________________
श्रीभोजदेवविरचितां
[ दशमी सर्पकथानिका ]
अन्यच्च-वत्से ! अतिपीडिताः पुरुषाः को " पवशान्न तदस्ति यन्न कुर्वते । तथा
१ रक्तायमानायां । भूङ्गा १०
श्रूयताम् - अस्ति वत्से कौशाम्बी नाम नगरी । तस्यामवनिवनिता सीमन्तर -[ F. 124. B]नायमानायां श्रोत्रियो महाधनः समधिगतसकलविद्यः श्रुतधरो नाम ब्राह्मणः । तस्य श्रुतिस्मृत्युदितेन वर्त्मना संचरमाणस्य मध्य मे वयसि विनयधरो नाम सूनुः समुदपादि । स च बाल्यात् प्रभृति यथावदधीत वेदोऽधिगतसकलशास्त्रार्थः षोडशवर्षदेशीयं वयः समाससाद ।
(2)
अथ कदाचिन्निविड तर शिशिर सम्पातसम्भ्रमादधिकपर्याकुलं निखिलमपि भुवनमालोक्य समुपजातकरुण इव तु हिनर्तुमपहस्त्य मूर्तिमन्तमिव निजप्रतापमहिम किरणमुद्दीपयति सकलर्तुचक्रवर्तिनि विजृम्भमाणे वसन्तसमये, रजनिच्छत्रधारिकयोत्क्षिप्यमाणे समुल्लसत्किरणशत शलाकाभृत्यमितः प्रसज्योत्स्नाप्रसरपटलप्रावृते धवलातपत्रश्रियमुद्वहति च”-[F.125. A]न्द्रमण्डले, इतस्ततो मन्दमारुतान्दोल्यमानप्रवर केसरदलेषु धवलचामरलक्ष्मीमाश्रयत्सु विकच सितसरोरुहेषु निर्जितनिखिलभुवनस्य मकरकेतोर्लाक्षिकत्रसरवैजयन्तीष्विव प्रतिविपिनं वनराजिभिः समुल्लसिताखशोककिसलयावलीपु, उत्कलिकानाकु 'लचम्पकतरावप्यनुद्भिन्नभूताङ्कुरगर्भग्रन्थावप्यनुल्लसितकेसरामोदेऽप्यनपगततरुलतारूक्षभावेऽप्यविशद दिच्छुखेऽप्यनतिमन्दमारुतेऽप्यनभिलक्ष्यमाणमधुकरकुलक्काणेsप्याकुलयत्य हेतु भुवनतलं मधुप्रथमावतारे प्रथममुत्कलिकाकुलं भुवन" मुपजनयति ; अनन्तरं सहकारकाननानि । आदावेव सततमनस्थोल्लसितरागं कामिनीनां हृदय मुपदर्शयति, परस्तादशोकतरु" [F. 125. B] वीथिकाः । प्रागेवानुरागवशाद् दयितं प्रति कामिनीनां नयनानि मुकुलयति, तदनु कमलिनीवनानि । प्रारम्भ एव विरहिणीहृदया "नां भेदमातन्वाने, परतः स्ववीरुद्गर्भग्रन्थीनाम् । प्रमुख एवान्धकारीकुर्वन्ति कामिजनहृदयानि, पश्चान्मधुकरकुलैः कुसुमकाननानि " । प्रौढिमागच्छति महिमनि मधुप्रभवे शनैः शनैरलक्ष्यमपचीयमानासु यामिनीषु क्रीडाकमलदीर्घिकासु च, तुहिनजडिमोप हितं रूक्षभावमवलक्ष्यमुत्सृजत्सु शशधरकरेषु क्षितिरुहेषु च धूम्रतामपास्यन्तीष्वलक्ष्यं दिक्षु मानिनीमनोवृत्तिषु वाऽलक्ष्यं प्रौढि मुद्वहति दिनकरमयूखजाले स्मरशरनिकरे च, प्रियतमेनेव मधुसमयेन प्रसाधितायाः कानन श्रियः स्वमवलोकितुमभिलषन्त्या इवातिविमलपुष्परागरोचिषि सहकारतरुराजिप्रियवयस्यया परितः सज्जीकृतायां [ F. 126.A] मुकुरसम्पदि, प्रतिदिवसोपचीयमानां मित्रस्य समृद्धिमवलोक्य स्मितश्रियाऽलङ्कृतेषु कमलवनेषु, कुङ्कुमरसोमृष्टललनाकपोलस्थलीच्छायानुकारितया कामिनां मनसिजज्वलनमुद्दीपयत्युत्तप्तकार्त
(2)
Jain Education International
२ विपनं ।
33
For Private & Personal Use Only
७
www.jainelibrary.org