________________
शृङ्गारमञ्जरीकथा रहमागच्छामि लग्नः, मा कृथाः खेदम्' इत्युक्ता पुनर्मुक्तमुक्ताफलस्थूलबाष्पजलकणश्रेणिनिभृतैवाधिकमरोदीत् । अवादीच'
'त्वां विना द्वित्रा-[F. 52. A ]ण्यपि दिनानि न जीवितं धतुमुत्सहिष्ये किं पुनरियन्तं कालम् ? तत् क्रियेतां कृपा, स्थीयताम् ।'
___ इत्यावय॑मानोऽप्येवंविधाभिर्बह्वीभिरपि वैशिकोक्तिभिर्न "स्थितः । गच्छता चातिमहार्हमुत्तरीयमप्यर्पितम् । अथानुजन्त्यौ ते कियन्तमप्यध्वानं जग्मतुः । ततः कियत्यपि दूरे गत्वा कुट्टन्याभिहितम्
'भवता विना कथमियं स्थास्यति ? तत् किश्चित् स्मारणीयमर्प्यताम् ।' ततस्तेनाभिहितम्-'किमपि मत्पार्थे तथाभूतं स्मारणीयकं नास्ति' इत्यभिहिते कुवृन्योक्तम्-'स्मारणीय कार्थमिदं परिधानवासः समर्प्यताम् । यतस्त्वया परिहितमिति हृदये निधाय त्वामेवानुचिन्तयन्ती भवदागमनप्रत्याशया दिनान्यतिवाहयति । ___'एवं करोमि' इत्यभ्यधात् ; 'किन्त्वत्र बहवः पथिकाः समागच्छन्ति तद् लज्यते, तदितो मार्गमुत्सृज्य समर्पयामि ।' ___ततः कियति दूरे निर्जनां भूमिं गत्वा कुट्टनीमाहूय" पातयित्वा तस्या इतस्ततः समुद्वेल्लन्त्या- 'मातर् ! मातर् ! धावत धावत' इति पूत्कुर्वन्त्याश्च क्षिप्रमेव हठात् कर्णनाशिकमलुनात। उक्तवांश्च 'यदेत-" [F. 52. B] त्स्मारणीयाथै वस्त्रं त्वया याचितं तदशाश्वतमतस्तत् स्मारणीयं दीयते यथा यन्म[नो]न स्मृतिपथमुत्सृजति' इत्यभिधायात्मनः कृतार्थतां मन्यमानोऽर्थक्ष"तिमप्यगणयन् यथागतं जगाम ।।
'तत्पुत्रि! रक्ता अपि खिद्यमाना विरज्यन्ते । तदेवंविधाः कुसुम्भरागा विरज्यन्ते अनर्थाय च भवन्ति । तस्मात् कुसुम्भरागो नियतमपीडयद्भिर्विराग"कारणानि रक्षयद्भिरविरज्यन्नेव विश्रावणीयः । यथा कुसुम्भरक्तं वासस्तापप्रक्षालनादिसहं न भवति एवं कु सुम्भरागोऽपि ।' इत्यभिधाय [ ? विरतवचसि विषमशीलायां ] शृङ्गारमञ्जरी पुनरप्यवोचत्-'अम्ब ! वर्धते मम कुतूहलम् , तदखिलमप्युपक्षिप्तमावेदयतु भवती' इत्यमिहिता सा"पुनरप्यब्रवीत् । इति महाराजाधिराजपरमेश्वरश्रीभोजदेवविरचितायां शृङ्गामञ्जरीकथायां
स्वाध्यायीमाधवकथानिका तृतीया ।
[चतुर्थी सूरधर्मकथानिका ] पुत्रि! श्रूयतां स्वप्रतिभया वित्तविज्ञानं हरिद्रारागग्रहणोपायः- अस्त्यत्र गङ्गातटे हस्तिग्रामो नाम ब्राह्मणाग्रहारः। तत्र सूरधर्मा नाम ब्राह्मणः । स [F. 53. A] च पितृपितामहक्रमेणैवातिदरिद्रः कण'....महता क्लेशेन भोजनमप्यनवाप्नुवन्नुपरते पितरि
१ अवादी च । २ क्रयतां । ३ अथान् वज'। ४ वेदयितुं। ५ विनष्टे अत्र व अक्षरे ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org