________________
शृङ्गारमञ्जरीकथा
w
तस्मिन्नेव क्षणे तदीयानुरागेण सा स्फुटितहृदया सद्य एवा"सुभिर्व्ययुज्यत । तस्याश्च वेलावित्तिकाः प्रसादवित्तिकाः परिजनश्च कृतमरणोद्यमो वर्तते' इत्याकर्ण्य सूरधर्मा व्रजनकस्मादवतस्थे; 'किं किं भवत्यौ भणतः ?"इत्यपृच्छच्च । तया तु सर्वस्मिन् वृत्तान्ते 'क्वापि गतः' इति कथिते, 'अहं स पापः' इत्यभिधाय कृतमरणाध्यवसायो वेगेन व्या वृत्य देवदत्ताया गृहमगच्छत् । यावत् तत्र याति तावदेकतः श्रीखण्डखण्डान्यन्यतो विचित्रवासांसि, अन्यतो घृतघटान् पश्यन् , परिजनाक्रन्दमाकर्ण" यन् दूरादेव मकरदंष्ट्रया दृष्ट्वाऽभ्यधीयत-'रे रे महापातकिन् ! व पुनरप्यागतोऽसि ? तां सर्वखभूतां जीवितभूतां विश्व -[F. 58. A] स्थापि निखिलस्य रत्नभूतां मम दुहितरं व्यापाद्य पुनरन्यत् किञ्चित् कतु मागतोऽसि ? इदानीं कस्य प्रसादादियत् कुटुम्बं जीविष्यति ? अहं च कथं भवि"ज्यामि? सर्वस्यापि कुटुम्बस्य भवता मुखं प्रोञ्छितम्' इत्यभिहितः स यावत् पश्यति तावद् देवदत्तां विहितप्रेतासनां मृतामपश्यत् । ____ ततस्तेन सा"क्षेपमभिहितम्-'मातः! किमिति पूत्करोषि ? दुर्धरो विधिविपाकः । वृत्तेः किं पूत्कृतेन ? भवतु, त्वद्भाग्यैरीदृग् व्यतिकरः सञ्जातः । नाहमस्याः परोक्षेजीवितु मुत्सहे' इति कृतमरणाध्यवसायः स्वजवां विपाट्य निजप्रभापटलपाटलितदिगन्तमनुपमं समयं च रत्नमस्यै प्रायच्छत् । उक्तवा"श्च-'एतत्प्राप्त्या भवत्या त्वत्कुटुम्बेन दारिद्रस्य जलाञ्जलिदत्तः।'
ततः कुट्टन्या स्वभाषयेदमभ्यधायि 'उत्व विअले' । एतस्मिन् मातुर्वचस्यमृतप्राये'[F. 58. B] कर्णविवरं प्रविष्टे देवदत्ताऽपि किञ्चिदुच्छ्स्याङ्गमोटिका द्वित्राः प्रदायावलोकितुमारेभे । ततः प्रहर्षनिर्भरः प्रववृते तुमुलः कोलाहलः । वर्धापन"कानि च प्रवृत्तानि । देवदत्ता प्रमारकेण नीतोत्थितश्च प्रवादः। ततस्तामुत्थाप्य कण्ठे लगित्वा मकरदंष्ट्रा निर्भर्त्सयाम्बभूव । ततः काश्चिदपि रभसात् पादयोलगन्ति, काश्चित् पुरतो लुठन्ति । ततः क्रमेण निवृत्ते महोत्सवे जामातरमपि मकरदंष्ट्रा निर्भर्त्य नपयित्वा परिधाप्य च तस्य द्विगुण गौरवमकरोत् । देवदत्ता च स्नातानुलिप्ता गृहीतभूषणाऽनन्तरं तेन सह द्वित्रीणि दिनानि तथैवात्यवाहयत् । ___अथैकदार्धरात्रसमये तस्यबहुविधाः प्रेमनिर्भरगोष्ठीविदधानस्य पूर्वोषितसंस्कारवशात् पुनरपि 'अवा जानाति' इति वचः समाजगाम ।
ततो देवदत्तयाऽभिहितम् – 'अरे किं तव 'अबा जानाति' उताहम् ?'
१ युन्यता। २ °स्मिनु। ३ कोपि गतः। कतुमा । ५ जीवितुत्सहे । ६ लुठति। ७ निर्मत्स्य ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org