________________
श्रीभोजदेवविरचिता नाशो न भवति तथा क्रियते' इति चिन्तयत एवास्य प्रोत्साहनाय स्फुटत्कुटजहारिविरलपरिस्फुरचित्र- [F. 50. B] शिखण्डिमण्डलाडम्बरमुद्वहन्त्युन्मिषदसमच्छन्नकाननावनिनिर्मुक्तध्वनिजलधराश्लि"ष्टदिक्तटतया जनितमन्मथोन्माथा निर्जगाम प्रावृट् । त्रिभुवनेऽप्येकातपत्रमिव राज्यमापादयन्ती रतिपतेनिखिलविजिगीषुव्यवसायैकबीजं शरत् पुनरवततार । प्रियतमेनेव जलदसमयेन विरहितानां दिग्विलासिनीनां मलयरसे नेव पाण्डिमानमानिताः किमपि म्लानिमाजग्मुः पयोधराः। निर्मुक्तघनतया क्रशिमानमागतानां च तासामगलद्विविधमणिमययुगलवलयमिव शातक तवं धनुः । सततमभिराममार्गणमार्गप्रवृत्ताः कीर्तय इव कुसुमकार्मुकस्य निर्जितशरच्चन्द्ररुचयो विचेरुः ककुभामुत्सङ्गेष्वम्बुजव नोत्सुका राजहंसपतयः । अनवरतवर्षणोत्सृष्टजलभरप्रलघून्युत्सृज्य जलदपटलानि कलमगोपिकालोचनसम्पन्नत्विषां कुव-[F. 51. A ] लयानामविकलविकासकलितगौरवाण्येनुससार श्यामाभिरामतां काननानि । प्रतिदिवसमाज्ञेव मकरध्वजक्षितिपतेरस्खलितं" जगति विसरन्ती बभार तीव्रतां पतङ्गप्रभा । यौवनमदोपचितकेरलीकपोलस्थलशमाभिरामनभसमपहस्तिताखिलरजाप्रसरतयाऽतिप्रसन्नदशदिशमुल्लसत्कुवलयकुटिलालकानि'उन्नमयासुराननानी मधुसुरभीणि अम्बुजानि। इषुधीनिव मधुप्रसाधितान् विकचकुवलयतया मनोहारिणी मदकलहंसकामिनीनिरतिरमणीयां शरदमिवावलोकयितुमम्बुजिन्यः । प्रतिजलाशयमलिवलयखण्डान् प्रवणयन्ती रतिरिवोच्वसितमात्मजन्मनः प्रतिरजनि व्यजृम्भत दलितकुमुदवनलावण्यलक्ष्मीश्चन्द्रिका । जलधरोन्मुक्तशशधरानना विकासिकाशकुसुमहासिन्युन्मदकलहंसनिस्वनी" [1.51. B] प्रबुद्धबन्धकप्रसूनच्छदा विकसितेन्दीवरनयनशालिन्याश्यानचन्दनधवलपयोधरा नव्यमृणालकोमलभुजलतोद्भासिनी प्रतनुसरित्तरङ्गत्रिव"लिवलया मशिजानसारसावलिरसनालङ्कतशुचिसैकतविपुल[ज]घनस्थली विकचबीजकप्रसवसुकुमारकान्तिकामिनीव कमनीया शरत् कस्य न मनो जहार ।
अथ स यात्राक्षम समयमालोक्य माधवो धनार्जनाय मलयविषयं प्रति प्रयातुमियेष, अवोचच्च कुट्टन्याः पुरतः यद्
_ 'अयमेवास्मदीये धर्मो यदर्थोऽतिमहानयंते भक्ष्यते च । तदहमिदानी महतोऽर्थस्थार्जनाय मलयविषयं प्रति व्रजामि' इति श्रुत्वा कुवलयावली रोदितुमारेभे । जगाद"चैनं यथा
त्वया विनाऽहं न शक्नोमि क्षणमपि स्थातुम्'इत्युक्तवती माधवस्तामभ्यधात्-'कथं भवती सिंहव्याघ्रव्याकुलास्वटवीषु नेतुमुत्सहे ? तत् कियद्भिरपि वासरै
१ रसेमेव। २ °वान्यनुससार । ३ °भिरमता। ४ काननानि । ५°लालकारि ।
६ उत्तमया । ७ नामीच। ८ कुटलय । ९निरूति। १० निस्वसा ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org