अर्थ। 10 D नक्षत्रं । 11 D तु। 12 AD सर्वा। Aसुममासाम्य पता; B सुसमाम्यमता। 13 B क्षवा। 14-15 A वणकस्य ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org