________________
भद्रबाहुसंहिता [१८,२८-३७, १९, १-१० बुधो विव! मध्येन विशाखां यदि गच्छति । ब्रह्म-क्षविनाशाय तदा ज्ञेयो न संशयः ॥ २८ मासोदितोऽनुराधायां यदा सौम्यो निषेवते । मूकन्धि-बधिरां'श्चैवं तदा पीडयते भृशम् ॥ २९ श्रवणे" राज्यविभ्रंशो' ब्राह्मे ब्राह्मणैपीडनम् । धनिष्ठायां च वैवयं धनं हन्ति धनेश्वरम् ।। ३० उत्तराणि च पूर्वाणि" याम्यायां यदि हिंसति । धातुवाद विदो हन्यात्तज्ज्ञांचे परिपीडयेत् ॥ ३१ ज्येष्ठायामनुपूर्वेण स्वातौ च यदि तिष्ठति । बुधस्य चरितं घोरं महाजनिकमुच्यते ॥ ३२ उत्तरे त्वनयोः सौम्यो यदा दृश्येत पृष्ठतः । पितृदेवमनुप्राप्तस्तदा मासमुपग्रहः ॥ ३३ पुरस्तात् सह शुक्रेण यदि तिष्ठति सुप्रभः । बुधो विसृजते काले तदा मेघा[न]बहूदकाकाः [कान] ॥३४ दक्षिणेनं तु पार्श्वेण यदा गच्छति दुःप्रभः । तदा सृजति लोकस्य शोकं महद्भयङ्करः ॥ ३५ धनिष्ठायां जलं हन्ति वारुणे जलजं वधेत् । वर्णहीनो यदा याति बुधो दक्षिणतस्तदा ॥ ३६
तनुः समार्गो यदि सुप्रभोऽजितः समप्रसन्नो गतिमानतोन्नतिम्" ।
यदा न रूक्षो न च दूरगो बुधस्तदा प्रजानां सुखमूर्जितं सृजेत् ॥ ३७ इति नैर्ग्रन्थे भद्रबाहुके निमित्ते बुधचारो नाम अष्टादशोऽध्यायः॥
c
चार" प्रवास वर्णं च दीप्ति काष्ठं गतिं फलम् । वक्रानुवनामानि लोहितस्य निबोधत ॥ १ चारेण विंशति मासानष्टौ वक्रेण लोहितः । चत्वारस्तु प्रवासेन समचारेण गच्छति ॥ २ अनृणुः परुषः श्यामो ज्वलितो धूमवान शिखी । विवो वामगो व्यस्तः क्रुद्धो ज्ञेयः सर्दीऽशुभः॥३ यदाऽष्टौ सप्त मासान् वा दीप्तः पुष्टः प्रीपतिः । तदा सृजति कल्याणं शस्त्रमूच्छी तु निर्दिशेत्॥४ मन्ददीप्तश्च दृश्येत यदा भौमो न तेजवान् । तदा नानाविधं दुःखं प्रजानामहितं सृजेत् ॥ ५ ताम्रो दक्षिणकाष्ठस्थः प्रशस्तो दस्युनाशनः । ताम्रो यदोत्तरे काष्ठे तस्य दस्यु (स्योः) ती हितम् ॥ ६ रोहिणीं स्यात् परिक्रम्य लोहितो दक्षिणं व्रजेत् । सुरा-सुराणां मार्गाणां सर्वेषामभयं वदेत् ॥ ७ क्षत्रियाणां विषादश्च दस्यूनां शस्त्रविभ्रमः । गावो गोष्ठ-समुद्राश्च विनश्यन्ति विचेतसः॥ ८ स्पृशेल्लिखेत् प्रमर्देद् वा रोहिणीं यदि लोहितः । तिष्ठते दक्षिणो वाऽपि तदा शोक-भयङ्करः॥ ९ सर्वद्वाराणि दृष्ट्वाऽसौ विलम्बं यदि गच्छति । स च लोकहितो ज्ञेयो दक्षिणोऽमृगू लोहितः॥ १०
1A क्षेत्रे BDक्षेत्र। 2-3 Cमासं चिर। 4 BD न सेवते । 5-8ABD पशुधनचरी धान्यं । 9A नृणाम । 10A श्रमणे; Cश्रावणे। 11 A B D राजः। 12 A विध्वंसं; BD °विश्रंसं । 13 B ब्रह्म Cबाझे। 14 Cब्रह्माण। 15A BD वैवर्ण। 16 B उत्तराणां। 17 B पूर्वाणाम् । 18 A B याम्यं च; C वायव्यं। 19 A धात; Cचातुः। 20 A BD धान्यं । 21 AC D तज्ञाः। 22 A ज्येष्ठाम् । 23 A अतिपूर्वेण; Cमथ पूर्वेषु। 24-26 C उत्तराया वा सौम्येन । 27 A B D अपग्रहः । 28-29 A BD मध्यशरीरे च। 30-31 C मेघा च दूषकान् । 32A दक्षिणे। 33 A तनुपावन । 34C मार्गेग। 35-36-37 B महाशोकमहद्भयम् ; C D सानयं तद्भयंकरः ॥ 38 C धनं । 39 B धारणे, C वरुणे। 40 C वदेत् । 41 B मनु: C तत्रा। 42 C सुमागें। 43 C°आश्रितं । 44 C सतं । 45 A धूर्जितं। 46 A ध्रुवम् ; B व्रजेत् । 47 A वारं। 48 2 BD दीप्तां। 49 B वक्रानु च । 50 A. चक्रेण । 51Cसमाचारान। 52 A अमृजु; C अन्त्यजः। 53A BCपुरुषः। 54 C धूम्रवान् । 55 B सखी। 56 A धान; Bधान D ध्वानु । 57 A B D तदा। 58 C सदा त्वष्टौ। 59 A not found; C प्रष्टः । 60 B प्रज'। 61-62 B सस्वमूर्छति । * A This st. is missing in this Ms. 63-64 B D चलेत वा। 65-66 C रुदाद्गता। 67 A दक्षिणाम् । 68 Cसुराणाम् । 69 BD उभयं; C महध। 70-71 B गवोष्ठ: Cकाष्टा। 72 A सीश; BD आसीत् स। 730 पूर्व । 74-75C सर्वाणि । 76-77 Cसर्व। 78 A मृज; B°सृज; D असज । 78-79 C स्त्रियगो हितः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org