________________
श्रीभोजदेवविरचिता रङ्गशाला वैदग्ध्यलासकस्य, परा 'प्रकृष्टता प्रकर्षस्य, असदृशमायतनमनौपम्यस्य, उच्छसितं सौभाग्यस्य, प्राणितमाकारप्रकर्षस्य, नृत्याधिदेवता शृङ्गारविलसिता नाम्, सृष्टिमुद्रा प्रजापतिसृष्टेः, निरुपमस्वामिनी मनोभवस्य, द्राविकपुत्रिका निखिलजनहृदयानाम् , आकृष्टिविद्या सकलजनमानसानाम् , शृङ्गारस्यापि शृङ्गारः, विभ्रमाणामपि विभ्रमः, मधुरिमा माधुर्यस्य, औ[दा]र्यमुदारतायाः, उच्छ्वसितं हरनयनानलकवलीकृतस्यापि मक"रकेतोः, विदग्धता वैदग्ध्यस्य, भाग्यभूमिः सौभाग्यस्य, उत्पत्तिक्षेत्रं प्रेक्षकसुखानाम् , मोहनपिच्छिका भुवन [F. 38. B] लोकस्य, इन्द्रजालिकविद्या मूर्तिमती विदग्धजनमन:स्वीकरणे, अरुचिबीजमेकमितरकमनीयपदार्थानाम्", सौभाग्यस्यापि सुभगंकरणम् , स्मरविहसितमपरप्रजापतिसृष्टेः, मूर्तिमती गर्वलक्ष्मीर्मनोभव............,कमनीयताया अपि कान्तिः, रमणीयताया अपि रामणीयकम् , परिणतिविधिशिल्पस्य, एकं घुणाक्षरं प्रजापतिसृष्टेः, ......महेनौषधेर्मकरध्वजठकस्यापरः शशलक्ष्म्याः , जनवदनकमलविकासत्वे लडहलहरी शृङ्गारसागरस्य, चतुरिमा चातुर्यस्य, नवत्वं नूतनतायाः, नूतन उद्वेगः प्राक्तनायाः प्रजापति "सृष्टेः, सौन्दर्य सुन्दरतायाः, मनोभवरङ्गशाला निखिलजनरञ्जकत्वे, कान्तिसवेखं निखिलरमणीयतायाः, उत्पत्तिबीजं विस्मयस्य, स्मृतिप्रमोषः सादृशस्य, अवशिक (१) कमनीयनिर्माणस्यैक आश्रयो निखिलरमणीयवैलक्षण्यस्य, लवणिम्नोऽपि लवणिमा, विला"[F. 39. A] सो विलसितानाम्, असदृशरागतारागस्य, मोहनविद्या त...... चारिणी, तरुणिमा तारुण्यस्य, मोहस्यापि मोहः, चमत्कृतेरपि चमत्कारः, लावण्यस्यापि बहुमानहेतुः, एकमवस्थानमौपय॑स्य, अद्वितीयं वैरूप्यकरणं शशिकमलकुवलयेन्दीवरप्रभृतीनाम् , अनवस्था रूपातिशया"नवस्थायाः, ज्यावल्ली कामकार्मुकस्य, मूर्तस्थानं मनोभवस्य, रतिरपि रतेः, दौर्भाग्यदानकदेवता निखिलस्त्रीजातेः, उच्छेदैकहेतुः सामान्यबुद्धेः, उत्पत्तिनन्दनं शृङ्गारकल्पद्रमस्य, गृहीतमूर्तिः सारिमा संसारस्य,'......देवतासुखानाम् , अनौपम्यस्याऽप्यनौपम्यम् । नूतनी"लासकः सकलजननयनपुत्रिकानर्तकीनाम् , नूतनप्रतिपक्षो मदनजन्मनि पिनाकपाणे:, ......ता नयनामृतरसस्य, विजयपताका रामणीयकस्य, अत्यन्ताभावः साम्यस्य, छिन्नतर्षो निखिललोकलोचनानाम् , अजरामरताहेतुः कुसुम" [F. 39. B] सायकस्येति विचिन्तयन्नेव स्तम्भित इव मूञ्छित इव लिखित इव मोहित इव स्मरशरनिकरनिर्मथितमूर्तिः सुचिरमतिष्ठत् ।
सापि तमभि"नवे वयसि वर्तमानमतिमनोहराकृतिमतनुविभवश्रिया स्वीकृतत्वादतिस्निग्धच्छायमवलोक्य सञ्जातरागेव क्षणमभूत् । अतिस्निग्धया" च दृशा सविभ्रममुत्पादितानुरागं मुहुर्मुहुरपश्यत् । सच्छार्यतयैव विज्ञाततद्विभवोत्कर्षेवमचिन्तयच्च- अहो बहोः कालादासादि "तं निधानम् , चिरात् पल्लवितमाशाद्रुमेण, कुसुमितं कामनया, फलितं
१ परोपकृष्टता। २ विलासितानाम् । ३ विनष्टान्यत्र कानिचिदक्षराणि । एवं अन्यत्रापि ज्ञेयम् । . मौपमस्य। ५ नोपमस्या ६ सछातैत्यैव ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org