________________
शृङ्गारमञ्जरीकथा च्छ"डुलवृत्तान्ते श्रुते हृदयं स्फुटित्वा अशोकवती मृता, इत्यागत्य कथिते, तदास्थानगतः सुन्दरको राजानं व्यजिज्ञपत्-‘देव ! मया स्त्रीरत्नमीदृग्विधं विनाशितमिति मम स्थातुं न युज्यते । तदादिशतु मां देवस्तयोश्च प्रेम्णि क्षीरनीरयोरिव नान्तरमस्ति । किन्तु मया तस्याः स्वकौटिल्येन मनोमोहमुत्पाद्य ईदृक्पर्यवसानमुत्पादितम् । तदिदानीमिदमेव ममोचितं यत् प्राणाः परित्यज्यन्त' इति । अथ" [F. 123. B] स राज्ञा बहुप्रकारं प्रतिबोधितोऽपि स्वदारलावित्तकैश्च सह वह्नौ विविधभङ्गिमिरात्मानं जुहाव ।
अत्रान्तरे च्छड्डलोऽप्यश्ववारावेदितं वृत्तान्त"माकर्ण्य तोरणस्थापितैरश्ववारैरेके नैवाहा समेत्य तदीयवासभवनभित्तावशोकवतीमालिखितामालोक्योन्मत्त इवाभाष्याश्लिष्य" च तच्चितासमीपमागत्य सुन्दरकचितास्थानं चापृच्छय- अस्मद्भातुः स्थानमिदम् , तत् साधुकृतमनेन' इत्यभिधायाशोकवतीचितास्थान एवात्मनश्चिता विरचय्यात्मानं च वहावुपससर्ज । राजा तु तेषां तदत्यद्भुतं वृत्तान्तमाकर्ण्य-'अहमेवैकः सर्वेषामेतेषां विनाशहेतुरभवम्' इति विचिन्त्य भगवत्या आशापुरायाः पुरतः शिरश्छेत्तुमुपचक्रमे । भगवती तु तस्य सर्वातिशायि साहसमहेतुं त्रैलोक्यविलक्षणं चावलोक्य'पुत्र ! "मा मैवं साहसं कृथाः, याच्यतां यदभिरुचितम् ।' ततः स देवीमभ्यधात्'देवि ! यदि प्रीतासि तदशोकवती-सुन्दर-च्छड्डलाः सपरिग्रहाः पुन -[F. 124. A ]र्नवीभवन्तु ।' ततो देव्यैवमस्तु इत्यभिहिते सुप्तप्रतिबुद्धा इव त्रयोऽप्युत्तस्थुः । राजा तु'युवयोरनुरागभेदः कर्तुं न बुध्यत' इत्यभिधाय परितुष्टः च्छ "ड्डलस्य तामेवाशोकवतीं प्रसादेन प्रायच्छत् । सुन्दरकस्तु तां यथाविधामौचित्यकारितां पौरुषं चालोच्य विधाय द्विगुणं प्रसादं राजानमन्वक"रोत् । राजा तु प्राप्तदेवीप्रसादपरितोषनिर्भरः स्वभवनमागत्य सपरिग्रहः सुखेन सुचिरमासांचक्रे ।।
तदेवं पुत्रि! बह्वयः पुरुषा"नुरागिण्यो वेशवनिता वपुषा वित्तेन च विनेषुः । तदस्मत्समये रागो व्याघ्र इव दूरतः परिहरणीयः ॥ इति महाराजाधिराजपरमेश्वर"श्रीभोजदेवविरचितायां शृङ्गारमञ्जरीकथायां
उभयानुरागकथानिका नवमी ।
१ तरा।
२ परित्यजत ।
३ दिव्य ।
४ राजानमकरोत् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org