________________
शृङ्गारमञ्जरीकथा
'बटो ! किं तवानया चिन्तया ? व्रज यथाभिमतम्' इत्युक्तेनापि बटुना पुनः पुनः अनुब-[F. 55. A ] ध्यमानोऽसाविदमवोचत्
३२
'निजकुलाचारेणेव पुरुषक्रमागतेन दारिद्रेणातिखिन्नः समुद्रसेवां करोमि ।' ततस्तस्य निश्चयदामा "कलय्य बहुनेदेमभ्यधायि
(6)
(2)
'अहमेव स पाथोनिधिस्त्वत्सेवानुरोधादायातः । तद् गृह्यतामिदमनयं महारत्नम् ' इत्यभिधाय तदस्मै प्रायच्छत् " । तदवाप्य कृतकृत्यतामात्मनो मन्यमानः सूरधर्मा स्वगृहान् प्रति प्रतस्थे । अचिन्तयच्च - 'कथमेतन्मया मार्गे रक्षितव्यम्।' अथ परिकल्पिताभ्युपायः स्वजङ्घां विपाट्य, तन्मध्ये प्रक्षिप्य विधाय च व्रणरोपणम् अङ्गीकृत्योन्मत्तकवेषम्, रथ्याकर्षटानि परिदधन्, निम्र्माल्यत्रजो मूर्ध्नि बनन्, ऊर्ध्व एव भुञ्जानो, यत्र तत्र स्वपन्, मलकलङ्किततनुः केवलमिदमेव व्याजहार - 'अवा जाणइ ।' लोकैरालपितोऽपि पृष्टोऽपि ताडितोऽपि ' ' अद्या " जानाति' इत्येवाभ्यधत्त । एवमसौ पथि व्रजन् कियद्भिरहोभिरुज्जयनी मवापत् । तस्याश्च किं वर्ण्यते " [ F. 55. B] यत्र त्रिभुवनपतिरपि विलास (१) लोभेन रामणीयकहृतहृदयः कैलासवासमुत्सृज्य श्रीमहाकालनाथः प्रतिवसति । तां निज [ भुज ] युगलविदलिता" रिविक्रमस्त्रिविक्रम इव विहितवलिबन्धनो विक्रमार्कनृपतिः पालयति स्म । तस्य च नृपतेः सकलजनमनो दारिका देवदत्ता नाम दारिका ” ऽऽसीत् । सा चातिमहाविभवाऽतिप्रख्याता च । रूपलावण्ययौवनवैदग्ध्यविभ्रमाणामेकभवनम् | सर्वदेव कोऽभिगम्यः को महाधन इत्यन्विष्यन्ती देवयात्राच्छलेन परिभ्रमति । एकदा तु पञ्चषैः पदातिशतैः परिवृताऽतिविज्ञप्रभूतदासी परिवाराऽश्वतरीमारूढा तमु - न्मत्तकमपश्यत् । दृष्ट्वा च तस्य च्छायां विमृश्य चेति निश्चितवती यदस्य पार्श्वे वस्तु तिष्ठति तस्य त्रिभुवनमपि स्वल्पं मूल्यम् । न च स्वभावादुन्मत्तः, किन्तु धूर्तोऽयं केनापि हेतु "नोन्मत्तवेषमादाय विचरति' इति विचिन्त्य तमाबभाषे - ' भद्र ! कुत आगम्यते, क गन्तव्यम् ?' इत्यादि बहुपृष्टः 'अवा जाण' एतदेव सर्व - [ 1.56.4] त्रैवोत्तरं व्यतरत् । ततस्तया निजप्रज्ञाबलात् तदीयतत्त्वं सम्यग् निश्चित्यात्मनः पृष्ठतो अश्वतरीमारोप्य स निजभवनमानिन्ये । तत्र च खोपभोग्यपुरुपोपचारैः स्त्रपितो भीजितो वस्त्रालङ्काराङ्गरागादिभिरलङ्कृतः । तेन च सह रतिसुखमनुबभूव । एवं यथैकमहस्तथा परिर्हतवेश्यावृत्त्या शिथिलितराजसेवाव्यापारया मासषट्कमनीयत । स पुनर्विस्मृ त्यापि नान्यदुत्तरं ददाति । अपि तु प्रागुक्तमेवोत्तरं वितरति । अन्यदा" चिन्तितमनेन 'ज्ञात्वेवाहमनया प्रारब्धः । तद् अत्युपरुद्धेन मा कदाचिदतिमोहात् सर्व्वस्वमपि दातव्यं
4
(2),
४ विनाश' ।
५ मनौ । ६ " ।
१ बटुमे । २ नूर्व । ८ पुनविस्मृ ।
७ 'मानीयत ।
Jain Education International
३ यद्वा ।
For Private & Personal Use Only
www.jainelibrary.org