________________
१८, ५-२७]
अष्टादश अध्याय सौम्याः विमिश्राः संक्षिप्ता बुधस्य गतयो हिताः । शेषाः पापोः समाख्याता विशेषेणोत्तरोत्तराः ॥५ नक्षत्रं शकवाहेन(?)जहाति समचारतः । एषोऽपि नियतश्चारो भयं कुर्यादतोऽन्यथा ॥ नक्षत्राणि चरेत्पश्च पुरस्तादुत्थितो बुधः । ततश्चास्तमितः षष्ठे सप्तमे दृश्यतेऽपरः ॥ उदितः पृष्ठतः सौम्यश्चत्वारि चरते ध्रुवम् । पञ्चमेऽस्तमितः षष्ठे दृश्यते पूर्वतः पुनः ॥ चत्वारि षट् तथाष्टौ च कुर्यादस्तमनोदयौ' । सौम्यायां तु विमिश्रायां संक्षिप्तायां यथाक्रमम् ॥ ९ नक्षत्रमनुगृह्णाति गतिभिस्तिसृभिर्यदा । पूर्वाभिः पूर्वसस्यानां तदा संपत्तिरुत्तमा ॥ बुधो यदोत्तरे मागे सुवर्णः पूजितस्तदा । मध्यमे मध्यमो ज्ञेयो जघन्यो दक्षिणे" पथि ।। ११ वसु कुर्यादतिस्थूलं ताम्रः शस्त्रप्रकोपनः । अणुश्वारुणवर्णश्च बुधः सर्वत्र पूजितः ॥ १२ पृष्ठतः पुरलम्भाय पुरस्तादर्थवृद्धये । स्निग्धो रूक्षो बुधो ज्ञेयः सदा सर्वत्रगो बुधैः ॥ १३ गुरोः शुक्रस्य भौमस्य वीथीं विद्याद् या बुधः । दीप्तोऽतिरूःः सङ्ग्रामं तदा घोरं निवेदयेत् ॥ १४ भार्गवश्वोत्तरां वीथीं चन्द्रशृङ्गं च दक्षिणम् । बुधो यदा निहन्यात्तानुभयोर्दक्षिणापथे ॥ १५ राज्ञा चक्रधराणां च सेनानां शस्त्रजीविनाम् । पौर-जानपदानां च क्रिया काचिन्न सिध्यति ॥ १६ शुक्रस्य दक्षिणां वीथी चन्द्रशृङ्गमधोत्तरम् । भिंद्याल्लिखेत् तदा सौम्यस्ततो रोगाग्निजं भयम् ॥ १७ यदी बुधो ऽरुणाभैः स्यादुच्चगो वा निरीक्ष्यते । तदा स स्थावरान हन्ति ब्रह्म-क्षत्रं च पीडयेत्॥ १८ चन्द्रस्य दक्षिणां वीथीं भित्त्वी तिष्ठेचंदा ग्रहः । रूक्षैः स कालैंसङ्काशस्तदी चित्रविनाशनम् ॥ १९ चित्रमूर्तिश्च चित्रांश्च शिल्पिनः कुशलांस्तथा । तेषां च बन्धनं कुर्यात् मरणाय समीहते ॥ २० भित्वा यदोत्तरां वीथीं दारुकाशो "(?)ऽवलोकयेत् । सोमस्य चोत्तरं शृङ्गं लिखेद्भ (भा)द्रपदां वधे ॥२१ *शिल्पिनां दारुजीवीनां तदा पाण्मासिको वधः । अकर्मसिद्धिः कलहो मित्रभेदः पराजयः॥ २२ पीतो" यदोत्तरां वीथीं गुरुं भित्त्वा प्रलीयते । तदा चतुष्पदं गर्भो(भ) कोसँधान्यं बुधो वधेत् ॥२३ वैिश्यश्च(श्यानाम)शिल्पिनां चापि भयं भवति दारुणम् । सो नयेद्भजते मासं भद्रबाहुवचो यथा ॥ २४ विभ्राजमानो रक्तो वा बुधो दृश्येत कश्चनः । नागराणां च स्थिराणां च दीक्षितानां च तद्भयम् ॥ २५ कृत्तिकास्वग्निदो रक्तो रोहिण्यां स क्षयङ्करः। सौम्ये रौद्रे तथाऽऽदित्य पुष्ये स(सा) बुधैः स्मृतः॥२६ पितृदैवं तथाऽऽश्लेषां कलुषो यदि सेवते । पितृस्तान विहङ्गांश्च सस्यं स भजतेऽनयोः ॥ २७
1A पणे। 2A नक्षत्रान् । 3 B °वाहेणं; C संतवाहेन; D सकवाहेन । 4 A D समचारताम् । B समचारता। 5Cचरवारः। 6Cचरितः। 7A B अनोदयः, C अनोदयात् । 8A संक्षयां। 9A अन्यविन्हानि: B अन्यचिहानि; D अन्यचित्कानि । 10 A दक्षिणो। 11 A D वस्तुं; Cन्यस्तं । 12-13C दंडशूल । 14 A अन्तः; BD अतः। 15 B°दग्धं; C दर्प। 16 C बुधः। 17 A यदा । 19 A निरुक्ष, C तुरुक्त। 19 A मंग्राम; C संग्रामो। 20 A निहत्य । 21 A अनुशोनयः; B तान् स्योनयो: C स्यसौनयो । 22 A. राज्ञी; C राष्ट्र। 23 C°वर्गाणां। 24 A missing. 25 BD जनपदानां; C राजपदानां । 26 B क्षत्रिया। 27 B कांचिस | 28 B राजा। 29 A तदा। 30-31 A नुधोरुगालः 31 B रुणस्या स्या D रणस्ये स्था। 32A दुन्वेगो; B दुर्भगः; C रबरोति। 33 BD पारसवान् ; C परंम्यवा। 34-36 A भिष्टत्तदा। 37 C रेक्षः। 38 B D कल'; C करल। 39-41 A B D तत्रदा चित्रनाशयेत् । 42C लिपिना। 43 C कुलान् । 44 C वचनं । 45 C भूयः। 46 B दाशकांसो; C दारुकाश्री। 47 B वचेत्,
बुधेत । * In this Ms. this st. and the following one are not found. 48 B ययोस्कर, D ज्वरो भयः। 49 A पातो। 50 B D कोशि। 51 A B वदेत् । t In A B D this first half is thus found with some unimportant varints:-वैश्याश्च शिल्पिनश्चापि गर्भमासं च सारथिः । 52C भयं। 53 A ज्ञेयः। 54 A युध्यः। 55 A B D जले। 56 A B D बुधः। 57 C मित्रदेव। 58-60 Cपितृतश्वा विशाषांश्च ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org