________________
२४
मनोरथैः, तदतः परमुल्लसन्तु कृतकविभ्रमाः, प्रकाशीभवतु वैशिकरहस्यमिति विचिन्त्य सन्निहितया स्वसख्या सह सविभ्रमं सस्मितमन्तरान्तरा मुहुर्मुहुस्तमालोकयन्ती गोष्ठीव्याजेन किमपि " [ F. 40. A ] किमध्यभाषत । रविदत्तोऽपि यद्यप्यननुभूतमदनचेष्टस्तथापि तत्कालमेव मकरध्वजोपदिष्टानात्मगतानेतदीयविभ्रमान् विनिर्ज्ञायं मय्यनुरागिणीयमित्याकलितवान् । अभूच्च द्विगुणतरमन्मथोन्माथव्यथितमानसो यथाहमेतैराकलितचेष्टो न भवामीति मन्यमानः शनैः शनैरन्तः प्रविश्यापहस्तित त्रिभुवनदर्पस्य भगवतः कन्दस्य पूजां विधाय विरचितप्रणामो निर्जगाम । ततः ' स इतस्ततः क्रीडोद्यानावलोकनव्याजेन परिभ्राम्यन्ननन्यचित्तस्तामेव चिन्तयन् स्वगृहान् प्रति गन्तुमारेभे । सापि तद् दृष्टिपात परिहरन्ती सखीभिः सह विविधाः विलासचेष्टाः प्रकटयन्ती तदनुगामिन्येव स्वगृहानयासीत् ।
(3)
शृङ्गारमजरीकथा
अथ द्वित्रिनाडिकावशेषे वासरे विनयवतीं" [ F. 40. B] सङ्गमिकाभिधानामात्मनिर्विशेषां सखीं तद् गृहान् प्रति प्राहिणोत् । गत्वा च सा तद् द्वारि क्षणमिव स्थित्वा तदनुचरैर्बहुभिर्निवेदिता' प्राविशत् । उपविश्य च 'अस्ति विज्ञाप्यम्, रहो दीयताम्' इत्यभिधाय विरराम | रविदत्तोऽपि तदनुचरीं तामवगम्य जातपरितोषस्तां बहुपरिषद"मन्यतो गमनाय सञ्ज्ञया न्ययुङ्क्त ।
अथ सा लब्धावसरा वक्तुमारेभे - “भद्र यद्यपि भवजातिविरुद्धमिदं तथापि स्वस्वामिन्याः पीडयार्त हृदया विज्ञापयामि, श्रूयताम् - यतः प्रभृति मदनयात्रायामस्मत्स्वामिन्या दृष्टिपथमागतो भवान् ततः प्रभृति स्मरशरसहस्रच्छिद्रिते "हृदि झगिति प्रविष्टः । तत एव प्रभृति सशल्यं हृदयम्, सोन्मादं चित्तम्, सोन्माथं वपुः, दीर्घोष्णं श्वसितम् त्वदालोकन कुतूहलि चक्षुः, त्वद्गुणश्रवणादाह्लादिनी श्रुतिः स्वदभिधानगर्भा भारती, भवत्सङ्गममया मनोरथाः । भवन्तश्च धर्म्मप्रधानाः, तद् दीयता [ F. 41. A ] मस्माकं सखीजीवितभिक्षा । सकृदपि स्वगमनानुग्रहेणानुकम्प्यतां वराकी । भवदीयेष्वपि स्मृत्यादिशास्त्रेषु स्त्रीवधपातकमतिगरीयः पठ्यते । यदि त्वमद्यैव गमनेन नानुगृहासि तदातामुपरतामवधारय " - इत्यभिधाय व्यरंसीत् ।
विदत्तोऽप्येतदाकयैकतो लज्जयाsन्यतो मदनेन, एकतो विवेकेनान्यत उन्माचेन, एकतो गुरूपदेशस्मरणेनान्यतो यौवनकद नेनान्तः परिक्लिश्यमानः, किं करोमि इत्यनवस्थितचित्तवृत्तिः क्षणमतिष्ठत् । स्थित्वा च भवत्विदमत्र साम्प्रतमिति विचिन्त्य सङ्गमिकां प्रणयपेशलमाबभाषे
44
" किमन्यदपि अभिधेयम्" न खल्बधन्येषु त्वत्स्वामिन्याः प्रमादादपि दृष्टिर्निपतति किं पुनरननुरागनिर्भरं हृदयम् । सर्वोऽपि जनस्तामर्थयते, सैवार्थयत इति मनो" रथानामप्यपथमेतत् । अतो यद् भणति भवती तत् सर्वमेवाङ्गीकृतं मया । किन्त्वस्मञ्जातिविरुद्धमिदम् । अतो यथा नास्मत्स्वजनगुरुपरं " [ I. 41B] १ वितिर्ज्ञाय । २ दिताऽप्रविशत् । ३ भूज्ञायां । ४ तस्वामिन्या ।
(६)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org