________________
६६
भद्रबाहुसंहिता । २५, ३५-५०; २६, १-६ संग्राह्यं च तदा धान्यं योगक्षेमं च जायते । अल्पसारा भवन्त्येते चित्रा वर्गा' न संशयः ॥ ३५ विशाखामध्यगः शुक्रस्तोयदो धान्यवर्धनः । समघु यदि विज्ञेयं दशद्रोणक्रयं वदेत् ॥ यायिनौ चन्द्र-शुक्रौ तु दक्षिणामुत्तरो तदा(?) । तारा-विशाखयोर्धाता तदाऽर्घन्ति चतुष्पदाः ॥ ३७ दक्षिणेनानुराधायां यदा च बजते शशी । अप्रभश्च प्रहीणश्च वस्त्रं द्रोणाय कल्पयेत् ॥ ३८ ज्येष्ठा-मुलौ यदा चन्द्रो दक्षिणं बजते प्रभः । तदा सस्यं च वस्त्रं च वरीरी (?)वार्थ' (?)विनश्यति ॥ ३९ प्रजानामनयो घोरस्तदा जायति तामसः । प्रस्थक्रयस्य वस्त्रस्य तेन क्षीयन्ति" तां प्रजाम् ॥ ४० मूलं मन्देव(?)सेवन्ते"(वेत)यदा दक्षिणतः शशी । प्रजातसर्वधान्यानां आढका नु तदा भवेत् ॥ ४१ कृत्तिका रोहिणीं चैव पुष्या-श्लेपा-पुनर्वसू । बजते दक्षिणश्चन्द्रो दशप्रस्थं तदा भवेत् ॥ ४२ मघां विशाखां च ज्येष्ठाऽनुराधे मूलमेव च । दैक्षिणे बजते शुक्रश्चन्द्रे तदाऽऽढकमेव च ॥ ४३ कृत्तिका रोहिणी चित्रां विशाखां च मघां यदा । दक्षिणेन ग्रहा यान्ति चन्द्रस्त्वाढकविक्रयः ॥ ४४ गुरुः शुक्रश्च भौमश्च दक्षिणाः सहिता यदा । प्रस्थक्रयं तदा वस्र्यान्ति मृत्युमुखं प्रजाः ॥ ४५ उत्तरं भजते मार्ग शुक्रपृष्ठं तु चन्द्रमाः । महाधान्यानि वर्धन्ते कृष्णधान्यानि दक्षिणे ॥ ४६ दक्षिणं चन्द्रशृङ्ग" च यदा वृद्धतरं भवेत् । महाधान्यं तदा वृद्ध कृष्णधान्यमथोत्तरम् ॥ ४७ कृत्तिकानां मघानां च रोहिणीनां विशाखयोः । उत्तरेण महाधान्यं कृष्णधान्यं च दक्षिणे ॥ ४८ यस्य देशस्य नक्षत्रं पीड्यते "हि यदा यदा । तं देशं भिक्षवः रफीताः संश्रयेयुस्तदा तदा ॥ ४९ धान्यं वस्त्रमिति ज्ञेयं तस्यार्घ च शुभा-शुभम् । ग्रहनक्षत्रसंप्रत्य(प्राप्तौ?) कथिता(तं)भद्रबाहुना ॥ ५० ॥ इति नैर्ग्रन्थे भद्रबाहुके निमित्ते संग्रहयोगार्थकाण्ड
नाम पञ्चविंशोऽध्यायः ।।
.wwwww.wam
नमस्कृत्य महावीरं सुरा-सुरनमस्कृतम् । स्वप्नाध्यायं प्रवक्ष्यामि शुभा-शुभसमीरितम् ॥ स्वप्नमाला दिवास्वप्नो" नष्टचिन्तामयः फलाः । प्रकृता-कृतस्वप्नैश्च नैते ग्राह्या निमित्ततः ।। २ कर्मजा द्विविधा यत्र शुभाश्चात्राशुभास्तथा । त्रिविधाः संग्रहाः स्वप्नाः कर्मजाः पूर्वचिन्तिताः ॥ ३ भवान्तरेषु चाभ्यस्ता भावाः सफल-निष्फलाः । तान् प्रवक्ष्यामि तत्त्वेन शुभा-शुभफलानिमान ॥ ४ जलं जलरुहं धान्यं सदलाम्भोजभाजनम् । मणि-मुक्ता-प्रवालांश्च स्वप्ने पश्यन्ति श्लेष्मिकाः ॥ ५ रक्त-पीतानि द्रव्याणि यानि पुष्टान्यग्निसंभवान् । तस्योपकरणं विन्द्यात् स्वप्ने पश्यन्ति पैत्तिकाः॥ ६
___ 1 B °वर्षा । 2A समर्थ। 3 B क्रम; D°क्षयं । 4 B D •त्तरा। 5 B दात्ता; D दतो। 6-7 B सरी चाप्य; D रारी वाप्य। 8 D आमयः। 9 यान्ति। 1) A तां समाम् : D तातसाम् । 11 A प्रस्त। 12 B दीयन्ति । 13 Bसंतेच; D मंतेव। 11-16 Bत्र-पुष्य-पुनर्वसुः D चैत्र is not found in this Ms. The rest is just like B. *B This second half is not found in this Ms. 17 A श्रुतः। 18A कृत्स्न। 19 A मृत्यु । 20 D ज्ञेयं । 21-2A न पीड 23 A तदा। 24 A अर्थ । B D ग्रहसंयोगार्थकार्ड।GA B स्वमान्यह। 27 B °सुप्तः । 28 B मथो। 29 A वा न्यस्ता। 30-31 A फलस्थितान्; D फलं त्विमम्। 3A मुक्ति; D मुक्षि। 33 D°प्रवाला। 34-36 B यान्युनान्यग्निसन्निभां; D यानष्टान्यग्नि-सभवाम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org