________________
५०
भद्रबाहुसंहिता [१७, ३१-४५, १८,१-४ आषाढे तोयसंकीर्ण सरीसृपसमाकुलम् । श्रावणे दंष्ट्रिणश्चौरा व्यालाश्च प्रबलाः स्मृताः ॥ ३१ संवत्सरे भाद्रपदे शस्त्रकोपाग्निमूर्च्छनम् । सरीसृपाश्चाश्वयुजे बहुधा वा भयं विदुः ।। ३२ एते संवत्सराश्चोक्ताः पुष्यस्य चरतो ऽपि वा । रोहिण्याा तथाऽऽश्लेषा हस्तः स्वातिः पुनर्वसुः ॥ ३३ अभिजिच्चानुराधा च मूलो वासव-वारुणाः । रेवती भरणी चैव विज्ञेयानि बृहस्पतौ ॥ ३४ कृत्तिकायों गतो' नित्यमारोहण-प्रमर्दने । रोहिण्यारत्वभिघातेन प्रजाः सर्वाः सुदुःखिताः॥ ३५ शस्त्रांतस्तथाऽऽीयामाश्लेषायां विषाद् भयम् । मन्दहस्तपुनर्वस्वोस्तोयं चौराश्च दारुणाः ॥ ३६ वायव्ये वायवो" दृष्टी रोगदं वा जिनां भयम् । अनुराधानुघाते च मैत्रीसिद्धिः" प्रहीयते ॥ ३७ तथा मूलाभिघातेन दुष्यन्ते मण्डलानि च । वायव्यस्याभिघातेन पीड्यन्ते धनिनो' नरीः॥ ३८ वारुणे जलजं तोयं फलं पुष्पं च शुष्यति । अकारान्नाविकांस्तोयं पीडयेद्रेवती* हता ॥ ३९ वामं करोति नक्षत्रं यस्य दीप्तो बृहस्पतिः । लब्ध्वाऽपि सोऽथ विपुलं न भुञ्जीत कदाचन ॥ ४० प्रदक्षिणं तु नक्षत्रं यस्यं कुर्यात् बृहस्पतिः । यायिनां विजयं विन्द्यात् नागराणां पराजयम् ॥ ४१ प्रदक्षिणं तु कुर्वीत सोमं यदि बृहस्पतिः । नागराणां जयं विन्द्याद् यायिनां च पराजयम् ॥ ४२ उपघातेन चक्रेण भध्यगन्ती बृहस्पतिः । निहन्याद् यदि नक्षत्रं यस्य तस्य पराजयम् ॥ बृहस्पतेर्यदा चन्द्रो रूपं संछादयेत् भृशम् । स्थावराणां वधं कुर्यात् पुररोधं च दारुणम् ।।।
स्निग्धप्रसन्नो विमलोऽभिरूपो महाप्रमाणो द्युतिमान् स पीतः । गुरुर्यदा चोत्तरमार्गचारी तदा प्रशस्तः प्रतिपक्षहन्ता ।। इति नैर्ग्रन्थे भद्रयाहुके निमित्ते संहितायाम् बृहस्पतिचारं नाम
सप्तदशोऽध्यायः ॥
गति प्रवासमुदयं वर्ण ग्रहसमागमम् । बुधस्य संप्रवक्ष्यामि फलानि च निबोधतः (त) ॥ १ सौम्या विमिश्राः संक्षिप्तास्तीत्रा घोरास्तथैव च । दुर्गाव (उग्राश्च)गतयो ज्ञेया बुधस्यै च विचक्षणैः ॥२ सौम्यां गतिं समुत्थाय त्रिपक्षे" दृश्यते बुधः । विमिश्रायां गतौ पक्षे संक्षिप्तायां पडूनके ॥ ३ तीक्ष्णायां दशरात्रेण घोरायां तु षडाहिके । पापिकायां त्रिरात्रेण दुर्गा(उग्रा)यां" सम्यगक्षये ॥ ४
1A after these two letters there is agap in this Ms. upto प्रबलाः स्मृताः॥ 2 D दर्शनम् । 3-4 C चरतीवरे। 5C°धारणे। 6-7 C विकृतायागतो। 8 A B मारो; D not found. 9C समुत्पातः। 10 ABD विशात् । 11C मंदं । 12 B वोषा; C तोय । 13 C वायवे । 14 A वायवी। 15A दृष्टा; Cपुष्टाः । 16 A रोग ; C रोगदाः। 17 A स्त्रीसिद्धश्च; स्त्रीसिद्धिश्च । 18 C प्रजायते । 19-20 A BD धनिनो सराः। 21 B पुष्यति । 22 A आकारान् । 23 A D पीडये। 24 D रेती। 25 A भुञ्जते। 26 C यदि । 27 C याति। *C This line and the next line are not found in this Ms.। 28 A B D रूपघातेन । 29 B D वक्रेण । 30 C गत। 31 A B C बृहस्पतिः । 32 A संवादने Bछादयेत; D संस्थादयते। 33C These two letters are not found in this Ms. TC This st.is preceded by the following line in this Ms:-उपघातेन वक्रेण स्वनक्षत्रे तु पीडिते। 34 C missing. 35 A विरूपः; B°अतिरूपं; C हिसमो। 36 A D सपीतुः; C सप्रणीतः । 37 AD प्रविबद्ध', B प्रतिबद्ध। 38 A C D गति। 39 C बुधचारं । 40 C प्रवक्ष्यामि। 41-42 C फलं चापि । 43-44 A अथ पापिका; B अथ यायिका; D द्वयायिकाः। 45 B दुर्गा च; D दुर्गा च । 45-46 Cदुर्गा चिहातरा ज्ञेया। 47-48 Cबुद्धमेतां । 49 Cविचक्षणः। 50 BI 51A नृपक्का:Cपशं; D नृपक्षा। 52C मासे। 53 Cद्विरूनके। 54Cति। 55Cमदाहिक। 56D पापकायां। 57 D दुर्गाणां ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org