________________
शृङ्गारमञ्जरीकथा
(3),
ततोऽतिकुपितः स भट्टमातृगुप्तमवज्ञाय तां तथाभूतामनुचरैरुत्क्षेप्य" भगवत्या आशापुराया आयतनमगात् । तत्र च निखिलमपि परिजनं बहिर्निस्सार्य विक्रमादित्योऽपि स्वशिरश्छेत्तुमुपचक्रमे । ततो भगवत्या "शापुरा - 'पुत्र ! पुत्र ! मा कृथाः साहसमेवंविधम्, न भवान् सामान्यः किमिति प्राणिमात्रानुकम्पयेतरप्राणिवदात्मानं विनाशयति ' इत्यभिदधाना तं करे " जग्राह । स प्रत्यवादीत् - ' देवि ! क्षम्यताम् । मुच्यतामयं करो यथाभिलषितमुपहारं भवत्यै प्रयच्छामि । ततो भगवत्योक्तम् ' तुष्टाऽस्मि तवानेन सर्वाति" शायिना साहसेन तदुच्यतां यदभिरुचितं भवतः' इत्युक्तो विक्रमार्कस्तामाह'देवि ! पुनरप्येषा लावण्यसुन्दरी जीवितेन संयोज्यताम्' इत्युक्ते" तां देवी प्रत्युदजीवयत् । ततो हृष्टमनास्तामादाय विक्रमार्कः स्वभवनमगच्छत् । सर्व्वतः प्रावर्तन्त वर्धा - नकानि आनन्दमाससाद च निखिल : पौर- [ 1.78. B] लोकः । इत्थमतिहृष्टयोस्तुष्टयोः [ मदन ? ]वशङ्गतयोर्गतानि कतिचिद्दिनानि ।
४६
अथैकदा भोजनानन्तरमवसितप्राये वासरे शनैः शनैः पश्चिमाशामनुसरति " कमलिनीबान्धवे तया सह दन्तवडमिकामधिरूढो विक्रमार्क नृपतिः स्वैर विहारागतमसितमणिशिलासमुद्भकश्रीविडम्बिना चरणचतुष्टयेन " ग्रसमानमिव धरणिमण्डलम्, अत्युत्साहितया चरणतलगताना भोगिनोऽष्टादशद्वीपानिव नखमणीनुद्वहन्तम्, निसर्गत एव रूपश्रियो विलास भवनेन सुप्रतिष्ठितोपचितस्थिरस्निग्धत्विषा गात्रापरेणोद्भासमानम्, शौर्यलक्ष्मीनिवासैकवेश्मनो हृदयस्य कवाटाभ्यामिव दृढसुघटिताभ्या " मंसकलकाभ्यामुपशोभमानम्, मीनविक्षोमिनाऽतिपृथुलेनाप्रधृष्यकमनीयेनाम्बुराशिनेव " [ F. 79. A ] श्रीमतोरसा विराजमानम्, अनवरतमद सुरासौर भानुपातिभिर्मधुकर कुलैरतिघनस्थगिततया निखिलकरिकुलोपमर्द करुणया वेधसेवाय " त्नविरचितासितावघाट मित्र वदनमुद्वहन्तम् मधुपृषत्पिङ्गलत्विषो नयनयुगलस्य प्रसृतकान्तिजालतया निर्यदनच्छको पानलज्वालमिवोपलक्ष्यमाणम्, आयत स्निग्धमसृणेनाभिनवमालतीमुकुलसोदरत्विषा समदकरिकुलोन्माथजन्मनो निखिलभुवनव्यापिनः समुजिगमिपो "र्यशसः प्रथमनिर्गताङ्कुरद्वयेनेव दशनमुशलद्वन्द्वेनोद्भासमानम्, अतिपृथुलाभ्यामच्छिन्नमदनदीप्रवाहोद्गम कुलाचलाभ्यामिव कपोल " स्थलाभ्यामुपशोभमानम् समेष्यन्त्या विजयश्रियो जनितवर्ण कपल्लवेन पर्णकुम्भेनेव कुम्भेन शोभमानम्, अत्या [ F. 79. B यतिभृतो वदनस्य विस्तृतिमिवापादयताऽतिपृथुलेन प्रतनुशोणबिन्दुचित्रितत्वक्तयाऽनेकसमसम्मर्दक्षपित विपक्षगजरुधिरकणकर्बुरितेनेव " प्रचलाग्र पल्लवतयोदाममदसन्तापतप्ताविव कपोलौ वीजयता श्रवणद्वयेन भ्राजमानम्, अतिपृथुना क्रमापवृत्तेनातिदीर्घेण च भूतलस्थितानि "निखिलान्यपि नागकुलान्यन्वेष्टुमिवातिप्रचलेन लोलता करदण्डेन चण्डि -
,
१ 'भिलखितुमुपहारं ।
"
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org