________________
शृङ्गारमञ्जरीकथा
मकरकेतोर्वशीकरण विद्याधिदेवतामिव मूर्त्तिमतीम्, अनन्यसाधारणस[ F. 155. A] कलावयवसौन्दर्यामनुपमरूपलावण्यां षोडशवर्षदेशीयामकरोत् । यच्च तन्मद्यमांसादिकमानीतं तत्तया सहोपभुज्य प्रेमानुरूपं रतिसुखमनुबभूव । ' अथ खट्वाङ्गं मम कुम्भकारगृहे विस्मृतम्' इत्यभिधाय शिवतडागे महां च सन्ध्यां विधित्सुर्निर्जगाम । तां चावोचत्'यावदहमागच्छामि तावत् त्वयाऽत्रैव स्थातव्यम् ।' अथ तस्मिन् गते साsपि विश्रम्भमुत्पाद्य पूर्वमेव तत्सकाशाद्गृहीतविद्यामण्डलमावर्त्य तथैव खहृदयादङ्गष्टप्रमाणं दिव्यपुरुषमेकमुगाल । तं च कमण्डलुवारिणाऽभिषिच्यानुपमरूपलावण्य यौवनोपेतं विधायोत्पन्नशतगुणप्रीतिः प्रीत्यनुरूपं तेन सह रतिसुखमनुबभूव । अनुभूय च तदागमन [समयमा-] कलय्यानागतमेव तं पुरुषं लघूकृत्य निजगाल । महाव्रतिकस्त्वागत्य तां लघूकृत्य न्य गिलत् । मूलदेव- . एवालोक्य विस्मितमनाः स्वगृहमग [F. 155. B] [ अत्रादर्शे १५६ अङ्काङ्कितं पत्रं विनष्टम् ]
८८
राजा तु तदवलोक्यातिविस्मितो मूलदेवमाबभाषे - 'मूलदेव ! किमेतदिति ?, महदद्भुतमेतदावेदनेनापनय नः कुतूहलम् ।' मूलदेवस्तु बद्धाञ्जलिर्व्य [ जि ] ज्ञपत्- 'देव ! यद्यभयं तदा विज्ञाप्यते । देवेन पुनर्नापराद्धव्यम्' इत्यभिधाय महादेवीमभ्यधात्'देवि ! हृदयवल्लभेन विना भोजनं न स्वदते । तदा [ हू] यतां बठरकनामा राजहस्तिनो हस्तिपकः ।' राजा तु विस्मितस्तमुवाच - ' मूलदेव ! किमेतत् ?' मूलदेवः प्राह'उद्घाट्याङ्गं विलोकयतु दे[ व्या ] अस्याः ।' राजा तथा कृत्वा यावदालोकयति तावद् द्विगुणतरनाटिकाघातास्फुटितानपश्यत् । आत्मनश्च द्वितीयासने समुपवेश्य जात्यान्धा[म] वोचत् - ' त्वमपि हृदयवल्लभं वणिग्दत्तकमाकारय' इत्यभिधाय पुनर्व्यजिज्ञपत्- 'देव ! देवकीयः प्रसादोऽयं यदहं परिणायितो देवेन । तदेवं [विधा ] "न्यासां चेष्टितानि विज्ञाय कथमपि परिणयनं नाङ्गीकृतवान् । अङ्गीकृता देवकीयादेशादियं जात्यन्धा । तत्राप्येवंविधा परिणति [ F. 157. A ] रेताः पापीयस्यो दुराचाराः, क आसां विश्वासमायाति । न हि देवस्य सदृशो नृपतिर्नापि मच्छदृशो धूर्तचूडामणिर्नापि कपालशिखेन सह [ शो मं ] "त्रवादी च । एतानप्येता वञ्चयन्ति, इतरेषु तु वराकेषु प्राणिमात्रेषु का गणना ?' ततो राजा हस्तिपकं निजग्राह दत्तकं सर्वस्वमदण्डयत् । जात्यन्धां निरवासयत् । चिलमहादेवीं छिन्नकर्णनासिकां विधाय पिण्डोपजीविन कारागारे न्यधापयत् ।
(0)
तत् पुत्रि ! आसतां वेश्याः कुचारित्रधनाः, कुलखि[योs] पि दृष्टिमात्ररागिण्यः परपुरुषेष्वेवं जीवितवित्तादिनिरपेक्षा व्यवहरन्ति किं पुनः स्वतन्त्रा वेशवनिता: ? तत् पुत्र ! त्रिविधोsपि रागः सर्व्वथा परिहरणीयः ।
(4)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org