________________
भद्रबाहुसंहिता [१९, ३३-३९; २०, १-१४ धनिनो जलजीवांश्च तथा चैव हयान् गजान । उदीच्यान नाविकांश्चापि पीडयेल्लोहितस्तदा ॥ ३३ भौमो वक्रेण युद्धे वा यां वीथीं चरते हि सः । तेषां भयं विजानीयाद् येषां ते प्रतिपुद्गलाः ॥ ३४ क्रूरः क्रुद्धश्च ब्रह्मनो यदि तिष्ठेद् ग्रहैः सह । परचक्रागमं विन्द्यात् तासु नक्षत्रवीथिषु ॥ ३५ धान्यं तदा न विक्रेयं संश्रयेच्च बलीयसम् । चिनुयात्तुषधान्यानि दुर्गाणि च समाश्रयेत् ॥ ३६ उत्तराफाल्गुनी भौमो यदी लिखति" वामतः । यदि वा दक्षिणं गच्छेत् धान्यस्या?" महाँ भवेत्॥ ३७ यदाऽनुराधां प्रविशेन्मध्ये नेच लिखेत्तथा । मध्यमं तं विजानीयात् तदा भौमविपर्यये ॥ ३८
स्थूलः सुवर्णो द्युतिमांश्च पीतो रक्तः सुमार्गश्च सुखी प्रजानाम् ।
कान्तः प्रसन्नः समगो विलम्वी भौमः प्रशस्तः सुखदः प्रजानाम् ॥ इति निर्ग्रन्थ भद्रबाहुके निमित्ते अङ्गारकचारो नाम एकोनविंशोऽध्यायः॥ राहुचारं प्रवक्ष्यामि क्षेमाय च सुखाय च । द्वादशाङ्गविद्भिः प्रोक्तं निर्ग्रन्थैस्तत्त्ववेदिभिः ॥ १ श्वेतो रक्तश्च पीतश्च विवर्णः कृष्ण एव च । ब्राह्मण-क्षत्र-वैश्यानां विजाति-शूदयोर्मतः ॥ २ षण्मासाः प्रकृति या ग्रहणं वार्षिकं भयम् । त्रयोदशानां मासानां पुररोधं समादिशेत् ॥ चतुर्दशानां मासानां विद्याद् वाहनजं भयम् । अथ पञ्चदशे मासे बालानां भयमादिशेत् ॥ पोडशानां तु मासानां महामन्निभयं वदेत् । अष्टादशानां मासानां विन्द्याद् रास्तितो भयम् ॥ ५ एकोनविंशक' पर्व विश कृत्वा नृपं वधेत् । अतः परं च यत् सर्वं विद्यात् तत्रं कलिं भुवि ॥ ६ पञ्चसंवत्सरं घोरं चन्द्रस्य ग्रहणं परम् । विग्रहं तु परं विद्यात् सूर्यद्वीदशवार्षिकम् ॥ ७ यदा प्रतिपदि चन्द्रः प्रकृत्या विकृतो भवेत् । अथै भिन्नो" विवर्णो वा तदा ज्ञेयो ग्रहागमः ॥ ८ लिखेद् रश्मिभिर्भूयो वा यदाऽऽच्छायेत भास्करः । पूर्वकालेन सन्ध्यायां ज्ञेयो राहुसदीगमः ॥ ९ पशु-व्याल-पिशाचानां सर्वतोऽपरदक्षिणम् । तुल्यान्यभ्राणि वातोल्के यदा राहुः (होस् )तदाऽऽगमः॥१० संन्ध्यायां तु यदा शीतं अपरेसा(शा)सनं ततः (?)। सूर्यः पाण्डुश्चला भूमिस्तदा ज्ञेयो ग्रहागमः॥ ११ सरांसि सरितो वृक्षा वल्लयो गुल्म-लतावनम् । सौस्वभ्राश्चंवले वृक्षा(?)राहु (होः) यस्तदाऽऽगमः॥ १२ छायेच्चन्द्र-सूर्यौ च यदा मेघाः सिताम्बरे । सन्ध्यायां च तदा ज्ञेयं राहोरीगमनं ध्रुवम् ॥ १३ एतान्येव तु लिङ्गानि भयं कुर्युरपर्वणि । वर्षाK वर्षदानि स्युर्भद्रबाहुवचो यथा ॥ १४
1A °धिजाश्च; Boविप्राश्च; D विद्याश्च । 2-3 A मष्टतं मज्झं; B द्यूतं मध्यं; D घृतं मद्यं । 4C क्रुद्धः। 5A पृथिवीं; C भूमि 16 Cमुंञ्चते। 7-8 ABD हितः । 9 Cप्रकृष्टः। 10 C बलीयसान् । 11 A B D विजानीयात् । 12 A तुषं; B ध्रुवं; D तुबं । 13 A धान्यं; B D धाशं । 14-15-16 C यदा वर्ण लिखेत् त्रिधा। 17 A °अघः; Bअग्घः; D अर्थः। 18 A B महान् । 19-24 A BD प्रविशेनतेन वा लिखेत। 25 A भौमे। 26 A विपर्ययः। 27-28 A. विजयाय । 28-29 B सुखावहम् । 30 C दर्शिभिः। 31 A मीतम्: BD मतम् । 32 A D मासान् । 33 A D प्रकृत। 34 AD ज्ञेय'। * CThis second half and the first half of the following st. are not found in this Ms. 35-37 C पुररोधं च समादिशेत् । 38 A B D°मन्त्र। 39 A राजः। 39-40 C राजसुतः । 41C एकोनविंशति । 42C सर्वे। 43-44 C विंशकं वा। 45C वधः। 46-48 A तद्विनोति कला'; B तचिनोति; D तचिनोति कली। 49 C पूर्वयोः। 50-51 A अनभिन्ने; B अनभिन्नः D अन भिज्ञः। 52C सर्व। 53 A D काकम। 54 B C D तदा। tCD सरांसि सरितो वृक्षान् वल्ली-गुल्म-लतावनम् ॥१०॥। 55A वीभोल्का। 56 A missing in this Ms. This and the next st.are missing in this Ms. 57 A पाश। 58-60 Cउदये चैव । 61-63 C तदा शेयो ग्रहागमः। 64-66 C भयरूपाणि पर्वणि । 67 C वर्षाणि ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org