________________
२५
श्रीभोजदेवविरचिता
[ अत्रादर्शे ४२-४३ अङ्काङ्कितं पत्रयुग्मं विनष्टम् ] .........स्यै यद् दीयते तद् अल्पतरं प्रतिभातीति निश्चित्य गुरुजनेन विदितवृत्तान्तोऽप्यपहाय व्रीडामपहस्त्य गुरुजनोपदेशान् महार्हाण्याभरणानि सुवर्णसहस्राणि वस्त्राणि च विचित्राणि प्रतिदिवसमदात् । तया च तस्य नीलीरागतां सम्यगाकलय्योद्यानिकातृतीयोत्सवदेवयात्रो"पयाचितकादिभिः प्रकाम'याचनैश्च निःशेषमप्यर्थजातमाच्छिद्य निस्तुषीकृत्य सङ्गमिकामुखेने दमभ्यधायि यत्___'अद्य परिचितो वणि सूनुर्वसुदत्तनामा महतीमर्थोपार्जनां विधाय सुवर्णद्वीपादायातः । स च विनयवत्यामत्यन्तानुरक्त इतस्ततो लटक्षुटकश्चास्ते । भणति"
चैवं यद्येकामपि निशां मामाकारयति भवती तदा सर्वस्वमपि प्रयच्छामि । तद् भवता दिनद्वयं त्रयं वा स्वगृह एव स्थातव्यं"......[F. 44. A ]पि भवतैव दत्तं भवति, इदमपि भवत एवोपयोगं यास्यति' इत्यभिधाय निःसारितः। अथ गृहे स्थितो रविदत्तः, किं सा चिन्तयति, किं ............" कथं तेन सह सम्प्रयुज्यते, किं तस्याः सोऽपि न वल्लभो भविष्यतीति चिन्तयन् न भुङ्क्ते, न शेते, न किञ्चिजल्पति, न शृणोति, कण्टकवि"द्ध इव मर्मणि, वृश्चिकदष्ट इव विचेष्टमानः, क्वचिदपि न शर्म लेभे। गतेष्वथ द्विवेष्वहःसु चपलकसहायो विनयवत्याः प्राङ्गणे टिरिटिल्लितानि कुर्वाणः, पुनः पुनरितस्ततो गतागतान्यकरोत् । न चैनं कश्चिदालपति, न पश्यति, दृष्ट्वाऽप्यवधीरयति । तथापि द्विगुणतरोपजायमानानुरागसन्तापो व्यलीकाशयोद्रीवस्तां दिशमवलोकयंस्तदिनमत्यवाहयत् । अपरेद्युस्तथैव भ्रम माणस्तदीयेन' [F. 44. B] केनाप्यनालप्यमानः सङ्गमिकायाः सदनमगात् । तत्र तयापि नाभाष्यमाणस्तामभाषत
'सङ्गमिके! कृतं मया त्वदीयं वचो, गतानि तानि द्वित्राण्य"हानि तदद्यापि कोऽयं विलम्बः' इत्युक्तेऽवधीरितोऽपि स सङ्गमिकया, तत्पृष्ठानुसारी पुनः पुनस्तदेव ब्रुवाणोऽपरिचित इव सङ्गमिकया सक्रोध 'मिदमाभाषि-'को भवान् ? कानि च तानि द्वित्राण्यहानि? को विलम्बः? इत्युन्मत्त इव किमिति रे प्रलपसि?' इत्यति]निर्भ
य॑माणोऽपि तया सह गतागतानि कुर्वन् तामेवावलगन् द्वित्रीणि दिनान्य"त्यवाहयत् । दूरस्थितश्च विनयवतीं पश्यन्नुन्मत्तक इव हस[न् विविधा[:] शृङ्गारचेष्टा[:] करोति । तदी"यपरिजनेनोपहस्यमानोऽपि न किमप्य ज्ञासीत् । अथ दुराशयेव सङ्गमिकया दत्त"........ [पु]नः पुनरिदमचिन्तयत्-' भवत्व "नेनैतावतैव कृतकृत्योऽहं
१ प्रकासयाचनैश्च । २ °मयर्थजात । ३ सुखेन । ४ °मर्थोपार्यनां । ५ विनष्टान्यत्र चतुःपञ्चान्यक्षराणि । ६ निःसरितः। ७ विनष्टान्यत्र द्वित्राण्यक्षराणि । ८ भ्रम्यमाण। ९ न। १० भाबभाषे। १३ दिनानीत्यवाहयत् । १२ पश्यंतुन्मत्तक । १३ किमप्याज्ञासीद् । १४ विनष्टायन्त्र १२-१३ अक्षराणि ।
शृङ्गा.४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org