________________
श्रीभोजदेवविरचिता
४५ . तदाकर्ण्य भट्टमातृगुप्तस्तमवोचत्-‘देव ! एवंविधा नानाप्रकाराः क्षितितले विचरन्ति स्वार्थतत्पराः स्त्रियः । तद् एवंविधासु न” विश्वसितव्यं देवेन । इदं त्वेतदीयं सर्वमपि वैशिकमिति मया ज्ञातमेव' इति भट्टमातृगुप्तेनोक्ते स चिन्तितवान्-'किमहं निसर्गानुरागमुत वै"शिकमित्यपि न वेनि ? भवतु, किमनेन ? भट्टमातृगुप्तो गौरवित इति न किमप्युच्यते । ईदृशमेवास्य स्वरूपम्" इति तमवगणय्य तया सहानुदिवसं परं विश्रम्भेण बहूनि दिवसान्यासाश्चक्रे । भट्टमातृगुप्तस्तु प्रागुक्तमेव स्ववचः पुनः पुनस्तं स्मारयति स्म । ततः स कदाचित् स्मारयन्नभि हितो राज्ञा-'कथं पुनर्निसर्गानुरागो ज्ञायते? यथा यथाहमेतामतिनैपुण्येन परीक्षे तथा तथैषा क्वचिद-"[F. 77. A] पि नाङ्गं रक्षति । अनुरागचिह्नानि च सकलान्यप्यस्या दृश्यन्ते । स्वम(प्र)मदान्यचित्ततादिष्यपि नास्याः किमपि वै"कृतं लक्ष्यते' इत्युक्ते भट्टमातृगुप्तः पुनरप्यवनीपतिमवादी'देव! तर्हि देवेनेयं ग्राम्याभिर्विडम्बनाभिः परीक्ष्यताम् ।' यथा यथेष परीक्षार्थ तास्ता ग्राम्या अपि नखदशनदानकेशच्छेदादिका विडम्बनाः करोति तथा तथैषा विशेपतो हृष्यत्यनुरागिणी च भवति । तदखिलमपि भट्टमातृगुप्तायाकथयत् । 'भवान् मुहुर्मुहुर्वैशिकं वैशिकमिति पूत्करोति न च वैशिकानुकारि चेष्टितमस्याः किमप्यभिलक्ष्यते ।' इत्युक्ते भट्टमातृगुप्तः पुनरप्येवमाह- 'अतिधूर्तीयं [अन]या देवस्याप्येवंविधश्चित्तभ्रमो जनितः । साम्प्रतं मया निर्णीतमेतत् सर्वमस्या वैशिकमिति । सा तु सकलमपि भट्टमातृगुप्तेनोक्तं जनपरम्परया शृण्वती सदैवाशङ्कमाना तमप्यतिगौरवेण पश्यति । अथैकदा सा व्यचिन्तयत् "[P. 77. B]-'बहूनि दिनानि वर्तन्ते, अतिक्रमिप्यति च समयः' इति विचिन्त्य, यत्र भट्टमातृगुप्त-विक्रमाकौं गोष्ठ्या तिष्ठतः, तत्रागत्य क्षणमुपविश्येदमभिहित"वती- 'अयं भवदीयप्रसादवित्तको यदहमतिदूराद् भवगुणानुरागेणागता तदयं वैशिकं वैशिकमिति ब्रूते, तद्भवतु मदीयानुरागस्यायमेव विचार उचितः । साधुर्भवान् राजा, प्रसादवित्तकश्चायमिति मिलितं पेटकम् । ततोऽभ्यधायि राज्ञा - 'केनेयं भवत्या व्यलीका वार्ता कथिता ? किं भट्टमातृ"गुप्त एवंविध उताहम् ।' इत्युक्ते सा विहस्य क्षणमेकं स्थित्वा शयनागारस्यान्तः प्रविश्य शयनीयस्योपरि निहितां राजशस्त्रिकामादाय स्वशिरश्छे" दमकार्षीत् । ततो यावत् शङ्कितचित्तो विक्रमार्कोऽन्तःप्रविशति तावत्तां छिन्नशिरसमपश्यत् । ततस्तामालोक्य कुलिशेनैवाहतः, ज्वलनेनेवालीढः, दृष्टिविषविषधरेणेवेक्षितः क्षणमभूत् । अनन्तरं हृदि विचिन्त्य भट्टमातृगुप्तमाहूयेदमभिहितवान्- 'भट्टमातृगुप्त ! दृष्टं भवता वैशिकस्सा-"[F.78. A] वसानम् ?' इत्युक्ते सोब्रवीत्- 'देव दृष्टं, किमन्यथाऽहं ब्रवीमि ? इदमपि वैशिकमेव ।'
१ °कारा क्षिति। २ लक्षत ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org