________________
श्रीभोजदेवविरचिता यौवनमाससाद । ततोऽसौ नि"जनगरवासिनामन्येषां विभूतीं पश्यन्नत्यन्तखिन्नश्चिन्तितवान्-'केनोपायेन ममाप्येवंविधो विभवः सम्पद्यते' इति चिन्तियन्निदमवधारयाञ्चके। अर्थैरा विव'[ई]न्ते । ते च मम न सन्ति । अथ राजसेवां करोमि । तदुपायं न जानामि । अतः किं करोमि ? भवतु भगवन्तं रत्नाकरमाराधयामीति निश्चित्य भिक्षामेव भ्राम्यन्नम्भोनिधेस्तटमायासीद् । अपश्यच्च-अभ्रङ्कषकूटकोटिभिर्विजितशैलराजायतिभिर्विविधमणिवलयकान्तिभूषणैः” प्रसृतिडिण्डीरपिण्डपाण्डुरितमूर्तिभिः श्रीखण्डधवलै'.... कल्लोलदण्डैरिव निवहैरुनतपयोधरां प्रियतमामिवाश्लिष्यन्तमन्तरिक्षलक्ष्मी स्थाने" स्थाने समुल्लसद्धहलविद्रुमलताजालच्छलादेका.....नापातुसमर्थेनोपरचितबहुशरीरेणेव वाडवेन निपीयमानसलिलम् , तीरतरु" [F. 53. B] मदकुकुभकुलक्वणितमणितरमणीयानि मन्दरमारुतान्दोलनतरलतरल...."मधुकरश्यामाभिः पत्रवल्लिभिः परिगतोपान्तानि सरसान्यापिबन्तमानन्या............ "व डिण्डीरपिण्डखण्डमुद्वहन्तं कनकनिकषस्निग्धविद्याधरमिथुनाधिष्ठितानाभि..........."ननाप्रतिबिम्बकैः सविद्युद्दामभिर्जलधरैरिव प्रविश्यान्तरेऽपि निपी यमान] सलिलं पल्लवितमिन .............."[ज]लधरमध्यवर्तिभिर्विधुच्छटासहस्रैः कुसुमितमिव स्थूलमुक्ताफलजालकैः................... शशितपनमण्डलपरम्पराभिः । यत्र च तिमिङ्गिलप्रभृतिजल[चरै].......................[F. 54. A] पादयन्तो न विरमन्ति भवन्तः सकलकटकज्वलितोपधिज्वालासटालमूर्तयःसव ......"रालङ्कृतसपक्षाः क्षितिभृतः। यत्र च प्रातःप्रातररुणकिरणश्रे................"घण्टिकाबन्धाः सम्भूय पातुमभ्युद्यताः सप्तापि वाडवावव ...................... तिमनुकरोति भगवान् गभस्तिमाली । यस्य चान्तःस्थलसिकतस्थूल ..............."त्रिदशवारणः । शुक्तिशकलं शशधरः। सलिलतुरग उच्चैश्रवास्तोयविद ............"णामप्यमृतत्वहेतुरम्भः पीयुषम् । त्रिभुवनस्पृहणीयसम्भोगा जलमानुष्यो ......''[F. 54. B] प्सरसोऽद्वितीया विश्वोपकारिणो याचकाः पयोमुचः । सुरासुरादिभिरपि प्रार्थनीयप्रसादलवा अपत्यं लक्ष्मीः । सकलदनुकुलध्वंसना "त् परित्रातलोकत्रयो जामाता पुरुषोत्तमः ।
- तस्यैवंविधस्याम्भोनिधेस्ततः प्रभृति स प्रारब्धसेवो बद्धचर्मचण्डातको गृहीतलकुटः प्रातः प्रातरुत्थाय कुसुमाञ्जलिं भगवतः पाथोनिधेरभिमुखं प्रक्षिप्य कृतदण्डप्रणामो वेलया सहापसरति वेलया सह गच्छति । इत्थं सकलमपि दिनं क्षपयित्वा सन्ध्यायामम्भोनिधेः कृतप्रणामो भिक्षयैवात्मानं निर्वाहयन् बहूनि वर्षाण्यनयत् । __अथैकदा कृतानुक"म्पः पाथोनिधिविधाय बटुवेषं तमवोचत्- 'भो भट्ट ! किमर्थमहर्निशं खिद्यमानस्त्वं गतागतानि करोपि ?' इत्युक्तः प्रत्यभाषत
१ विनष्टमत्रैकमक्षरं तच्च कोष्ठकान्तः स्थापितं 'ई' इति संभाव्यते। २ विनष्टान्यत्र त्रिचत्वार्यक्षराणि । ३ विनष्टे अत्र द्वे अक्षरे। ५४ अङ्काङ्कितस्य पत्रस्य पूर्वार्द्वभाग एवं प्रातः। ४ मम्युद्यताः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org