SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ श्रीभोजदेवविरचिता ३३ भवति तदितोऽपक्रमणमेव श्रेयः । तत् कथ" मपक्रम्यते' इति विचिन्त्याञ्जलिं बद्धा स्वदेशाभिमुखं गमनसञ्ज्ञया 'अवा जानाति ' मुहुर्मुहुर्बभाषे । अथ तयाऽभ्यधाथि - 'त्वया विना क्षणमपि " न जीवामि किमितिभवान् प्रयाति । यदि तावदर्थलोभेन तदा सप्त वेण्यर्जितं यन्मदीयमेतद्धनं तत् सर्वमेव त्वदीयम्' इत्यभिधाय हारमणिके' [ F. 56. B ]यूरकङ्कणकाञ्चनद्रव्यादि निवेद्य च निर्भरं रोदितुमारेभे । (3) 'यदि पुनः स्वजनसङ्गमापेक्षया स्वदेशं गन्तुमिच्छसि तदा सन्ति मे सहायास्तानत्रैवानाय "यामि' इत्यभिहितोऽपि मुहुर्मुहुः 'अव जानाति' इत्येतदेव स्वदेशगमनसञ्ज्ञया जगाद । देवदत्तयाऽपि 'गतोऽयं वञ्चिताऽस्मि, सर्वथा विधारयितुं न याति ' इति "" गमनायानुमोदितः स्वदेशं प्रति सत्वरं गन्तुमारेभे । अनया च निर्णीतम्, यत्- 'क्षयं यातु मे जीवितम्, निष्फलेयं यौवनश्रीः, निरर्थकः सौभाग्यग: "", विफलीभूतान्याजन्मप्रभृत्यधीतानि विटवश्वनरहस्यानि, अस्तंगताः कर्णपरम्परायाताः कुट्टनी पेटकोपदिष्टा वैशिकोपनिषदः । तद् अवश्यं यदि मामयमतिसन्धाय गच्छति तदा निजस्तनाविमा - चुत्कृत्य प्रज्वलिते हुतभुजि जुहोमि' इति निश्चित्य दारिकाद्वयमाहूय शिक्षयित्वा तेनैव मार्गेण प्रस्थापितवती । (6) उक्तं च- ' भवतीभ्यां योजनद्वयादव मार्गोभयपार्श्ववर्तिनीभ्यां दर्शनपथं परिहरन्तीभ्यां गन्तव्यम् । [ F. 57. A ] ततो योजनद्वयं गतवत्यस्मिन्नेकया पौरस्त्याद् ग्रामात् तदभिमुखमागन्तव्यम्, अपरया तु तदेकदेशतो मनाक् सन्निहितया " शनैः शनैर्गन्तव्यम् । ततः पुरस्तादागच्छन्त्या सप्रत्ययाभिज्ञं सन्निहिता प्रष्टव्या, यथाशिक्षितं चानुष्ठातव्यम् ।' ततस्ते द्वे अपि तत्पृष्ठवर्तिन्यो भूत्वा तेनैव मार्गेण गत्वोक्तभनया दर्शनमकुरुताम् । उक्तं चैकया- ' प्रियङ्गिके ! कुतो भवती ?" प्रियङ्गिका- 'उज्जयनीतः । लवङ्गिके ! भवती पुनः कुतः ?" wwwwwwwww लवङ्गिका - 'इतो ग्रामात् । ममोजयन्याः परित्यक्तायाः कियन्ति दिनानि वर्तन्ते, तत् कथय तत्र राजा कथं वर्तते ? कीदृशी राज्यस्थितिः ? का वा तस्यामपूर्व्वा " वार्ता ?' इति ब्रुवाणे गोमयशकलानुच्चिन्वाने परस्परं वार्तां कथयन्त्यौ तेनैव सह कियन्तमध्यध्वानतिदूरस्थिते एव प्रतस्थाते । (6) प्रियङ्गका " 'भगिनि लवङ्गिके ! किं कथयामि ? उज्जयन्यां महदाश्चर्य मया श्रुतम्, यत् किल सा देवदत्ताभिधाना दारिका सा कस्याप्युन्मत्तकस्या -[ F. 57. B ] रक्ता । स च तया सर्वस्वदानेन विधार्यमाणोऽपि न स्थितस्तामनादृत्य क्वापि गतः । NNNN NOV ३ निर्नीतम् । ४ °स्मिकया । ५ मनाकु । १ अंबापजानाति । २ रध्वां जानाति । ६ सप्रत्ययभिज्ञं । ७ व्यक्ताया । शृङ्गा. ५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002914
Book TitleSrngaramanjari Katha
Original Sutra AuthorBhojdev
AuthorKalpalata K Munshi
PublisherBharatiya Vidya Bhavan
Publication Year1959
Total Pages312
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy