________________
श्रीभोजदेवविरचिता ततस्तेन कृताञ्जलिनाऽभ्यधायि-'न किश्चिद् अवा जानाति । भवत्येव सर्व जानाति।' ततो देवदत्तया प्रत्य"[F.50. A ]वादि -
'यद्यहं जानामि तदा निर्गच्छ ! निर्गच्छ !' इत्यभिधाय पाणिप्रहारं दवा निर्धाटितः।
तेन च निर्गच्छता सदैन्यममिहितम् - 'शम्बलं मे किश्चिदीयताम्' इत्यभिहिते सुवर्णपलद्वयं दत्त्वा निःसारितः ।
इत्थं पुत्रि ! स्वप्रतिभयाऽविश्लिष्टमस्तित्वमतिगोपितमपि सम्यगाकलय्य तदीयदार्थेने तमङ्गीकृ"त्यात्मनो वित्तपरिक्षयमप्यपरिगणय्य देवदत्तियोपक्रान्तः । अनन्तरं हरिद्रारागतामस्य सम्यगधिगम्य क्षिप्रमेव सर्वस्वं विश्राव्य निःसारित इति हरिद्रारागः। तदित्थं पुत्रि! हरिद्रारागे पुंसि विना खेदैविशिष्टतरोपायैरा विश्रावणमेव श्रेयः । यथा हि सूर्यतापादिभिर्हरिद्रा"रागोऽपक्षीयते एवं हरिद्रारागे पुंसि तर्जनादीनि विरागाय भवन्तीति तैर्विना हरिद्रारागो विशिष्टोपायैराशु विश्रावणीय इति । ....... इति महाराजाधिराजपरमेश्वरश्रीभोजदेवविरचितायां शृङ्गारमञ्जरीकथायां
सूरधर्मकथानिका चतुर्थी ।
rcomen[पञ्चमी देवदत्ताकथानिका] | अन्यच्च पुत्रि ! [F. 59. B] यदेतदभिहितं पराशयं परिज्ञाय[य अनुप्रविश्य परो रञ्जनीयः, तत् श्रूयताम्___ अस्त्यत्र सकलत्रिभुवनललामभूता भूताधिनाथेन भगवता श्रीम"हाकालाभिधानेनाधिष्ठिता श्रीमदुजयनी नाम नगरी । तस्यां निजभुजार्जितचक्रवर्तिपदः पदमद्वितीयायात्रिभुवनविजयश्रियः श्री"विक्रमार्को नाम नरपतिरासीत् । तस्य दारिका देवदत्ता नाम सकलक्षितिवलयरत्नभूता जीवितमिव उच्छृसितमिव चैतन्यमिव प्राणा इव सर्वखमिव मकरध्वजस्य, भूमिः सौभाग्यस्य, आयतनं लावण्यस्य, आश्रयो यौवनस्य, स्थानं कलानाम्, वासोवेश्म विलासानाम्, निलयो" लीलायाः, सकलभुवनतलवर्तिरमणीयोपादानपरम्परामादाय भगवता प्रजापतिना निम्मिता। सा च नृपतिभिर्महासामन्तैर्व्यवहार"[कैः]........ चातककुलैरिव तृष्णातरलैरुद्रीवैरहमहमिकया सदैव सर्वखदानेनापि वीक्ष्यमाण"[F.60.A] ...... मुखमाशाञ्चके ।
निर्धारितः। २ दाव्येन । ३ विसृष्टतरों। ४ °यैरसुवि'। ५ विनष्टान्यत्राष्टावक्षराणि । ६ विनष्टान्यत्र ८-९ अक्षराणि ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org