________________
२०, १५-३८ ]
विंश अध्याय
५५
१६
१७
१८
२०
२१
२२
२४
२५
२६
शुक्लपक्षे द्वितीयायां सोमशृङ्गं यदा (S) शुभम् । स्फुटितायं द्विधा वाऽपि विन्द्याद् राहु (हो) स्तदऽऽगमम् ॥ १५ चन्द्रस्य चोत्तरा कोटी द्विशृङ्गं दृश्यते यदा । धूम्रो विवर्णो ज्वलितस्तदा राहोवागमः ॥ उदयास्तमने भूयो यदा यश्वोदयोवौ' । इन्द्रो वा यदि' दृश्येत तदा ज्ञेयो ग्रहागमः ॥ कबन्ध - परिघा-मेघा धूम - रक्तपेटे - ध्वजाः । उद्गच्छमाने दृश्यन्ते सूर्ये राहोस्तदाऽऽगमः ॥ कबन्धो" महिषाकारः शकटस्थो " यदा शशी । उद्गच्छन् दृश्यतेऽष्टम्यां तदा ज्ञेयो ग्रहागमः ॥ १९ सिंह- मेघो ष्ट्रसंकाशः परिवेषो यदा शशी । अष्टम्यां शुक्लपक्षस्य तदा ज्ञेयो ग्रहागमः ॥ श्वेतके सरसंकाशे रक्त-पीतोऽष्टमो" यद । यदा चन्द्रः प्रदृश्येत तदा ब्रूयाद् ग्रहागमः ॥ उत्तरतो दिशः श्वेतः पूर्वतो रक्तकेसरैः । दक्षिणतो " ऽर्थं पीताभः प्रतीच्यां कृष्णकेसरः ॥ यदी गच्छन् गृहीतोऽपि क्षिप्रं चन्द्रः प्रमुच्यते । परिविष्टो " दिनं चन्द्रे विमर्देतं विमुञ्चति" ।। २३ द्वितीयायां यदा चन्द्रः श्वेतवर्णः प्रकाशते । उद्गच्छमानः सोमो" वा " तदा गृह्येत राहुणा || तृतीयायां यदा सोमो विवर्णो दृश्यते यदि" । पूर्वरात्रे तदा राहुः पौर्णमास्यामुपक्रमेत् ॥ अष्टम्यां तु यदा चन्द्रो दृश्यते रुधिरप्रभः । पौर्णमास्यां तदा राहुरर्धरात्रमुपक्रमेत् ॥ नवम्यां तु यदा चन्द्रः परिवेश्य तु सुप्रभः । अर्धरात्रमुपक्रम्य तदा राहुमुपक्रमेत् ॥ कृष्णप्रभो " यदा सोमो दशम्यां परिविष्यते । पश्चाद् रात्रं तदा राहुः सोमं गृह्णात्यसंशयः ॥ यदा सोमं श्वेताभ्रं परिवेषते । तद परिघं वै राहुर्विमुञ्चति न संशयः ॥ कनकाभो यदाऽष्टम्यां परिवेषेण चन्द्रमाः । अर्धग्रासं तदा कृत्वा राहुरुद्भिरते पुनः ॥ परिवेषोदयोऽष्टम्यां चन्द्रमा रुधिरप्रभः । सर्वग्रासं तदा कृत्वा राहुश्चन्द्र" विमुञ्चति रक्तपीता यदा कोटिर्दक्षिणः स्याद्वहः सितः । पीता यदाऽभ्यां कोटी तदा श्वेतं ग्रहं वदेत् ॥ दक्षिणा मेचकाभा तु कपोतग्रहमादिशेत् । कैपोतमेचकाभा तु कोटी ग्रहमुपानयेत् ॥ रक्तोत्तर|” सितकोटिर्दक्षिणी स्याद् यदाष्टमी । कपोतप्रमाख्याति" पूर्वपश्चात् सितप्रभम् ॥ "पीतोत्तरा यदा कोटिर्दक्षिणो रुधिरप्रभः । कपोतग्रहणं विद्याद् ग्रहं पश्चात् सितप्रभम् ॥ यतोऽभ्रस्तनितं विन्द्यात् मारुतं करकाशनी । रुतं वा श्रूयते किञ्चित् तदा विन्द्याद् ग्रहागमम् ।। मन्दक्षीरौ यदा वृक्षाः सर्वदिक् कलुषा भवेत् । क्रीडते च यतो बालस्ततो विन्द्याद् महागमम् ॥ ऊर्द्धं प्रस्पंदते चन्द्रश्चित्रः संपरिवेष्यते । कुरुते मण्डलं" स्पष्टस्तदा विन्द्याद् ग्रहागमम् ॥
२७
२८
२९
३०
॥
३१
३२
३३
३४
1 B C D प्रभम्। 2-3 A राहुवचो यथा । 4B द्वशृङ्गो; C द्वे शृङ्गम् | 5 ABD पश्चादयो । 6 C रखे । 7ABD यदा । 8 C वश्येत् । 9A B क्रमं च; D कर्म च । 10B रज; C रज्ञ; D रजू । 11 C यथा । 12 ABD मार्गवान् । 13 A BD शकटं वा । 14 C शुक्रजस्तस्य । 15 A B अष्टमी । 15-16 C मितोष्टमी । 17ABD सर्वः । 18-20 C दक्षिणो भयभीताभः । 21 C उदयं | 22-23 C परिविष्टाभृतं । 23 A दिनः। 24 B विमर्देन; D विमद्दन । 24-25 A परिवेश्यासुरप्रभः । 26-27 A श्वेतो वै । 28 C द्वितीयायाम् । 29 A प्रभः; C पुनः । 30 C पूर्वमास्याम् । 31-33 A परिवेश्यासुरप्रभः । 34 C°प्रदः । * A this st, is not found in this ms. 35 C श्वेतता । 36-37 C यदा तं परिलीढं । 38 A चन्द्रमाः । 39 A रुधिरप्रभः । 40ABD रात्रं । 41 ABD गरवा । 42-44 C यदाष्टम्यां परिविष्टः । 45-47 C पुनरुद्भिरते गृहाः; 45-46 B जं चं; D जं च । + C This st. is preceded by the following st. in this Ms. - परिविष्यते यदाऽष्टम्यां चन्द्रमाः कृष्णसन्निभः । सर्वग्रासं तदा सोमो राजं जीर्ण विमुञ्चति ॥ This and the following st. are numbered as 35-36 in this Ms. + C कपोतमेचकाहं सबको ग्रहमुपानयेत् । 48 B D रक्तोऽन्तरा । 49-50ABD दक्षिणस्य । 51 C ग्रहणं । 52 C विद्यात् । 53 C प्रद्द° । 1 C This st is not found in this Ms 54B क्षाराः । 55-56 A मण्डलस्फोटो ।
Jain Education International
३५
३६
३७
३८
For Private & Personal Use Only
www.jainelibrary.org